Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 288
________________ अध्ययनं - ३६, [ नि. ५५९] २८५ कल्प्यन्ते - इन्द्रसामानिकत्रायस्त्रिंशादिदशप्रकारत्वेन देवा एतेष्विति कल्पा- देवलोकास्तानुपगच्छन्ति - उत्पत्तिविषयतया प्राप्नुवन्तीति कल्पोपगाः, कल्पान्-उक्तरूपानतीता: तदुपरिवर्त्तिस्थानोत्पन्नतया निष्क्रान्ताः कल्पातीताः । 'सोहम्मीसाणग' त्ति सुधर्मा नाम शक्रस्य सभा(सा)s स्मिन्नस्तीति सौधर्मः कल्पः स एषामवस्थितिविषयोऽस्तीति सौधर्मिणः, तथेशानो नाम द्वितीयदेवलोकस्तन्निवासिनो देवा अपि ईशानास्त एवेशानकाः एवमुत्तरत्रापि व्युत्पत्तिः कार्याः । ग्रीवेव ग्रीवा लोक पुरुषस्य त्रयोदशरज्जूपरिवर्त्ती प्रदेशस्तस्मिन्निविष्टतयाऽतिभ्राजिष्णुतया च तदाभरणभूता ग्रैवेया- देवावासास्तन्निवासिनो देवा अपि ग्रैवेयाः, न विद्यन्ते उत्तराः -- प्रधानाः स्थितिप्रभावसुखद्युतिलेश्यादिभिरेभ्योऽन्ये देवा इत्यनुत्तराः, 'हेट्ठिम'त्ति अधस्तना उपरितनषक्टापेक्षया प्रथमास्त्रयस्तेष्वपि 'हेट्ठिम'त्ति अधस्तनाः अधस्तनाधस्तना:- प्रथमत्रिकाधोवर्त्तिनः, ‘हेट्ठिमा मज्झिमा तह'त्ति 'अधस्तनमध्यमाः ' प्रथमत्रिकमध्यवर्त्तिनः, 'हिट्ठिमा उवरिमा चेव'त्ति' अधस्तेनोपरितनाः ' प्रथमत्रिकोपरिवर्तिनः, मध्ये भवा मध्यमा-मध्यमत्रिकवर्त्तिनस्तेष्वप्यधस्तना मध्यमाधस्तनाः, एवं मध्यममध्यमामध्यमोपरितनाः, , उपरितनाउपरिवर्त्तिनस्तेष्वप्यधस्तना उपरितनाधस्तनाः, एवमुपरितनमध्यमाउपरितनोपरितनाः, 'इति' भेदसमाप्तौ, तत एतावद्भेदा एव ग्रैवेयकाः सुराः, अभ्युदयविघ्नहेतून् विजयन्त इति विजयास्तथैव वैजयन्ताः, 'उणादयो बहुल 'मिति बहुलवचनात् घञ्प्रत्यये उपसर्गेकारस्यैकारः, एवं जयन्ताः परैः-अन्यैरभ्युदयविघ्नहेतुभिरजिता-अनभिभूता: अपराजिताः सर्वेऽर्थाः सिद्धा इव सिद्धा येषां ते सर्वार्थसिद्धाः, ते हि विजितप्रायकर्माणः, उपस्थित भद्रा एव तत्रोत्पत्तिभाजः, इतीत्यादि निगमनम्, " अत्र च वैमानिका इति वैमानिक भेदाः, सामान्यविशेषयोः कथञ्चिदनन्यत्वाद्, एवमादय इत्यादिशब्दस्य प्रकारवचनत्वादेवंप्रकारा इत्येकादशसूत्रार्थः ॥ मू. ( १६८० ) मू. ( १६८१ ) मू. ( १६८२ ) मू. (१६८३ ) लोगस्स एगदेसंमि, ते सव्वे परिकित्तया । इत्तो कालविभागं तु, तेसिं वुच्छ चउव्विहं ॥ संतई पप्पऽणाईया, अपज्जवसियावि य । ठिइं पडुच्च साईया, सपज्जवसियावि य ॥ साहीयं सागरं इक्कं, उक्कोसेन ठिई भवे । भोमिज्जाण जहन्त्रेणं, दसवाससहस्सिया ॥ पलि ओवममेगं तु, उक्कोसेन वियाहियं । वंतराणं जहन्त्रेणं, दसवाससहस्सिया ॥ पलिओवममेगं तु, वासलक्खेण साहियं । पलि ओवमट्टभागो, जोइसेसु जहन्निया ॥ दो चेव सागराई, उक्कोसेनं वियाहिया । सोहम्मंमि जहन्त्रेणं, एगं च पलिओवमं ॥ सागरा साहिया दुन्नि, उक्को सेन वियाहिया । ईसानंमि जहन्त्रेणं, साहियं पलिओवमं ॥ मू. ( १६८४ ) मू. ( १६८५ ) मू. (१६८६ ) For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316