Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 268
________________ - - अध्ययन-३६,[नि.५५९] . २६५ ऊर्ध्वं भवेत्' स्यात् ईषत्प्राग्भारेति नाम यस्याः सा ईपत्प्राग्भारनामा, 'अनो बहुव्रीहे' रिति निषेधान्नान्तत्वेऽपि डाप् न भवति, ईषदादिनामोपलक्षणं चैतत्, अनेकनामधेयाभिधेयत्वात्तस्याः, उक्तं हि-"ईसीति वाईसीपब्भारा इवा तनुइ वा तनुतणुतीति वा सिद्धीति वा सिद्धालएति वा मुत्ती ति वा मुत्तालएति वा लोयग्गेइ वा लोयग्गथूभियाईइ वा लोयपरिवुज्झणाति वा सव्वपाणभूयजीवसत्तसुहावहाति वे" त्यादि, 'पृथ्वी' भूमिश्छत्रम्-आतपत्रं तत्संस्थितमिव संस्थितं-संस्थानमस्या इति छत्रसंस्थिता, इह च विशेषानभिधानेऽप्युत्तानमेवेदं गृह्यते, आह यतो भगवान् भद्रबाहुः-"उत्तानयछत्तयसंठियाउ भणियाउ जिनवरेहिति"। पञ्चत्तत्वारिंशच्छतसहस्रान् योजनानां तुः' पूरणे 'आयता' दीर्घा तावइयं चेव'त्ति तावतश्चैव प्रक्रमाच्छतसहस्रान् ‘विस्तीर्णा' विस्तरतोऽपि, पञ्चचत्वारिंशच्छतसहस्रप्रमाणेति भावः त्रिगुणः 'तस्सेव'त्ति प्राग्वत् 'तस्माद्' उक्तरूपादायामात् 'परिरयः' परिधिः, इह च त्रिगुण इत्यभिधानेऽपि विशेषाधिक्यं दृष्टव्यं “सव्वं वटुंतिगुणं सविसेस'मिति वचनात्, अन्यथा हि पञ्चत्रिंशल्लक्षाधिकयोजनकोटिरेवैतत्परिमानं स्यात्, तथा च सूत्रान्तरविरोधो, यतस्तत्रोक्तम् “एगा जोयणकोडी बायालीसं भवे सयसहस्सं। . तीसं चेव सहस्सा दो चेव सया अउणपन्ना।" इति, पठन्ति च-'तिउणसाहियपडिरयं'ति। अष्टौ-अष्टख्यानि योजनानि बाहल्यं-स्थौल्यमस्या इत्यष्टयोजनबाहल्या 'से' तीषत्प्राग्भारा, किं सर्वत्राप्येवम्? इत्याह-'मध्ये' मध्यप्रदेशे व्याख्याता, किमित्येवम् ? अत आह-परि-समन्ताद्धीयमाना परिहीयमाना 'चरमंते'त्ति चरमान्तेषु' सकलदिग्भावर्तिषु पर्यन्तप्रदेशेषु मक्षिकायाः पत्रं-पक्षो मक्षिकापत्रम्, अपिशब्दस्य गम्यमानत्वात्तस्मादपि तनुतरी अतिपरिकृशेतियावत्, हानिश्चात्र विशेपानभिधानेऽपिप्रतियोजनमङ्गलपृथक्त्वं दृष्टव्या, तथा चान्यत्रावाचि “गतूण जोयणं तु परिहायइ अंगुलपहुत्तं"ति। (केचित्पठन्ति-) "अज्जुनसुवन्नगमई सा पुढवी निम्मला सहावेनं। उत्ताणगछत्तगसंठिया य भनिया जिनवरेहिं॥" तत्र चार्जुन-शुक्लं तच्च तत्सुवर्णकं चार्जुनसुवर्णकं तेन निर्वृत्ताऽर्जुनसुवर्णकमयी 'सा' इतीषत्प्राग्भारा 'निर्मला' स्वच्छा, किमुपाधिवशतः? इत्याह-'स्वभावेन' स्वरूपेण उत्तानकम्-उर्ध्वमुखं यच्छत्रमेव छत्रकं तत्संस्थिता च 'भणिता' उक्ता जिनवरैः, प्राक् सामान्यतश्छत्रसंस्थितेत्युक्तमिह तूत्तानत्वं तद्विशेष उच्यत इति न पौनरुक्त्यम्। शङ्खाङ्ककुन्दानि-प्रतीतानि तत्सङ्काशा-वर्णतस्तादृशी अत एव 'पंडुरे'ति 'पाण्डुरा' श्वेता 'निर्मला' निष्कलङ्का 'शुभा' अत्यन्तकल्याणावहा 'सुखा वा' सुखहेतुत्वेनेति सार्द्धसूत्रत्रयार्थः॥ म.(१५२५/२) सीआए जोअने तत्तो, लोयंतो उवियाहिओ। वृ. 'सीतायाः' सीताभिधानायाः पृथिव्या उपरीति शेषः, योजने 'ततः' इति तस्या उक्तरूपायाः 'लोकान्तः' लोकषर्यन्तः 'तुः' पूरणे व्याख्यात इति सूत्रार्द्धार्थः ॥ ननु यदि योजने लोकान्तस्तत्कि तत्र सर्वत्र सिद्धास्तिष्ठन्त्युतान्यथा? इत्याहमू.(१५२६) जोअणस्स उ जो तत्थ, कोसो उवरिमो भवे। तस्स कोसस्स छब्भाए, सिद्धानोगाहणा भवे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316