________________
२८२
उत्तराध्ययन-मूलसूत्रम्-२-३६/१६६१ मू. ( १६६१) समुच्छिमाण. एसेव, भेओ होइ आहिओ।
लोगस्स एगदेसंमि, ते सव्वेवि वियाहिया। मू.(१६६२) संतई पप्पऽणाईया, अपज्जवसियाविय।
ठिई पडुच्च साईया, सपज्जवसियावि य॥ मू.(१६६३) पलिओवमाइं तिनि य, उक्कोसेन वियाहिया।
आउठिई मनुयाणं, अंतोमुहुत्तं जहन्नयं। मू.(१६६४) पलिओवमाइ तिन्नि उ, उक्कोसेन वियाहिया।
पुवकोडिपुत्तेणं, अंतोमुहुत्तं जहन्नयं ।। मू.(१६६५) कायठिई मनुयाणं, अंतरं तेसिमं भवे ।
अनंतकालमुक्कोसं, अंतोमहत्तं जहन्नयं। मू.(१६६६) एएसिं वन्नओ चेव, गंधओ रसफासओ।
संठाणादेसओ वावि, विहाणाई सहस्ससो॥ वृ. मनुएत्यादि सूत्रनवकं प्राग्वत्, नवरम् 'अकम्मकम्मभूमा यत्ति भूमेत्यस्य प्रत्येकमभिसम्बन्धात्सूत्रत्वाच्चाकर्मभूमौ भवा अकर्मभूमा एवं कार्मभूमाश्च, अन्तरम्-इह समुद्रमध्यं तस्मिन् द्वीपा अन्तरद्वीपास्तेषु जाता अन्तरद्वीपजाः । 'पनरसतीसइविह'त्ति विधशब्दस्य प्रत्येकमभिसम्बन्धात्पञ्चदशविधाः कार्मभूमाः, कर्मभूमीनां पञ्चदशसङ्ख्यत्वात्, तद्भेदे चामीषामिह भेदस्याभिधित्सितत्वात्, पञ्चदशसङ्ख्यात्वं च भरतैरावतविदेहानां त्रयाणां प्रत्येकं पञ्चसंख्यत्वात्, त्रिंशद्विधा अकर्मभूमाः, अत्राप्यकर्मभूमीनामेतावत्सङ्ख्यत्वं हेतुः, ता हि हैमवतहरिवर्षरम्यकहैरण्यवतदेवकुरूत्तरकुरुरूपाः पटप्रत्येकं पञ्चसङ्ख्यत्वेन त्रिंशद्भवन्ति, इह च क्रमत इत्युक्तावपि पश्चानिर्दिष्टानामपि कार्मभूमानां मुक्तिसाधकत्वेन प्राधान्यतः प्रथम भेदाभिधानं, पठन्ति च-'तीसंपन्नरसविहे ति, तत्र च यथोद्देशं सम्बन्धो, भेदाश्चाष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिपरिणामेन सम्बन्धनीयम्, इत्थं चैतत्तत्सडख्यत्वादन्तरद्वीपानां, ते हि हिमवतः पूर्वापरप्रान्तविदिक्प्रसृतकोटिषु त्रीणि त्रीणि योजनशतान्यवगाह्य तावन्त्येव योजनशतान्यायामविस्तराभ्यां प्रथमेऽन्तरद्वीपाः, ततोऽप्येकैकयोजनशतवृद्धावगाहनया योजनशतचतुष्टयाद्यायामविस्तरा द्वितीयादयः षट्।
तेषां च पूर्वोत्तरादिक्रमात्प्रादक्षिण्यतः प्रथमस्य चतुष्कस्य एकोरुक १ आभाषिको २ लाङ्गलिको ३ वैषाणिक ४ इति नाम, द्वितीयस्य हयकर्णो १ गजकर्णो २ गोकर्णः ३ शष्कुलीकर्णः ४, तृतीयस्य आदर्शमुखो १ मेषमुखो २ हयमुखो ३ मजमुखः ४, चतुर्थस्याश्वमुखो १ हस्तिमुखः २ सिंहमुखो ३ व्याघ्रमुखः ४, पञ्चमस्याश्वकर्णः १ सिंहकर्णः २ गजकर्णः ३ कर्णप्रावरणः ४, षष्ठस्योल्कामुखो १ विद्युन्मुखो २ जिह्वामुखो ३ मेघमुखः ४, सप्तमस्य घनदन्तो १ गूढदन्तः २ श्रेष्ठदन्तः ३ शुद्धदन्त ४ इति, एतन्नामान एव चैतेषु युगलधार्मिकाः प्रतिवसन्ति, तच्छरीरमानाद्यभिधायि चेदं गाथायुगलम्
"अंतरदीवेसु नरा घनुसय अठ्ठसिया सया मुइया। पालंति मिहुनभावं पल्लस्स असंखभागाऊ॥१॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org