SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २६० उत्तराध्ययन-मूलसूत्रम्-२-३६/१५१४ पुरुषतुल्यसामर्थ्याभादादूर्ध्वगतावप्नि तासां तदभावोऽनुमीयते ततस्तासां पुरुषेभ्योऽ-- पकृष्माणतेति, तदप्ययुक्तं, यतो येषामधोगतौ तुल्यसामर्थ्याभावस्तेषामूर्ध्वगतावप्यनेन भाव्यमिति न नियमोऽस्ति, तथाहि "समुच्छिमभुयगखगचउप्पयसप्पित्थिजलचरेहितो। सनरेहितो सत्तसु कमोववज्जंति नरएसु॥" इति वचनाद्भुजगचतुष्पत्सर्पखगजलचरनराणामदोगतावतुल्यं सामर्थ्यमूर्ध्वगतौ तु "सन्नितिरिक्खेहितो सहस्सारंतिएसु देवेसु। उप्पज्जंति परेसुवि सव्वेसवि माणुसेहितो॥" इति वचनादेषामासह स्रारान्तोपपातात्तुल्यमेव सामर्थ्यम्, उक्तं च "विषमगतयोऽप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ।।" अतो नासप्तमनरकपृथ्वीगमनत्वेन विशिष्टसामर्थ्यासत्त्वम्, अथवावादिलब्धिरहितत्वेन, तदप्यचारु, यतो यदि वादादिलब्धिमत्त्वेन विशिष्टसामर्थ्यं व्याप्तमुपलब्धं भवेत्ततस्तनिवृत्तौ तस्य निवृत्तिः स्यात्, न चैवम्, अनयोर्व्याप्यव्यापकभावस्य क्वचिनिश्चयात्, अल्पश्रुतत्वं तु मुक्त्यवाप्त्याऽनुमितविशिष्टसामर्थैर्माषतुषादिभिरनैकान्तिकमित्युद्घोष्यमेव, यदप्यनुपस्थाप्यतापाराञ्चितकशून्यत्वेनेत्युच्यते, तदप्ययुक्तं, यतो न तनिषेधाद्विशिष्टसामर्थ्याभावः प्रतीयते, योग्यतापेक्षो हि चित्रः शास्त्रे विशुद्ध्यपदेशः, यदुक्तम्- .. - "संवरनिर्जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । रोगचिकित्साविदिरिव कस्यापि कथञ्चिदुपकारी॥" यच्च पुरुषानभिवन्द्यत्वं हेतुरुक्तः तदपिसामान्येन गुणाधिकपुरुषापेक्षं वा?, यदि सामान्येन तदाऽसिद्धतादोषः, तीर्थकरजनन्यादयो हि शक्रादिभिरपि प्रणताः किमङ्ग शेषपुरुषैः ?, गुणादिकपुरुषापेक्षं चेद्गणधरा अपि तीर्थकृद्भिर्नाभिवन्द्यत इति तेषामप्यपकृष्यमाणत्वम्, अथ तीर्थशब्दस्याद्यगणधराभिधायित्वात्तीर्थप्रणामपूर्वकत्वाच्चार्हद्देशनाया असिद्धमेव तदनभिवन्द्यत्वं गणधराणाम्, एवं तर्हि चातुर्वर्णसङ्घस्यापि तदभिधेयत्वात्तदन्तर्भावाच्च स्त्रीणामर्हद्भिरपि वन्द्यत्वे कथं पुरुषानभिवन्द्यत्वेन तासां तेभ्योऽपकृष्यमाणत्वम् ?, अथ स्मारणाद्यकर्तृत्वेन, एवं सति समानेऽपि रत्नत्रये शिष्याचार्ययोराचार्यस्यैव मुक्तिः स्यान्न शिष्यस्य, स्मारणाद्यकर्तृत्वेन तस्य ततोऽपकृष्यमाणत्वात्, न चैतदागमिकं, चण्डरुद्राद्याचार्यशिष्याणामागमे निःश्रेयसश्रवणात्, अथामहद्धिकत्वेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वं, तथा सति प्रष्टव्योऽसि-किमाध्यात्मिकीमृद्धिमाश्रित्य बाह्यांवा?, तत्र न तावदाध्यात्मिकीमुक्तन्यायतो रत्नत्रयस्य तासां समर्थितत्वात्, नापि बाह्यम्, एवं हि महत्या तीर्थकरादिलम्याश्चेतरक्ष(रेऽक्ष)त्रियादयो न भाजनमिति तेषामप्यमहद्धिकत्वेनापकृष्यमाणत्वान्मुक्तिकारणवैकल्यप्रसङ्गः, यदपि मायादिप्रकर्षवत्त्वेनेत्युच्यते, तदप्यसत्, तस्योभयोरपितुल्यत्त्वेन दर्शनादागमे च श्रवणात्, श्रूयते हि चरमशरीरिणामपि नारदादीनां मायादिप्रकर्षवत्त्वम्, अतो न तासां पुरुषेभ्योऽपकृष्यमाणत्वेन कारणावैकल्यस्य हेतोरसिद्धता, यदपि निर्वाण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy