________________
अध्ययनं - ३६, [ नि. ५५९ ]
-
"सिद्धस्स सुहो रासी सव्वद्धापिंडितो जइ हवेज्जा । सोऽनंतवग्भइतो सव्वागासे न भाइज्जा ।।"
इति, सुखं शर्म समित्येकीभावेन दुःखले साकलङ्कितत्वलक्षणेन प्राप्ताः, सुखमेव
पुनर्विशिनष्टि- उयमा यस्य 'नास्ति तु' न विद्यत एव यदुक्तम्
"लोके तत्सदृशो ह्यर्थः, कृत्स्रेऽप्यन्यो न विद्यते । उपमीयेत तद्येन, तस्मान्निरुपमं स्मृतम् ॥”
न च विषया भावतस्तत्र सुखशब्दाभिधेयाभाव एवेत्याशङ्कनीयं, चतुरर्थत्वात्तस्य, लोके चतुविहार्थेषु, सुखशब्दः प्रयुज्यते । विषये वेदनाऽभावे, विपाके मोक्ष एव च ॥१॥ सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते । . दु:खोभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥२॥ पुण्यकर्मविपाकाच्च, सुखमिष्टेन्द्रियार्थजम् ।
२६७
Jain Education International
कर्मक्लेशविमोक्षाच्च, मोक्षे सुखमनुत्तमम् ||३||"
ततश्च मोक्षस्यैव तत्र सुखशब्दाभिधेयत्वादसम्भव एवाशङ्कायाः, इह च जीवधना इत्यनेन सौमताभिमतमभावरूपत्वं मुक्तेः उत्तरविशेषणद्वयेन च 'सुखदुः खबुद्धीच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा नवात्मगुणास्तेषामत्यन्तोच्छित्तिर्निःश्रेयस'मिति वचनादचेतनत्वासुखिचत्वे च सिद्धस्य नैयायिकाद्यभिमते निराकुरुते, अभावरूपत्वे हि मुक्तेरर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनोऽन्त्यक्षणस्य क्षणान्तराजनना दवस्तुत्वं, तदवस्तुत्वे चावस्तुनो जन्यत्वायोगात्तत्पूर्वस्यापि क्षणस्य एवं पूर्वपूर्वक्षणानामपि सौगतस्याभावरूपतैव प्राप्तेति पूर्वसन्तानमिच्छतो मुक्तेरपि भावरूपता बलादायाति, तथा सर्वथाऽऽत्मगुणोच्छित्तिरूपतायां निःश्रेयसस्यात्मनोऽप्यभावप्रसक्ति:, सर्वथा गुणाभावे हि गुणिनोऽप्यभाव एव, अशेषरूपाद्यभाव इव घटादेरिति सूक्ष्मधिया भावनीयमिति । उक्तग्रन्थेनावगतमपि विप्रतिपत्तिनिराकरणार्थं पुनः क्षेत्रं स्वरूपं च तेषामाहमू. ( १५३१ ) लोएगदेसे ते सव्वे, नाणदंसणसन्निया । संसारपारनिच्छिन्ना, सिद्धिं वरगइं गया ॥
वृ. लोकैकदेशे पाठान्तरतो लोकाग्रदेशे वोक्तरूपे 'ते' इति सिद्धाः, अनेन 'मुक्ता: सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिता:' इत्यपास्तं भवति, सर्वगतत्वे ह्यात्मनामेतद् भवेत्, तथात्वे च सर्वत्र सर्वदा वेदनादिप्रसङ्गः, तथा 'सर्वेनिरवशेषा ज्ञानदर्शनसञ्ज्ञिता: संसारस्य पारः - पर्यन्तस्तं निस्तीर्णा ::- पुनरागमनाभावलक्षणेनाधिक्येनातिक्रान्ताः सिद्धिं वरगतिं गताः इति प्राग्वत्, इह चाद्येन विशेषणेन मा भूत्केषाञ्चिज्ज्ञानसञ्ज्ञा परेषां दर्शनसचैव केवला, किन्तूभे अपि सर्वेषामिति, द्वितीयेन
"ज्ञानिनो धर्मतीर्थस्य, कर्त्तारः परमं पदम् ।
गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ।। "
इति मते तेषामनिष्ठितार्थदोषप्रसङ्गेन पुनरावृत्तिरिति, तृतीयेन तु क्षीणकर्मत्वेन स्ववशत्वादिविशेषणवत्त्वेऽप्येषा स्ववशस्यानभिसन्धिः कृतकृत्यस्य च यथास्वभावेनास्योपयोग इष्टः,
For Private & Personal Use Only
www.jainelibrary.org