Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 270
________________ अध्ययनं - ३६, [ नि. ५५९ ] - "सिद्धस्स सुहो रासी सव्वद्धापिंडितो जइ हवेज्जा । सोऽनंतवग्भइतो सव्वागासे न भाइज्जा ।।" इति, सुखं शर्म समित्येकीभावेन दुःखले साकलङ्कितत्वलक्षणेन प्राप्ताः, सुखमेव पुनर्विशिनष्टि- उयमा यस्य 'नास्ति तु' न विद्यत एव यदुक्तम् "लोके तत्सदृशो ह्यर्थः, कृत्स्रेऽप्यन्यो न विद्यते । उपमीयेत तद्येन, तस्मान्निरुपमं स्मृतम् ॥” न च विषया भावतस्तत्र सुखशब्दाभिधेयाभाव एवेत्याशङ्कनीयं, चतुरर्थत्वात्तस्य, लोके चतुविहार्थेषु, सुखशब्दः प्रयुज्यते । विषये वेदनाऽभावे, विपाके मोक्ष एव च ॥१॥ सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते । . दु:खोभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥२॥ पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम् । २६७ Jain Education International कर्मक्लेशविमोक्षाच्च, मोक्षे सुखमनुत्तमम् ||३||" ततश्च मोक्षस्यैव तत्र सुखशब्दाभिधेयत्वादसम्भव एवाशङ्कायाः, इह च जीवधना इत्यनेन सौमताभिमतमभावरूपत्वं मुक्तेः उत्तरविशेषणद्वयेन च 'सुखदुः खबुद्धीच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा नवात्मगुणास्तेषामत्यन्तोच्छित्तिर्निःश्रेयस'मिति वचनादचेतनत्वासुखिचत्वे च सिद्धस्य नैयायिकाद्यभिमते निराकुरुते, अभावरूपत्वे हि मुक्तेरर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनोऽन्त्यक्षणस्य क्षणान्तराजनना दवस्तुत्वं, तदवस्तुत्वे चावस्तुनो जन्यत्वायोगात्तत्पूर्वस्यापि क्षणस्य एवं पूर्वपूर्वक्षणानामपि सौगतस्याभावरूपतैव प्राप्तेति पूर्वसन्तानमिच्छतो मुक्तेरपि भावरूपता बलादायाति, तथा सर्वथाऽऽत्मगुणोच्छित्तिरूपतायां निःश्रेयसस्यात्मनोऽप्यभावप्रसक्ति:, सर्वथा गुणाभावे हि गुणिनोऽप्यभाव एव, अशेषरूपाद्यभाव इव घटादेरिति सूक्ष्मधिया भावनीयमिति । उक्तग्रन्थेनावगतमपि विप्रतिपत्तिनिराकरणार्थं पुनः क्षेत्रं स्वरूपं च तेषामाहमू. ( १५३१ ) लोएगदेसे ते सव्वे, नाणदंसणसन्निया । संसारपारनिच्छिन्ना, सिद्धिं वरगइं गया ॥ वृ. लोकैकदेशे पाठान्तरतो लोकाग्रदेशे वोक्तरूपे 'ते' इति सिद्धाः, अनेन 'मुक्ता: सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिता:' इत्यपास्तं भवति, सर्वगतत्वे ह्यात्मनामेतद् भवेत्, तथात्वे च सर्वत्र सर्वदा वेदनादिप्रसङ्गः, तथा 'सर्वेनिरवशेषा ज्ञानदर्शनसञ्ज्ञिता: संसारस्य पारः - पर्यन्तस्तं निस्तीर्णा ::- पुनरागमनाभावलक्षणेनाधिक्येनातिक्रान्ताः सिद्धिं वरगतिं गताः इति प्राग्वत्, इह चाद्येन विशेषणेन मा भूत्केषाञ्चिज्ज्ञानसञ्ज्ञा परेषां दर्शनसचैव केवला, किन्तूभे अपि सर्वेषामिति, द्वितीयेन "ज्ञानिनो धर्मतीर्थस्य, कर्त्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ।। " इति मते तेषामनिष्ठितार्थदोषप्रसङ्गेन पुनरावृत्तिरिति, तृतीयेन तु क्षीणकर्मत्वेन स्ववशत्वादिविशेषणवत्त्वेऽप्येषा स्ववशस्यानभिसन्धिः कृतकृत्यस्य च यथास्वभावेनास्योपयोग इष्टः, For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316