________________
उत्तराध्ययन-मूलसूत्रम्-२-३६/१५२६ __वृ. योजनस्य 'तुः' वाक्यालङ्कारोपन्यासे यः तत्रे' त्येवं व्यवस्थिते सुळ्यत्ययेन वा 'तत्थ'त्ति तस्य' इषत्प्राग्भारोपरिवर्त्तिनः पठन्ति च-'तस्स'त्ति, 'क्रोशः' गव्यूतम् ‘उवरिम'त्ति उपरिवर्ती भवेत् 'तस्ये'ति प्रक्रान्तस्य क्रोशस्य ‘पङ्भागे' सत्रिभागत्रयस्त्रिंशदधिकधनुःशतत्रितयरूपे सिद्धानाम् ‘अवगाहना' अवस्थितिर्भवेदिति सूत्रार्थः ।। अवगाहना च ततश्चलनसम्भवेऽपि परमाण्वादीनामिवैकादिप्रदेशेषु भवेदत आह-तत्थ सूत्रम्। केचिदनन्तरसूत्रोत्तराद्धमधीयते-'कोसस्सवि य जो तत्थ, छब्भागो उवरिमो भवे'त्ति स्पष्टं। तत्र च किम् ? इत्याहमू. (१५२७) तत्थ सिद्धा महाभागा, लोगग्गमि पइट्ठिया।
भवप्पवंचउम्मुक्का, सिद्धिं वरगइंगया। वृ.'तो' त्यनन्तरमुपदर्शितरूपे 'सिद्धाः' उक्तरूपाः 'महाभागाः' अतिशयाचिन्त्यशक्तयो लोकाग्रे 'प्रतिष्ठिताः' सदावस्थिताः, एतच्च कुतः? इत्याह-भवा-नरकादयस्तेषां प्रपञ्चोविस्तरस्तेनोन्मुक्ताः-त्यक्ताः सन्तः ‘सिद्धि' सिद्धिनाम्नी वरा चेतरगत्यपेक्षया गतिश्च गम्यमानतया वरगतिस्तां गताः--प्राप्ताः, अयमाशयः-भवप्रपञ्च एव-चलने हेतुः स च सिद्धानां नास्तीति कुतस्तेषां तत्सम्भवः? इति सूत्रार्थः । तत्र गतीनां कस्य कियत्यवगाहना? इत्याहमू.(१५२८) उस्सेहो जस्स जो होइ, भवंमि चरमंमि उ।
तिभागहीना तत्तो य, सिद्धानोगाहणा भवे॥ ___ वृ. 'उत्सेध:' उच्छ्रयः प्रक्रमाच्छरीरस्य 'जस्स'त्ति 'येषां' सिद्धानां 'यः' इति यत्परिमानो
भवति भवे' जन्मनि चरमे' पर्यन्तवत्तिनि 'तु' विशेषणे इदमपि प्राग्भावप्रज्ञापनीयनयापेक्षयेति विशेषयति, 'त्रिभागहीना' त्रिभागोना ततश्चे'ति तत: पुनश्चरमभवोत्सेधात्सिद्धानां यत्तदोनित्याभिसम्बन्धात्तेषामवगाहन्तेऽस्यामिति अवगाहना-स्वप्रदेशसन्निचितः, निश्चयाभिप्रायेण सर्वस्य स्वनिष्ठत्वात्, इयं च शरीरविवरापूरणत एतावतीत्यवगन्तव्यम्, उक्तं हि-"देहतिभागो झुसिरं तत्पूरणतो तिभागहीण"त्ति, इति सूत्रार्थः ॥ एतानेव कालतः प्ररूपयितुमाहमू.(१५२९) एगत्तेण साइया, अपज्जवसियाविय।
पुहुत्तेन अनाइया, अपज्जवसियावि य॥ वृ. एकत्वेन' असहायत्वेन विवक्षिताः सादिका अपर्यवसिता अपि च, यत्र हि काले ते सिद्धन्ति स तेषामादिरस्ति न तु कदाचिन्मुक्तेर्धस्यन्तीति न पर्यवसानसम्भवः 'पृथक्त्वेन' महत्त्वेन बहुत्त्वेन सामस्त्यापेक्षयेतियावत्, किमित्याह- अनादिका अपर्यवसिता अपि च, न हि कदाचित्ते नाभूवन् न भविष्यन्ति चेति सूत्रार्थः ।। सम्प्रत्येषामेवोपाधिनिरपेक्ष स्वरूपमाहमू.(१५३०) अरूविणो जीवघना, नाणदंसणसनिया।
अउलं सुहसंपत्ता, उवमा जस्स नत्थि उ॥ वृ. रूपिणः-उक्तन्यायेन रूपरसगधस्पर्शवन्त: तद्विपरीता अरूपिणस्तेषां रूपाद्यभावात्, उक्तं ह्यागमे-“से न किण्हे न नीले" इत्यादि, जीवाश्च ते सततोप्युक्ततया घनाश्च-शुषिरपूरणतो निरन्तरनिचितप्रदेशतया जीवघना गमक त्वादिशेषणस्य परनिपात: ज्ञानदर्शने उक्तरूपे ते एव सञ्जा-सम्यग्वोधरूपा सञ्जातैषामिति तारकादेराकृतिगणत्वादितचि ज्ञानदर्शनसञ्जिताःज्ञानदर्शनोपयोगवन्तो न विद्यते तुलेव तुला-इयत्ता परिच्छेदहेतुरस्येति अतुलम्, अपरिमितत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org