Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२६०
उत्तराध्ययन-मूलसूत्रम्-२-३६/१५१४ पुरुषतुल्यसामर्थ्याभादादूर्ध्वगतावप्नि तासां तदभावोऽनुमीयते ततस्तासां पुरुषेभ्योऽ-- पकृष्माणतेति, तदप्ययुक्तं, यतो येषामधोगतौ तुल्यसामर्थ्याभावस्तेषामूर्ध्वगतावप्यनेन भाव्यमिति न नियमोऽस्ति, तथाहि
"समुच्छिमभुयगखगचउप्पयसप्पित्थिजलचरेहितो।
सनरेहितो सत्तसु कमोववज्जंति नरएसु॥" इति वचनाद्भुजगचतुष्पत्सर्पखगजलचरनराणामदोगतावतुल्यं सामर्थ्यमूर्ध्वगतौ तु
"सन्नितिरिक्खेहितो सहस्सारंतिएसु देवेसु।
उप्पज्जंति परेसुवि सव्वेसवि माणुसेहितो॥" इति वचनादेषामासह स्रारान्तोपपातात्तुल्यमेव सामर्थ्यम्, उक्तं च
"विषमगतयोऽप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम् ।
गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ।।" अतो नासप्तमनरकपृथ्वीगमनत्वेन विशिष्टसामर्थ्यासत्त्वम्, अथवावादिलब्धिरहितत्वेन, तदप्यचारु, यतो यदि वादादिलब्धिमत्त्वेन विशिष्टसामर्थ्यं व्याप्तमुपलब्धं भवेत्ततस्तनिवृत्तौ तस्य निवृत्तिः स्यात्, न चैवम्, अनयोर्व्याप्यव्यापकभावस्य क्वचिनिश्चयात्, अल्पश्रुतत्वं तु मुक्त्यवाप्त्याऽनुमितविशिष्टसामर्थैर्माषतुषादिभिरनैकान्तिकमित्युद्घोष्यमेव, यदप्यनुपस्थाप्यतापाराञ्चितकशून्यत्वेनेत्युच्यते, तदप्ययुक्तं, यतो न तनिषेधाद्विशिष्टसामर्थ्याभावः प्रतीयते, योग्यतापेक्षो हि चित्रः शास्त्रे विशुद्ध्यपदेशः, यदुक्तम्- .. - "संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे ।
रोगचिकित्साविदिरिव कस्यापि कथञ्चिदुपकारी॥" यच्च पुरुषानभिवन्द्यत्वं हेतुरुक्तः तदपिसामान्येन गुणाधिकपुरुषापेक्षं वा?, यदि सामान्येन तदाऽसिद्धतादोषः, तीर्थकरजनन्यादयो हि शक्रादिभिरपि प्रणताः किमङ्ग शेषपुरुषैः ?, गुणादिकपुरुषापेक्षं चेद्गणधरा अपि तीर्थकृद्भिर्नाभिवन्द्यत इति तेषामप्यपकृष्यमाणत्वम्, अथ तीर्थशब्दस्याद्यगणधराभिधायित्वात्तीर्थप्रणामपूर्वकत्वाच्चार्हद्देशनाया असिद्धमेव तदनभिवन्द्यत्वं गणधराणाम्, एवं तर्हि चातुर्वर्णसङ्घस्यापि तदभिधेयत्वात्तदन्तर्भावाच्च स्त्रीणामर्हद्भिरपि वन्द्यत्वे कथं पुरुषानभिवन्द्यत्वेन तासां तेभ्योऽपकृष्यमाणत्वम् ?, अथ स्मारणाद्यकर्तृत्वेन, एवं सति समानेऽपि रत्नत्रये शिष्याचार्ययोराचार्यस्यैव मुक्तिः स्यान्न शिष्यस्य, स्मारणाद्यकर्तृत्वेन तस्य ततोऽपकृष्यमाणत्वात्, न चैतदागमिकं, चण्डरुद्राद्याचार्यशिष्याणामागमे निःश्रेयसश्रवणात्, अथामहद्धिकत्वेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वं, तथा सति प्रष्टव्योऽसि-किमाध्यात्मिकीमृद्धिमाश्रित्य बाह्यांवा?, तत्र न तावदाध्यात्मिकीमुक्तन्यायतो रत्नत्रयस्य तासां समर्थितत्वात्, नापि बाह्यम्, एवं हि महत्या तीर्थकरादिलम्याश्चेतरक्ष(रेऽक्ष)त्रियादयो न भाजनमिति तेषामप्यमहद्धिकत्वेनापकृष्यमाणत्वान्मुक्तिकारणवैकल्यप्रसङ्गः, यदपि मायादिप्रकर्षवत्त्वेनेत्युच्यते, तदप्यसत्, तस्योभयोरपितुल्यत्त्वेन दर्शनादागमे च श्रवणात्, श्रूयते हि चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्त्वम्,
अतो न तासां पुरुषेभ्योऽपकृष्यमाणत्वेन कारणावैकल्यस्य हेतोरसिद्धता, यदपि निर्वाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316