Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 284
________________ अध्ययनं - ३६, [ नि. ५५९ ] --- संमूच्छिमा:, यदिवा समित्युत्पत्तिस्थानपुद्गलैः सहैकी भावेन मूर्च्छन्ति तत्पुद्गलोपचयात्समुच्छ्रिता भवन्तीत्यौणादिक इम्प्रत्यये संमूच्छिमास्ते च ते तिर्यञ्चः संमूच्छिमतिर्यञ्चो ये मनः पर्याप्तयभावत: सदा संमूच्छिता इवावतिष्ठन्ते, तथा गर्भे व्युत्क्रान्तिर्येषां तेऽमी गर्भव्युत्क्रान्तिकाः । जले चरन्ति-गच्छन्ति चरेर्भक्षणमित्यर्थ इति भक्षयन्ति चेति जलचराः, एवं स्थलंनिर्जलो भूभागस्तस्मिश्चरन्तीति स्थलचराः, तथा 'खहयर' त्ति सूत्रत्वात्खम्-आकाशं तस्मिश्चरन्तीति खचराः । 'यथोद्देशं निर्देश, इति जलचरभेदानाह-'भत्स्याः ' मीना: 'कच्छपा:' कूर्माः गृह्णन्तीति ग्राहा:- जलचरविशेषा मकरा: सुंसुमारा अपि तद्विशेषा एव । 'लोएगदेसे' त्यादिसूत्राणि षट् क्षेत्रकालभावाभिधायीनि, तथेह पृथक्त्वं द्विप्रभृत्यानवान्तम् । स्थलचरभेदानाह - परि-समन्तात्सर्पन्ति - गच्छन्तीति परिसर्पाः, एकसुखरादयश्च हयादिप्रभृतिभिर्यथाक्रमं योज्यन्ते, तत एकः खुरः- चरणे येषामधोवत्र्त्यस्थिविशेषो येषां ते एकखुरा:-हयादयः एवं ‘द्विखुराः ' गवादयो गण्डी- पद्मकर्णिका तद्वद्वृत्ततया पदानि येषां ते गण्डीपादाः - गजादयः 'सणप्फ'त्ति सूत्रत्वात्सह नखैः - नखरात्मकैर्वर्त्तन्त इति सनखानि तथाविधानि पदानि येषां ते सनखपदा:- सिंहादयः । 'भुओरगपरिसप्पा य'त्ति परिसर्पशब्दः प्रत्येकमभिसम्बध्यते, ततो भुजा इव भुजाः - शरीरावयवविशेषास्तैः परिसर्पन्तीति भुजपरिसर्पाः, उरो-वक्षस्तेन परिसर्पन्तीत्युरः परिसर्पाः, तस्यैव तत्र प्राधान्यात्, गोधादयः अहिः - सर्पस्तदादय इति यथाक्रमं योगः, एते च 'एकैके' इति प्रत्येकम् 'अनेकधा' अनेकभेदाः, गोधेरकनकुलादिभेदतो गोणसहाचप्रलापादिभेदेतः । २८१ पल्योपमानितुत्रीण्युत्कृष्टेन तु साधिकानि पूर्वकोटीपृथक्त्वेन उक्तरूपेण, पल्योपमायुषो हितेन पुनस्तत्रैवोत्पद्यन्ते, ये तु पूर्वकोट्ययुपो मृत्वा तत्रैवोपजायन्ते तेऽपि सप्ताष्ट वा भवग्रहणानि - यावत्, पञ्चेन्द्रियनरतिरश्चामधिकनिरन्तरभवान्तरासम्भवात्, उक्तं हि - "सत्तठ्ठ भवा उ तिरिमगुण'त्ति, अत एतावत एवाधिकस्य सम्भव इति भावना । खचरानाह - 'चम्मे उ'त्ति प्रक्रमात् 'चर्मपक्षिणिः' चर्मचटकाप्रभृतयः, चर्मरूपा एव हि तेषा पक्षा इति, तथा रोमप्रधानाः पक्षा रोमपक्षास्तद्वन्तः रोमपक्षिणः - राजहंसादयः 'समुद्गपक्षिणः' समुद्गकाकारपक्षवन्तः, ते च मानुषोत्तराद्बहिर्द्वीपवर्त्तिनः, 'विततपक्षिणः ' ये सर्वदा विस्तारिताभ्यामेव पक्षाभ्यामासते । इह च यत्क्षेत्रस्थित्यन्तरादि प्रत्येकं प्रोक्तनेन सदृशमपि पुनः पुनरुच्यते न पुनरतिदिश्यते तत्प्रपञ्चितज्ञविनेयानुग्रहार्थमेवंविधा अपि प्रज्ञापनीया एवेति ख्यापनार्थं चेत्यदुष्टमेवेति भावनीयमिति पञ्चविं (चतुर्विंशतिसूत्रार्थ: ।। इत्थं तिरश्चोऽभिधाय मनुजानभिधातुमाहमू. ( १६५८ ) मू. ( १६५९ ) मू. ( १६६० ) Jain Education International मनुया, दुविहभेया उ, ते मे कित्तयओ सुन। संमुच्छिमाइ मनुया, गब्भवक्कंतिया तहा ॥ गब्भवक्कंतिया जे उ, तिविहा ते वियाहिया । अकम्मकम्मभूमा य, अंतरद्दीवगा तहा ॥ पनरस तीसइविहा, भेआ अठ्ठवीसई । संखा उ कमसो तेसिं, इह एसा वियाहिया ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316