________________
२६२
उत्तराध्ययन- मूलसूत्रम् - २-३६ / १५१४ भाव एवार्थो भवेत्, तथा च स्त्रीनिर्वाणसूत्रे - किं स एव साक्षादर्थस्तदुपलक्षितं वा शरीरं ?, यदि स एव तदा किं तदैव तद् भावो विवक्ष्यते भूतपूर्वगत्या वा ?, तत्र यदि तदैव तदा निर्वाणावस्थायामपि वेदसम्भवो, न चैतदागमिकम्, अथ भूतपूर्वगत्या तदा देवादी नामपि निर्वाण प्राप्ति: तथा च “सुरणासुरएसु चतारि होंति" इत्याद्यागम विरोध:, तेष्वपि भूतपूर्व गत्या चतुर्दशगुणस्थानसम्भवात्, अथ तदुपलक्षितं [वा ] पुरुषशरीरं तदाऽसौ तदुपलक्षणं तत्र नियतवृत्तिरनियतवृत्तिर्वा ?, यदि नियतवृत्तिस्तदाऽऽगमविरोधः, परिवर्त्तमानतयैव पुरुषशरीरे वेदोदयस्य तत्राभिधानात् न चानुभवोऽप्येवमस्ति, अथानियतवृत्तिः कथमसौ तदुपलक्षणम् ?, अथैवंरूपमपि गृहादिषु काकाद्युपलक्षणमीक्ष्यत इत्यत्रापि तथोच्यते, एवं सति स्त्रीशरीरेऽपि कदाचित्पुरुषवेदस्योदयसम्भवात् स्त्रीणामपि निर्वाणापत्तिः, यथा हि पुरुषाणां भावतः स्त्रीत्वमेवं स्त्रीणामपि भावतः पुरुषत्वसम्भवोऽस्ति, भाव एव च मुख्यं मुक्तिकारणं, तथा च यद्यपकृष्टेनापि स्त्रीत्वेन पुरुषाणां निर्वाममेवभुत्कृष्टेन भावपुरषत्वेन स्त्रीणामपि किं न निर्वाणम् ? इति, न च समासान्तरासम्भवेन स्त्रीवेद इत्यत्र समानाधिकरणसमासकल्पनं, स्त्रिया वेदः स्त्रीवेद इति षष्ठीसमासस्यापि सम्भवात्, न चास्य स्त्रीशरीरपुरुषाभिलाषात्मकवेदयोः सम्बन्धाभावेनायुक्तत्वमिति वाच्यं यतस्तयो: सम्बन्धाभावः किं भिन्नकर्मोदयरूपत्वेन पुरुषवत्स्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन वा ?, न तावद्भिन्नकर्मोदयरूपत्वेन, भिन्नकर्मोदयरूपाणामपि पञ्चेन्द्रियजात्यादीनां देवगत्यादीनां च सदा सम्बन्धदर्शनात्, नापि पुरुषवत्स्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन, इयं हि पुरुषाप्राप्तौ स्ववेदोदयादपि संभवत्येव, उक्तश्च - "सा खकवेदात्तिर्यग्वदलाभे मत्तकामिन्या: " इति,
अथ स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानाभिधानादेवमुच्यते, इदमपि न सुन्दरं तत्र स्त्रीत्वानुबन्धस्य विवक्षितत्वात् संभवति हि स्त्र्याकरविच्छेदऽपि तत्कारण कर्मोदया विच्छेदः तदविच्छेदाच्च पुंस्त्वाद्यव्यवधानेन पुनः स्त्रीशरीरग्रहणमिति, किञ्च - " मणुयगईए चउदस गुणठाणाण होंति' तथा 'पंचिदिएसु गुणठाणाणि हुंति चउदस' तथा 'चउदस तसेसु गुणठाणाणि हुंति' तथा 'भवसिद्धिगा व सव्वट्ठाणेसु होंति" इत्यादि स्त्रीशब्दरहितमपि प्रवचनं स्त्रीनिर्वाणे प्रमाणमस्ति, स्त्रीणामपि पुंवन्मनुष्यगत्यादिधर्मयोगात्, अथ सामान्यविषयत्वान्नेदं स्त्रीविशेषे प्रमाणम्, एवं सति पुरुषाणामपि विशेषरूपताऽस्ति न वा ?, न तावन्नास्ति, मनुष्यगतिविशेषरूपत्वात्तेषाम्, अथास्ति विशेषरूपता, तथा सति तेष्वपि कथमेतत्प्रमाणं ?, यथा च तेषु प्रमाणं तथा किं न स्त्रीष्वपीति ?, अथ पुरुषेष्वेव तदर्थवदिति स्त्रीषु तस्याप्रवृत्तिः, एवं सति किं न विपर्ययकल्पनापि ?, न चैवमपर्याप्तकमनुष्यादीनां देवनारकतिरश्चां च निर्वाणप्रसङ्गः, तेषामेतद्वाक्याविषयत्वात्, एतदविषयत्वं चापवादविषयत्वात्, उक्तं हि - " अपवादविषयं परिहत्य उत्सर्गः प्रवर्त्तते" इति, अपवादश्च - "मिच्छादिट्ठी अपज्जत्तगे" तथा 'सुरनारएसु होंति चत्तारि तिरिएसुजाण पंचेव" इत्यादिरागम:, आह च
"मनुजगतौ सन्ति गुणाश्चतुर्दशेत्याद्यपि प्रमाणं स्यात् । पुंवत्स्त्रीणां सिद्धो नापर्याप्तादि वद्वाधा ॥"
इति कृतं विस्तरेण । सम्प्रति सिद्धानेवावगाहनातः क्षेत्रतश्चाह - उत्कृष्टा - सर्वमहती चासौ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org