________________
अध्ययनं - ३६, [ नि. ५५९ ]
---
संमूच्छिमा:, यदिवा समित्युत्पत्तिस्थानपुद्गलैः सहैकी भावेन मूर्च्छन्ति तत्पुद्गलोपचयात्समुच्छ्रिता भवन्तीत्यौणादिक इम्प्रत्यये संमूच्छिमास्ते च ते तिर्यञ्चः संमूच्छिमतिर्यञ्चो ये मनः पर्याप्तयभावत: सदा संमूच्छिता इवावतिष्ठन्ते, तथा गर्भे व्युत्क्रान्तिर्येषां तेऽमी गर्भव्युत्क्रान्तिकाः । जले चरन्ति-गच्छन्ति चरेर्भक्षणमित्यर्थ इति भक्षयन्ति चेति जलचराः, एवं स्थलंनिर्जलो भूभागस्तस्मिश्चरन्तीति स्थलचराः, तथा 'खहयर' त्ति सूत्रत्वात्खम्-आकाशं तस्मिश्चरन्तीति खचराः । 'यथोद्देशं निर्देश, इति जलचरभेदानाह-'भत्स्याः ' मीना: 'कच्छपा:' कूर्माः गृह्णन्तीति ग्राहा:- जलचरविशेषा मकरा: सुंसुमारा अपि तद्विशेषा एव ।
'लोएगदेसे' त्यादिसूत्राणि षट् क्षेत्रकालभावाभिधायीनि, तथेह पृथक्त्वं द्विप्रभृत्यानवान्तम् । स्थलचरभेदानाह - परि-समन्तात्सर्पन्ति - गच्छन्तीति परिसर्पाः, एकसुखरादयश्च हयादिप्रभृतिभिर्यथाक्रमं योज्यन्ते, तत एकः खुरः- चरणे येषामधोवत्र्त्यस्थिविशेषो येषां ते एकखुरा:-हयादयः एवं ‘द्विखुराः ' गवादयो गण्डी- पद्मकर्णिका तद्वद्वृत्ततया पदानि येषां ते गण्डीपादाः - गजादयः 'सणप्फ'त्ति सूत्रत्वात्सह नखैः - नखरात्मकैर्वर्त्तन्त इति सनखानि तथाविधानि पदानि येषां ते सनखपदा:- सिंहादयः । 'भुओरगपरिसप्पा य'त्ति परिसर्पशब्दः प्रत्येकमभिसम्बध्यते, ततो भुजा इव भुजाः - शरीरावयवविशेषास्तैः परिसर्पन्तीति भुजपरिसर्पाः, उरो-वक्षस्तेन परिसर्पन्तीत्युरः परिसर्पाः, तस्यैव तत्र प्राधान्यात्, गोधादयः अहिः - सर्पस्तदादय इति यथाक्रमं योगः, एते च 'एकैके' इति प्रत्येकम् 'अनेकधा' अनेकभेदाः, गोधेरकनकुलादिभेदतो गोणसहाचप्रलापादिभेदेतः ।
२८१
पल्योपमानितुत्रीण्युत्कृष्टेन तु साधिकानि पूर्वकोटीपृथक्त्वेन उक्तरूपेण, पल्योपमायुषो हितेन पुनस्तत्रैवोत्पद्यन्ते, ये तु पूर्वकोट्ययुपो मृत्वा तत्रैवोपजायन्ते तेऽपि सप्ताष्ट वा भवग्रहणानि - यावत्, पञ्चेन्द्रियनरतिरश्चामधिकनिरन्तरभवान्तरासम्भवात्, उक्तं हि - "सत्तठ्ठ भवा उ तिरिमगुण'त्ति, अत एतावत एवाधिकस्य सम्भव इति भावना ।
खचरानाह - 'चम्मे उ'त्ति प्रक्रमात् 'चर्मपक्षिणिः' चर्मचटकाप्रभृतयः, चर्मरूपा एव हि तेषा पक्षा इति, तथा रोमप्रधानाः पक्षा रोमपक्षास्तद्वन्तः रोमपक्षिणः - राजहंसादयः 'समुद्गपक्षिणः' समुद्गकाकारपक्षवन्तः, ते च मानुषोत्तराद्बहिर्द्वीपवर्त्तिनः, 'विततपक्षिणः ' ये सर्वदा विस्तारिताभ्यामेव पक्षाभ्यामासते । इह च यत्क्षेत्रस्थित्यन्तरादि प्रत्येकं प्रोक्तनेन सदृशमपि पुनः पुनरुच्यते न पुनरतिदिश्यते तत्प्रपञ्चितज्ञविनेयानुग्रहार्थमेवंविधा अपि प्रज्ञापनीया एवेति ख्यापनार्थं चेत्यदुष्टमेवेति भावनीयमिति पञ्चविं (चतुर्विंशतिसूत्रार्थ: ।।
इत्थं तिरश्चोऽभिधाय मनुजानभिधातुमाहमू. ( १६५८ )
मू. ( १६५९ )
मू. ( १६६० )
Jain Education International
मनुया, दुविहभेया उ, ते मे कित्तयओ सुन। संमुच्छिमाइ मनुया, गब्भवक्कंतिया तहा ॥ गब्भवक्कंतिया जे उ, तिविहा ते वियाहिया । अकम्मकम्मभूमा य, अंतरद्दीवगा तहा ॥ पनरस तीसइविहा, भेआ अठ्ठवीसई । संखा उ कमसो तेसिं, इह एसा वियाहिया ॥
For Private & Personal Use Only
www.jainelibrary.org