________________
अध्ययनं - ३६, [ नि. ५५९]
२८५
कल्प्यन्ते - इन्द्रसामानिकत्रायस्त्रिंशादिदशप्रकारत्वेन देवा एतेष्विति कल्पा- देवलोकास्तानुपगच्छन्ति - उत्पत्तिविषयतया प्राप्नुवन्तीति कल्पोपगाः, कल्पान्-उक्तरूपानतीता: तदुपरिवर्त्तिस्थानोत्पन्नतया निष्क्रान्ताः कल्पातीताः । 'सोहम्मीसाणग' त्ति सुधर्मा नाम शक्रस्य सभा(सा)s स्मिन्नस्तीति सौधर्मः कल्पः स एषामवस्थितिविषयोऽस्तीति सौधर्मिणः, तथेशानो नाम द्वितीयदेवलोकस्तन्निवासिनो देवा अपि ईशानास्त एवेशानकाः एवमुत्तरत्रापि व्युत्पत्तिः कार्याः ।
ग्रीवेव ग्रीवा लोक पुरुषस्य त्रयोदशरज्जूपरिवर्त्ती प्रदेशस्तस्मिन्निविष्टतयाऽतिभ्राजिष्णुतया च तदाभरणभूता ग्रैवेया- देवावासास्तन्निवासिनो देवा अपि ग्रैवेयाः, न विद्यन्ते उत्तराः -- प्रधानाः स्थितिप्रभावसुखद्युतिलेश्यादिभिरेभ्योऽन्ये देवा इत्यनुत्तराः, 'हेट्ठिम'त्ति अधस्तना उपरितनषक्टापेक्षया प्रथमास्त्रयस्तेष्वपि 'हेट्ठिम'त्ति अधस्तनाः अधस्तनाधस्तना:- प्रथमत्रिकाधोवर्त्तिनः, ‘हेट्ठिमा मज्झिमा तह'त्ति 'अधस्तनमध्यमाः ' प्रथमत्रिकमध्यवर्त्तिनः, 'हिट्ठिमा उवरिमा चेव'त्ति' अधस्तेनोपरितनाः ' प्रथमत्रिकोपरिवर्तिनः, मध्ये भवा मध्यमा-मध्यमत्रिकवर्त्तिनस्तेष्वप्यधस्तना मध्यमाधस्तनाः, एवं मध्यममध्यमामध्यमोपरितनाः, , उपरितनाउपरिवर्त्तिनस्तेष्वप्यधस्तना उपरितनाधस्तनाः, एवमुपरितनमध्यमाउपरितनोपरितनाः, 'इति' भेदसमाप्तौ, तत एतावद्भेदा एव ग्रैवेयकाः सुराः, अभ्युदयविघ्नहेतून् विजयन्त इति विजयास्तथैव वैजयन्ताः, 'उणादयो बहुल 'मिति बहुलवचनात् घञ्प्रत्यये उपसर्गेकारस्यैकारः, एवं जयन्ताः परैः-अन्यैरभ्युदयविघ्नहेतुभिरजिता-अनभिभूता: अपराजिताः सर्वेऽर्थाः सिद्धा इव सिद्धा येषां ते सर्वार्थसिद्धाः, ते हि विजितप्रायकर्माणः, उपस्थित भद्रा एव तत्रोत्पत्तिभाजः, इतीत्यादि निगमनम्,
"
अत्र च वैमानिका इति वैमानिक भेदाः, सामान्यविशेषयोः कथञ्चिदनन्यत्वाद्, एवमादय इत्यादिशब्दस्य प्रकारवचनत्वादेवंप्रकारा इत्येकादशसूत्रार्थः ॥
मू. ( १६८० )
मू. ( १६८१ )
मू. ( १६८२ )
मू. (१६८३ )
लोगस्स एगदेसंमि, ते सव्वे परिकित्तया । इत्तो कालविभागं तु, तेसिं वुच्छ चउव्विहं ॥ संतई पप्पऽणाईया, अपज्जवसियावि य । ठिइं पडुच्च साईया, सपज्जवसियावि य ॥ साहीयं सागरं इक्कं, उक्कोसेन ठिई भवे । भोमिज्जाण जहन्त्रेणं, दसवाससहस्सिया ॥ पलि ओवममेगं तु, उक्कोसेन वियाहियं । वंतराणं जहन्त्रेणं, दसवाससहस्सिया ॥ पलिओवममेगं तु, वासलक्खेण साहियं । पलि ओवमट्टभागो, जोइसेसु जहन्निया ॥ दो चेव सागराई, उक्कोसेनं वियाहिया । सोहम्मंमि जहन्त्रेणं, एगं च पलिओवमं ॥ सागरा साहिया दुन्नि, उक्को सेन वियाहिया । ईसानंमि जहन्त्रेणं, साहियं पलिओवमं ॥
मू. ( १६८४ )
मू. ( १६८५ )
मू. (१६८६ )
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org