Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं - ३६, [ नि. ५५९]
२९१
मिच्छासूत्रं प्राग्वत्, ननु पुनरुक्तत्वादनर्थकमिदं सूत्रं, कृष्णलेश्यावगाहनमपि हिंसकत्वेन पञ्चाश्रवप्रमत्तत्वादितल्लक्षणाभिधानादर्थत उक्तमेवेति, अत्रोच्यते, नैवं, विशेषज्ञापनार्थत्वादस्य, “पुव्वभणियं तु पुच्छा जं भण्णति तत्थ कारणं बेंति ।
पडिसेहो य अनुन्ना करण (हेड) विसेसोवलंभा वा ॥ "
विशेषश्च सर्वत्र तथाविधसंक्लिष्टपरिणामरूपता द्रष्टव्या, अन्यथा हि सामान्येनैतद्विशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिदर्शनाद्यभिचार्येवेदं भवेदिति । इह चाद्येन सूत्रेण कन्दर्पभावनादीनां दुर्गतिरूपानर्थस्य निबन्धनत्वमुक्तमर्थाच्च तद्विपरीतभावनानां सुगतिस्वरूपार्थस्य द्वितीयेन मिथ्यादर्शनरक्तत्वादीनां दुर्लभबोधिलक्षणानर्थस्य तृतीयेन सम्यग्दनिरक्तत्वादीनां सुलभबोध्यात्मकार्थस्य चतुर्थेन उक्तनीत्या मिथ्यादर्शनरक्तत्वादीनामेव विशेषज्ञापनमिति सूत्रचतुष्टयार्थः ॥
अन्यच्च-जिनवचनाराधनामूलमेव सकलं संलेखनादि श्रेयोऽतस्तत्रैवाऽऽदरख्यापनायान्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह
मू. (१७२३ )
जिनवयणे अनुरत्ता जिनवयणं जे करेंति भावेणं ।
अमला असंकिलिट्ठा ते हुंति परित्तसंसारा ॥
मू. ( १७२४ ) बालमरनाणि बहुसो अकाममरनाणिं चेव बहुयाणि । मरिहंति ते वराया जिनवयणं जे न याणंति ॥
वृ. जिना इहार्थात्तीर्थकृतस्तेषामुच्यत इति वचनम् आगमो जिनवचनं तस्मिन् 'अनुरक्ताः ' सततं प्रतिबद्धा:, तथा 'जिनवचनम्' इति वाच्यवाचकयोरभेदोपचाराज्जिनवचनाभिहितमनुष्ठानं ये 'कुर्वन्ति' अनुतिष्ठन्ति 'भावेन' आन्तरपरिणामेन न तु बहिर्वृत्त्यैव तत एवाविद्यमानो मल इति बावमलस्तदनुष्ठानमालिन्यहेतुमिथ्यात्वादिरेषामित्यमलाः, तथा 'असंक्लिष्टाः ' रागादिसङ्क्लेशरहितास्ते ‘भवन्ति' जायन्ते परितः समस्तदेवादिभवाल्पतापादनेन समन्तात्खण्डितः परिमित इतियावत् स चासौ संसारश्च स विद्यते येषां तेऽमी परीतसंसारिणः- कतिपयभवाभ्यन्तरमुक्तिभाज इति योऽर्थः, सूत्रे च प्राकृतत्वाद्वचनव्यत्ययः ।
‘बालमरणैः' विषभक्षणोद्बन्धननिबन्धनैः 'बहुशः' अनेकधा 'अकाममरणानि' यान्यत्यन्तविषयगृध्नुत्वेनानिच्छतां भवन्ति तैश्च, उभयत्र सुब्व्यत्ययः प्राग्वत्, 'एव चे 'ति पूरणे 'बहूनि ' अनेकानि मरिष्यन्ते ते ‘वराका:' बहुदुःखभाजनतयाऽनुकम्पनीया: 'जिनवचनम्' उक्तरूपं ये ' न जानन्ति' नावबुध्यन्ते ज्ञानफलत्वादनुष्ठानस्य न चानुतिष्ठन्तीति सूत्रद्वयार्थः ॥
यतश्चैवमतो जिनवचनं भावतः कर्त्तव्यं, तद्भावकरणं चालोचनया, सा च न तच्छ्रवणार्हान् विना, ते च न हेतुव्यतिरेकेणेति यैर्हेतुभिरमीभवन्ति तानाह
मू. ( १७२५ ) बहु आगमविन्नाणा समाहिउप्पायगा य गुणगाही । एएण कारणेणं अरिहा आलोयणं सोउं ॥
PUS
वृ. बहुः - अङ्गोपाङ्गादिबहुभेदतया बह्वर्थतया वा स चासावागमश्च श्रुतं बह्वागमस्तस्मिन् विशिष्टज्ञानम् - अवगम एषामिति बह्वागमविज्ञाना: 'समाहि' त्ति समाधेः-उक्तरूपस्योत्पादकाकिमुक्तं भवति ? - देशकालाशयादिविज्ञतया समाधिमेव मधुरगम्भीरभणितिप्रभृति
जनकाः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316