________________
२६८
उत्तराध्ययन-मूलसूत्रम्-२-३६/१५३१ 'तथागतिः स्यात्स्वभावेने' ति वचनादुत्पत्तिसमये सक्रियत्वमप्यस्तीति ख्याप्यते, इदं च सूत्रं यत्र दृश्यते तत्रेत्थं नेयं, प्रत्यन्तरेषु च न दृश्यत एवेत्ति सूत्रार्थः । इत्थं यदुक्तं "संसारत्था स सिद्धा य, दुविहा जीवा वियाहिय"त्ति तत्र सिद्धा उक्ताः, साम्प्रतं संसारिण आहमू.(१५३२) संसारत्था उजे जीवा, दुविहा ते वियाहिया।
तसा य थावरा चेव, थावरा तिविहा तर्हि। वृ.संसारस्था इति प्राग्वत्तुशब्द: सिद्धेभ्यः सङ्ख्याकृतविशेषद्योतको ये जीवा द्विविधास्ते व्याख्याताः, द्वेविध्यमेवाह-त्रसाश्च स्थावराश्चैव, स्थावराः 'त्रिविधाः' त्रिप्रिकाराः 'तस्मिन्' इति द्वैविध्ये सति, अल्पवक्तव्यत्वाच्च पञ्चानिर्देशेऽपि प्रथमतः स्थावराभिधानमिति सूत्रार्थः ।। मू.(१५३३) पुढवी आउजीवा य, तहेव य वणस्सई।
इच्चेए थावरा तिविहा, तेसि भए सुनेह मे। - वृ. 'पुढवीआउजीवा य'त्ति जीवशब्दः प्रत्येकमभिसंबध्यते ततः पृथिव्येव जीवाः पृथिवीजीवाः आपो-जलं ता एव जीवा अब्जीवाश्च, तथैव च ‘वणस्सइ'त्ति प्रक्रमाद्वनस्पतिजीवाः ननु पृथिव्यादीनि जीवशरीराणि न त्वेतान्येव जीवा:, काठिन्यादिलक्षणानि ह्यमूनि जीवाः पुनरुपयोगलक्षणास्तत्कथं पृथिव्यादीन्येव जीवा इत्युक्तम् ?, उच्यते, जीवशरीरयोरन्योऽन्यानुगत्वेन विभागाभावादेवमुक्तं, न चैतदनाएं, यत उक्तम्-"अन्नोऽन्नानुगयाणं इमं च तं चत्ति विभयणमजुत्तं" इत्यादि 'इति' इत्युक्तप्रकारेण 'एते' पृथिव्यादयः स्थावरास्त्रिविधाः । उत्तरग्रन्थसम्बन्धनार्थमाह-'तेषाम्' इति पृथिव्यादीनां भेदान्' विकल्पान्'श्रृणुत' आकर्णयत 'मे' मम कथयत इति शेष इति सूत्रार्थः॥ मू.(१५३४) दुविहा पुढविजीवा उ, सुहुमा बायरा तहा।
पज्जत्तमाप्पज्जत्ता, एवमेव दुहा पुनो। मू.(१५३५) बायरा जे उपज्जत्ता, दुविहा ते वियाहिया।
सहा स्वरा य बोद्धव्वा, सण्हा सत्तविहा तर्हि। मू.(१५३६) किण्हा नीला य रुहिरा य, हालिद्दा सुकिला तहा।
__ पंडुपणगमट्टिया, खला छत्तीसईविहा॥ मू. (१५३७) पुढवी य सक्करा वालुया य उवले सला य लोणूसे।
अयतउयतबंसीसगरुप्पसुवने य वइरे य॥ मू. (१५३८) हरियाले हिंगुलुए मणोसिलासासगंजनपवाले।
अब्भपडलऽब्भवालुय बायरकाए मनिविहाणा॥ मू (१५३९) गोमिज्जए य रुयगे अंके फलिहे य लोहियक्खे य।
मरगयमसारगल्ले भुयमोयग इंदनीले य॥ मू.(१५४०) चंदनगेरुयहंसगब्भं पुलए सोगंधिए य बोद्धव्वे।
__ चंदप्पभवेरुलिए जलकंते सूरकंते य॥ वृ. 'द्विविधाः' द्विभेदाः पृथिवीजीवाः 'तुः' प्राग्वत् 'सूक्ष्माः' सूक्ष्मनामकर्मोदयाद् 'बादराः' बादरनामकर्मोदयात्, तथा 'पज्जत्तमपज्जत्त'त्ति तत्र 'पर्याप्ताः' आहारशरीरेन्द्रियोच्छा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org