Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं-३६,[ नि. ५५९]
२५३ अनुमानतस्त्वितरथाऽपि द्रव्यस्य पर्यायविकलस्यासम्भवाद्गम्यन्त एवेति तत्प्ररूपणामनादृत्य द्रव्यतो रूपिणः प्ररूपयितुमाहमू. (१४७४) खंधा य खंधदेसा य, तप्पएसा तहेव य।
परमाणुणो अ बोद्धव्वा, रूविनो अ चउविहा॥ वृ.स्कन्दन्ति-शुष्यन्ति धीयन्ते च-पोष्यन्ते च पुद्गलानां विचटनेन चटनेन चेति स्कन्धाः 'चः' समुच्चये स्कन्धानां देशा-भागाः स्कन्धदेशाः चः प्राग्वत्, तेपां-स्कन्धानां प्रदेशानिरंशा भागास्तत्प्रदेशाः 'तथैव चे'ति समुच्चये परमाश्च तेऽणवश्च परमाणवः-निविभागद्रव्यरूपा: 'चः' समुच्चये 'बोद्धव्याः' अवगन्तव्या रूपिणः 'च:' पुनरर्थे ततो रूपिणः पुनः 'चतुर्विधाः' चतुष्प्रकाराः ।। इह च देशप्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाः परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदौ, तयोश्च किं लक्षणमित्याह-'एकत्वेन' समानपरिमतिरूपेण 'पृथक्त्वेन' परमाण्वन्तरैरसङ्घातरूपेण लक्ष्यन्त इति शेषः, के एवम् ? इत्याह-स्कन्धः चस्य भिन्नक्रमत्वात्परमाणवश्च, स्कन्धा हि संहतानेकपरमानुरूपाः, परमाणवश्च परमाण्वन्तरैरसंहतिभाजः।।
अथवा उक्तन्यायतो द्वैविध्ये कथममी स्कन्धाः परमाणवश्च जायन्ते? इत्याह-'एगत्तेण' सूत्रार्द्धम्, एकत्वेन द्वयोश्च त्रयाणां यावदनन्तानामनन्तानन्तानां च पृथग्भूतपरमाणूनामन्योऽन्यसङ्गाततो द्विप्रदेशिकत्वाद्यात्मकसमानपरिणतिरूपैकभावेन, तथा 'पृथक्त्वेन च, तत्रैकत्वेन कैश्चिदणुभिः संहन्यमानतयैकपरिणतिरूपेण पृथक्त्वेन च तत्समय एव केषाञ्चिदणूनां विचटनाभेदात्मकेन 'स्कन्धाः' द्विप्रदेशादय उत्पद्यन्त इति शेषः चशब्दस्य प्राग्वत्सम्बन्धात्परमाणवश्च, एकत्वेनेति तृतीया, तत एकत्वेन-असहायत्वेन लक्षितं यत्पृथक्त्वंस्कन्धेभ्यो विचटनात्मकं तोनोत्पद्यन्ते, एकत्वविशेषणं च यत्ससहायानां व्यणुकादीनां वास्तवं यच्चैकत्वपरिणतावपि देशादीनां बुद्धिपरिकल्पितं स्कन्धेभ्यः पृथक्त्वं न ततः परमाणव उत्पद्यन्त इत्याचष्टे, तथा चाह वाचक:-"संघाताद् भेदात् सङ्घातभेदादिति, एभ्यस्त्रिभ्यः कारणेभ्यः स्कन्धा उत्पद्यन्ते, तथा भेदादेव परमाणु"रिति । एतानेव क्षेत्रत आहमू. (१४७५) एगत्तेण पुहुत्तेणं, खंधा य परमाणु।
लोएगदेसे लोए अ, भइअव्वा ते उ खित्तओ।।
(एत्तो कालविभागं तु, तेसिं वुच्छं चउव्विह) वृ. लोकस्य-चतुर्दशरज्ज्वात्मकस्यैकदेशः-एकद्यादिसङ्ख्यातासङ्ख्यातप्रदेशात्मकः प्रतिनियतो भागो लोकैकदेशस्तस्मिन् लोके च 'भक्तव्याः' भजनया दर्शनीयाः 'ते' इति स्कन्धाः परमाणवश्च 'तुः' पूरणे क्षेत्रमाश्रित्य, अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेश एवावस्थानात्स्कन्धविषयैव भजना दृष्टव्या, ते हि विचित्रत्वात्परिणतेर्बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशे तिष्ठन्ति, यदुक्तम्-"एगेणवि से पुने दोहिवि पुण्णे सयंपि माइज्जे"त्यादि, अन्ये तु सङ्ख्येयेषु च प्रदेशेषु यावत्सकललोकेऽपि तथाविधाचित्तमहास्कन्धवद्भवेयुरिति भजनीया उच्यन्ते, 'अतः' इति क्षेत्रप्ररूपणातोऽनन्तरमिति गम्यते 'कालविभागं तु' कालभेदं पुनः 'तेषां' स्कन्दादीनां वक्ष्ये 'चतुर्विधं' साद्यनादिसपर्यवसितापर्यवसितभेदेनानन्तरमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316