________________
अध्ययनं - ३६, [ नि. ५५९ ]
२५९
तासां तदुपदेशः अन्यथा वा ?, यदि चारित्रोपकारित्वेन किं न पुरुषाणामपि ? अथाबला एवैता बलादपि पुरुपै: परिभुजन्यन्त इति तद्विना तासां चारित्रवाधासम्भवो न पुरुषाणामिति न तेषां तदुपदेशः, उक्तं च--" वस्त्रं विना न चरणं तासामित्यर्हतौच्यत ।
विनाऽपि पुंसामिति न्यवार्यते "ति, एवं सति न चेलाच्चारित्राभावस्तदुपकारित्वात्तस्य, तथाहि-यद्यस्योपकारि न तत्तस्याभावहेतु:, यथा घटस्य मृत्पिण्डादि, उपकारि चोक्तनीत्या चारित्रस्य चेलम्, अथान्यथेति प्रक्षः, अयमपि न क्षमो, यतोऽसौ चेलस्य चारित्रं प्रत्यौदासीन्येन बाधकतया वा ?, न चेदमस्मिन्नुभयमप्यस्ति, पुरुषाभिभवरक्षकत्वेन तस्य तासु तदुपकारितया अनन्तरमेवोक्तत्वात्, नापि चेलस्य परिग्रहरूपत्वेन चारित्राभावहेतुत्वं यतो मूर्च्छव परिग्रह इतीहैव परीपहाध्ययने निर्णीतं, यदी च चेलस्य परिग्रहरूपता तदा तथाविधरोगोपसर्गादिषु पुरुषाणामपि चेलसम्भवे चारित्राभावेन मुक्त्यभावः स्यात्, उक्तं च
"
"
'अर्शो भगन्दरादिषु गृहीतचीरो यतिर्न मुच्येत । उपसर्गे वा चीरे" इत्यादि, किञ्च - चेलस्य परिग्रहरूपत्वे-“आमे तालपलंबे भिन्ने अभिन्ने वा नो कप्पइ निग्गंथीणं परिग्गहित्तए वा" इत्यादि निर्ग्रन्थ्या व्यपदेशश्चागमे न श्रूयते, अतो न सचेलत्वेन चारित्रासम्भवः, नापि स्त्रीत्वस्य चारित्रविरोधित्वेन यतो यदि स्त्रीत्वस्य चारित्रविरोधः स्यात्तदाऽ विशेषेणैव तासां प्रव्राजनं निषेध्येत, न तु विशेषेण, यथोच्यते - "गब्भिणी बालवच्छा य, पव्वावेउं न कप्पइ"त्ति, नापि मन्दत्त्वतया, यतः सत्त्वमिह व्रततपो धारणविषयमेषितव्यम्, अन्यस्यानुपयोगित्वात्, तच्च तास्वप्यनल्पं सुदुर्धरशीलवतीषु संभवति, उक्तं च"ब्राह्मीसुन्दर्यार्याराजीमती चन्दनागणधराद्याः ।
अपि देवमनुजमहिता विख्याताः शीलसत्त्वाभ्याम्॥"
mom
अतो न चारित्रासम्भवेन विशिष्टरत्नत्रयस्याभाव:, इत्थं च चारित्रसम्भवे सिद्ध एव ज्ञानदर्शनसम्भवः, तत्पूर्वकत्वात्तस्य, उक्तं हि "पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः " इति, तदभावपक्षोऽपिनाश्रयणीयः, त्रयाभावपक्षस्त्वेवं त्रितयसिद्धावनवसर एव, दृश्यन्ते च सम्प्रत्यपि त्रितयमभ्यस्यन्त्यस्ताः, उक्तं च- "जानीते जिनवचनं श्रद्धत्ते चरिति चार्यिकाऽशबलम्"इति, अथ प्रकर्षपर्यन्तप्राप्तस्याभावः, एवं तर्हि तस्याप्यभावः किं कारणाभावेन विरोधिसम्भवेन वा ?, न तावत्कारणाभावेन, अविशिष्टरत्नत्रयाभ्यासस्यैव तन्निबन्धत्वेनागमेऽभिधानात्, तस्य च स्त्रीष्वनन्तरमेव समर्थितत्वात्, नापि विरोधिसम्भवेन, तस्यास्मादृशामत्यन्तपरोक्षत्वेन केनचिद्धिरोधानिर्णयादिति न रत्नत्रयाभावेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वम्, अथ विशिष्टसामर्थ्यासत्त्वेन, इदमपि कथमिति वाच्यं ?, किं तावद् असप्तमनरकपृथ्वीगमनत्वेनाहोस्विद्वादादिलब्धिरहितत्वेनाल्पश्रुतत्वेनानुपस्थाप्यतापाराञ्चितकशून्यत्वेन वा ?, तत्र न तावदसप्तमनरकपृथ्वीगमनत्वेन, यतोऽत्र किं सप्तमनरकपृथ्वीगमनाभावो यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्येत सामान्येन वा ?, तत्र तद्याद्यो विकल्पस्तदा पुरुषाणामपि यत्र जन्मनि मुक्तिगामिता न तत्रैव सप्तमपृथ्वीगमनमिति तेषामपि मुक्त्यभावप्रसङ्गः, अथ सामान्येन, अत्र चायमाशयो-यथा "छट्टि च इत्थियाओ मच्चा मनुया य सत्तमीं पुढवीं" इत्यागमनवचनात्पुरुषाणामेव सप्तमनरकपृथ्वीगमनयोग्य कर्मोपार्जनसामर्थ्यं न स्त्रीणामित्यधोगतौ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org