Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 291
________________ २८८ निगमयितुमाह मू. ( १७११ ) संसारत्था य सिद्धाय, इइ जीवा वियाहिया । रूविणो चेवऽरूवी य, अजीवा दुविहावि य ॥ वृ. संसारस्थाश्च सिद्धाश्च 'इति' इत्येवंप्रकारा जीवाः 'व्याख्याता: ' विशेषेण-सकलभेदाभिव्याप्त्या प्रकथिताः, रूपिणश्चैव 'रूवी य'त्ति अकारप्रश्लेषादरूपिणश्चाजीवा द्विविधा अपि व्याख्याता इति योग इति सूत्रार्थः ॥ यदुक्तं 'जीवाजीवविभक्ति शृणुतैकमनस' इति तत्र जीवाजीवविभक्तिमभिधाय ' शृणुतैकमनस' इति वचनात् क्वचि (कश्चित् श्रवणश्रद्धानमात्रेणैव कृतार्थतां मन्येतातस्तदाशङ्कापनोदार्थमाह मू. ( १७१२ ) उत्तराध्ययन- मूलसूत्रम् - २-३६ / १७१० इइ जीवमजीवे य, सुच्चा सद्दहिऊण य । सव्वनयाण अनुमए, रमिज्जा संजमे मुनी ॥ वृ. 'इति' इत्येवंप्रकारान् 'जीवमजीवेय'त्ति जीवाजीवान् 'एतान्' अनन्तरोक्तान् ' श्रुत्वा' अवधार्य ' श्रद्धाय च' तथेति प्रतिपद्य सर्वे च ते नयाश्च सर्वनया-ज्ञानक्रियानयान्तर्गता नैगमादयस्तेषामनुमतः - अभिप्रेतस्तस्मिन् कोऽर्थः ? ज्ञानसहितसम्यक्चारित्ररूपे ' रमेत' रतिं कुर्यात्, क्व? -सम्यग्यमन-पृथिव्यादिजीवोपमर्दतस्तृणपञ्चकाद्यजीवोपादानादेश्चोपरमणं संयमस्तस्मिन् 'मुनिः ' उक्तरूप इति सूत्रार्थः ॥ संयमरतिकरणानन्तरं यद्विधेयं तदाहतओ बहूनि वासाणि, सामन्नमनुपालिया । इमेण कमजोगेणं, अप्पाणं संलिहे मुनी ॥ मू. ( १७१३ ) वृ. 'ततः' तदनन्तरं 'बहूनि अनेकानि वर्षाणि 'श्रामण्यं' श्रमणभावम् ' अनुपाल्य' आसेव्य 'अनेन' अनन्तरमेव वक्ष्यमाणेन क्रमः - परिपाटी तेन योगः- तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेनात्मानं 'संलिखेत्' द्रव्यतो भावतश्च कृशीकुर्यान्मुनिः, इह च बहूनि वर्षाणि श्रामण्यमनुपाल्येत्यभिदधता न प्रव्रज्याप्रतिपत्त्यनन्तरमेवैतद्विधिरित्युपदर्शितम्, उक्तं हि "परिपालितो य दीहो परियाओ वायणा तहा दिना । निप्फाइया य सीसा सेयं मे अप्पणो काउं ॥ " इति सूत्रार्थः ॥ सम्प्रति यदुक्तम्-'अनेन क्रमयोगेन संलिखेदिति, तत्र कोऽसौ क्रमयोग ? इति प्रश्नसम्भवे संलेखगाभेदाभिधानपूर्वकं तमाह मू. ( १७१४ ) मू. (१७१५ ) मू. (१७१६ ) बारसेव उ वासाई, संलेहुक्कोसिया भवे । संवच्छरं मज्झिमिया, छम्मासा य जहन्निया ॥ पढमे वासचउक्कं मि विगई (वित्ति) निज्जूहणं करे । बिइए वासचउक्कमि, विचित्तं तु तवं चरे ॥ अगंतरमायामं, कद्दू संवच्छरे दुवे ! तओ संवच्छरऽद्धं तु, नाइविगिद्वं तवं चरे ॥ तओ संवच्छरद्धं तु, विगिद्वं तु तवं चरे । परिमियं चेव आयाम, तंमि संवच्छरे करे ॥ कोडीसहियमायामं, कट्टु संवच्छरे मुनी । मू. ( १७१७ ) मू. ( १७१८ ) For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316