Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 262
________________ अध्ययनं - ३६, [ नि. ५५९ ] २५९ तासां तदुपदेशः अन्यथा वा ?, यदि चारित्रोपकारित्वेन किं न पुरुषाणामपि ? अथाबला एवैता बलादपि पुरुपै: परिभुजन्यन्त इति तद्विना तासां चारित्रवाधासम्भवो न पुरुषाणामिति न तेषां तदुपदेशः, उक्तं च--" वस्त्रं विना न चरणं तासामित्यर्हतौच्यत । विनाऽपि पुंसामिति न्यवार्यते "ति, एवं सति न चेलाच्चारित्राभावस्तदुपकारित्वात्तस्य, तथाहि-यद्यस्योपकारि न तत्तस्याभावहेतु:, यथा घटस्य मृत्पिण्डादि, उपकारि चोक्तनीत्या चारित्रस्य चेलम्, अथान्यथेति प्रक्षः, अयमपि न क्षमो, यतोऽसौ चेलस्य चारित्रं प्रत्यौदासीन्येन बाधकतया वा ?, न चेदमस्मिन्नुभयमप्यस्ति, पुरुषाभिभवरक्षकत्वेन तस्य तासु तदुपकारितया अनन्तरमेवोक्तत्वात्, नापि चेलस्य परिग्रहरूपत्वेन चारित्राभावहेतुत्वं यतो मूर्च्छव परिग्रह इतीहैव परीपहाध्ययने निर्णीतं, यदी च चेलस्य परिग्रहरूपता तदा तथाविधरोगोपसर्गादिषु पुरुषाणामपि चेलसम्भवे चारित्राभावेन मुक्त्यभावः स्यात्, उक्तं च " " 'अर्शो भगन्दरादिषु गृहीतचीरो यतिर्न मुच्येत । उपसर्गे वा चीरे" इत्यादि, किञ्च - चेलस्य परिग्रहरूपत्वे-“आमे तालपलंबे भिन्ने अभिन्ने वा नो कप्पइ निग्गंथीणं परिग्गहित्तए वा" इत्यादि निर्ग्रन्थ्या व्यपदेशश्चागमे न श्रूयते, अतो न सचेलत्वेन चारित्रासम्भवः, नापि स्त्रीत्वस्य चारित्रविरोधित्वेन यतो यदि स्त्रीत्वस्य चारित्रविरोधः स्यात्तदाऽ विशेषेणैव तासां प्रव्राजनं निषेध्येत, न तु विशेषेण, यथोच्यते - "गब्भिणी बालवच्छा य, पव्वावेउं न कप्पइ"त्ति, नापि मन्दत्त्वतया, यतः सत्त्वमिह व्रततपो धारणविषयमेषितव्यम्, अन्यस्यानुपयोगित्वात्, तच्च तास्वप्यनल्पं सुदुर्धरशीलवतीषु संभवति, उक्तं च"ब्राह्मीसुन्दर्यार्याराजीमती चन्दनागणधराद्याः । अपि देवमनुजमहिता विख्याताः शीलसत्त्वाभ्याम्॥" mom अतो न चारित्रासम्भवेन विशिष्टरत्नत्रयस्याभाव:, इत्थं च चारित्रसम्भवे सिद्ध एव ज्ञानदर्शनसम्भवः, तत्पूर्वकत्वात्तस्य, उक्तं हि "पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः " इति, तदभावपक्षोऽपिनाश्रयणीयः, त्रयाभावपक्षस्त्वेवं त्रितयसिद्धावनवसर एव, दृश्यन्ते च सम्प्रत्यपि त्रितयमभ्यस्यन्त्यस्ताः, उक्तं च- "जानीते जिनवचनं श्रद्धत्ते चरिति चार्यिकाऽशबलम्"इति, अथ प्रकर्षपर्यन्तप्राप्तस्याभावः, एवं तर्हि तस्याप्यभावः किं कारणाभावेन विरोधिसम्भवेन वा ?, न तावत्कारणाभावेन, अविशिष्टरत्नत्रयाभ्यासस्यैव तन्निबन्धत्वेनागमेऽभिधानात्, तस्य च स्त्रीष्वनन्तरमेव समर्थितत्वात्, नापि विरोधिसम्भवेन, तस्यास्मादृशामत्यन्तपरोक्षत्वेन केनचिद्धिरोधानिर्णयादिति न रत्नत्रयाभावेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वम्, अथ विशिष्टसामर्थ्यासत्त्वेन, इदमपि कथमिति वाच्यं ?, किं तावद् असप्तमनरकपृथ्वीगमनत्वेनाहोस्विद्वादादिलब्धिरहितत्वेनाल्पश्रुतत्वेनानुपस्थाप्यतापाराञ्चितकशून्यत्वेन वा ?, तत्र न तावदसप्तमनरकपृथ्वीगमनत्वेन, यतोऽत्र किं सप्तमनरकपृथ्वीगमनाभावो यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्येत सामान्येन वा ?, तत्र तद्याद्यो विकल्पस्तदा पुरुषाणामपि यत्र जन्मनि मुक्तिगामिता न तत्रैव सप्तमपृथ्वीगमनमिति तेषामपि मुक्त्यभावप्रसङ्गः, अथ सामान्येन, अत्र चायमाशयो-यथा "छट्टि च इत्थियाओ मच्चा मनुया य सत्तमीं पुढवीं" इत्यागमनवचनात्पुरुषाणामेव सप्तमनरकपृथ्वीगमनयोग्य कर्मोपार्जनसामर्थ्यं न स्त्रीणामित्यधोगतौ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316