SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ३६, [ नि. ५५९ ] २६१ . स्थानाद्यप्रसिद्धत्वेनेत्युक्तं, तदप्यसाधकं, यतो न निर्वाणस्थानादिप्रसिद्धिः कारणावैकल्यस्य कारणं व्यापकं वा येन तन्निवृत्तौ तस्य निवृत्ति, अथाऽऽत्थ यदि स्त्रीणां मुक्तिकारणावैकल्यमभविष्यत् मुक्तिरप्युदपस्यत्, तथा च तत्स्थानादिप्रसिद्धिरपीति, नैवं, तत्स्थानादिप्रसिद्धि प्रति मुक्तेख्यभिचारित्वाभावात्, अन्यथा हि पुरुषाणामपि येषां मुक्तिस्थानाद्यप्रसिद्धितेषां तदभाप्रसङ्गः, अथैतत्साधकप्रमाणाभावेन प्रकृतहेतोरसिद्धता, तत्रापि तत्साधकप्रमाणस्य किं प्रत्यक्षस्यानुमानस्यागमस्य वा ?, तत्र यदि प्रत्यक्षस्य तदा किं स्वसम्बन्धिनः सर्वसम्बन्धिनो वा ?, स्वसम्बन्धिनोऽपि किं बाह्यं यद्यथोदितप्रत्युपेक्षणादिरूपं कारणावैकल्यं तद्विषयस्य यदिवाऽऽन्तरं यच्चारित्रादिपरिणामात्मकं तद्गोचरस्य ?, न तावदाद्यस्य, स्त्रीष्वपि यथोदितप्रत्युपेक्षणादेरक्षूणविधानस्येक्षणात्, अथ द्वितीयस्य तदा तदभावस्यार्वाग्दृशां पुरुषेष्वपि समानत्वात्तेषामपि कारणावैकल्यस्यासिद्धिप्रसङ्गः, सर्वसम्बन्धिनस्तु प्रत्यक्षस्यासर्वविदा सत्त्वेनासत्त्वेन (वा) क्वचिन्निश्चेतुमशक्यत्वात्, तदभावेन प्रकृतहेतोरसिद्धतेत्यनुद्घोष्यमेव, अथानुमानस्य, तदप्यसत्, तदभावस्य पुरुषेष्वपि समानत्वात्, न ह्यर्वाग्दृशां स्त्रीषु पुरुषेषु वा तत्त्वतस्तद्रव्यभिचारि लिङ्गमस्ति येनानुमानं स्यात्, अथास्त्येव पुरुषेष्वनुमानं, तथाहि यदुत्कर्षापकर्षाभ्यां यस्यापकर्षोत्कर्षौ तस्यात्वन्तापकर्वे तदत्यन्तोत्कर्षवदृष्टं, यथाऽभ्रपटलापगमे सवितृप्रकाशः, रागाद्युत्कर्षापकर्षाभ्यामपकर्षोत्कर्षवच्च चारित्रादि, न च रागाद्यपचयप्रकर्षस्यासम्भवो यतो यत्प्रकृष्यमाणहानिकं तत्क्वचित्सम्भविहानिप्रकर्षनिष्ठमपि दृष्टं, यथा मनि कालिकाकिट्टादि, प्रकृष्यमाणहानयश्च रागादयः, तथैव तेषां प्राणिषु प्रतीतत्वात्, नन्वेतत्स्त्रीष्वपि समानमिति, नाप्यागमस्य, तस्य प्रस्तुतस्यापि साक्षात्स्त्रीनिर्वाणाभिधायित्वेनार्थतस्तत्कारणावैकल्यसाधकत्वात्, न च स्त्रीशब्दस्यान्यार्थत्वं परिकल्पनीयं तद्धि लोकरूढित: आगमपरिभाषातो वा भवेत् ?, न तावल्लोकरूढितः, लोके हि यस्मिन्नर्थे यः शब्दोऽन्वयव्यतिरेकाभ्यां वाचकत्वेन दृश्यते स तस्यार्थो, यथा गवादिशब्दानां सास्नादिमदादयो, न च स्त्रीशब्दस्य स्तनादिमंदाकारमर्थमन्तरेणान्यस्यान्वयव्यतिरेकाभ्यां वाच्यत्वेन प्रतीतिरस्ति, उक्तं च“स्तनजघनादिव्यङ्ग्ये स्त्रीशब्दोऽर्थे न तं विहायैषः । दृष्टः क्वचिदन्यत्र त्वग्निर्माणवकवद्गौणः ॥" इति, नाप्यागमपरिभाषातो यतो नागमे क्वचित्स्त्रीशब्दस्य परिभाषितोऽर्थो यथा व्याकरणे 'वृद्धिरादैजि' ति वृद्धिशब्दस्यादैचौ, दृश्यते चागमेऽपि लोकरूढ एवार्थे स्त्रीशब्दः “इत्थीओ जंति छट्ठि" इत्यादौ, न च तत्राप्यर्थान्तरपरिकल्पना, बाधकं विना तदनुपपत्तेः, उक्तं च“परिभाषितो न शास्त्रे मनुजीवशब्दोऽथ लौकिकोऽधिगतः । अस्ति च न तत्र बाधा स्त्रीनिर्वाणं ततो नं कुतः ? ॥" - अथ दृष्ट एवागमे पुरुषाभिलाषात्मनि वेदाख्ये भावे स्त्रीशब्दः, इदमपि कुतो निश्चितं ?, किं तावत्स्त्रीशब्द इतिशब्द श्रवणमात्रात्स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानाभिधानतो वा ?, न तावत्स्त्रीवेद इति श्रवणमात्रत इति युक्तं, यदीह स्त्री साचौ वेदश्च स्त्रीवेद इति समानाधिकरणसमासो भवेत्तदा स्त्रीशब्दस्यार्थान्तरे वृत्तिर्भवेत्, तत्सद्भावश्च बाधकाभावेन वा कल्प्येत समासान्तराभावेन वा ?, न तावद् बाधकाभावेन, तत्र हि स्त्रीशब्दस्य पुरुषाभिलाषात्मको For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy