________________
२५२
उत्तराध्ययन-मूलसूत्रम्-२-३६/१४७१ मू.(१४७१) धम्माधम्मे य दोऽवेए, लोगमित्ता वियाहिया।
लोगालोगे य आगासे, समए समयखित्तिए।। वृ. 'धर्माधर्मों' धर्मास्तिकायाधर्मास्तिकायौ 'चः' पूरणे द्वावप्येतौ 'लोकमात्रौ' लोकपरिमाणौ व्याख्यातौ, ननु धर्माधर्मावित्युक्ते द्वाविति गतार्थमेव द्वित्वसङ्ख्याया द्विवचनेनैवाभिधानात्, सत्यं, किन्तु गतार्थानामपि दृश्यते एव लोके प्रयोगः, तथा चाह जिनेन्द्रबुद्धिः-"यदि गतार्थानामप्रयोग एव स्यात् पचति देवदत्त इत्यत्र पचतीत्येतद्गततिडैवैकत्वस्योक्तत्वाद् देवदत्त इति सुप एकवचनस्याप्राप्तिरेव स्यादिति, लोकमात्रत्वं चानयोरेतदवष्टब्धाकाशस्यैव लोकत्वात्, अलोकव्यापित्वे त्वनयो र्जीवपुद्गलयोरपि तत्र प्रचारप्रसड़ेन तस्यापि लोकत्वावाप्तेः, उक्तं च- ।
"धर्माधर्मविभुत्वात्सर्वत्र जीवपुद्गलविचारात् ।
नो लोकः कश्चित्स्यान्न च संमतमेतदार्याणाम् ॥" तथा चैतौ लोक एव नालोक इत्यर्थादुक्तं भवति, तथा लोगालोगे य आगासे'त्ति लोकेऽलोके चाऽऽकाशं, सर्वगतत्त्वात्तस्य, 'समयः' इत्यद्धासमयः समयोपलक्षितं क्षेत्रं समयक्षेत्रम्अर्द्धतृतीयद्वीपसमुद्रास्तद्विषयभूतमस्यास्तीति समयक्षेत्रिकः, तत्परतस्तस्यासम्भवात्, समयमूलत्वादावलिकादिकल्पनायाः तेऽप्येतावत्क्षेत्रवर्त्तिन एव, तथा चोक्तम्
. "समयावलिकापक्षमासवयनसञ्जित्ताः।
नृलोक एव कालस्य, वृत्तिर्नान्यत्र कुत्रचित् ।।" इति सूत्रार्थः ॥ एतानेव कालत आहमू. (१४७२) धम्माधम्मागासा, तिन्निवि एए अनाइया।
अपज्जवसिया चेव, सव्वद्धं तु वियाहिया ।। मू. (१४७३) समएवि संतई पप्प, एवमेव वियाहिए।
आएसं पप्प साईए, सपज्जवसिएवि य॥ - वृ.धर्मश्चाधर्मश्चाकाशं च धर्माधर्माकाशानि त्रीण्यप्येतानि न विद्यते आदिरेषामित्यनादिकानि, इत्यतः कालात्प्रभृत्यमूनि प्रवृत्तानीत्यसम्भवात्, न पर्यवसितान्यपर्यवसितान्यनन्तानीतियावत्, न हि कुतश्चित्कालात्परत एतानि न भविष्यन्तीति सम्भवः, चैवौ प्राग्वत्, तथा च 'सर्वाद्धा' सर्वकालं, कालात्यन्तसंयोगे द्वितीया, 'तुः' अवधारणेऽतः सर्वदा स्वस्वरूपापरित्यागतो नित्यानीतियावद् 'व्याख्यातानि' कथितानि, सर्वत्र लिङ्गव्यत्ययः प्राग्वत, समयोऽपि सन्ततिम्' अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य' आश्रित्य 'एवमेव' अनाद्यपर्यवसितत्वलक्षणेनैव प्रकारेण 'व्याख्यातः' प्ररूपितः, पठन्ति च-'एमेव संतई पप्प समएवि'त्ति स्पष्टम्, 'आदेश' विशेष प्रतिनियतव्यक्त्यात्मकं प्राप्य' अङ्गीकृत्य सादिकः सपर्यवसितः, अपिः' समुच्चये 'च:' पुनरर्थे भिन्नक्रमश्च देशं पुनः प्राप्येति योज्य:, विशेषापेक्षया ाभूत्वाऽयं भवति भूत्वा च न भवतीति सादिनिधन उच्यत इति सूत्रद्वयार्थः ।
इत्थमजीवानामरूपिणां द्रव्यक्षेत्रकालैः प्ररूपणा कृता, सम्प्रति भावप्ररूपणावसरः, तत्र चामूर्तत्वेन नामीषां पर्याया रूपिपर्याया इव वर्णादयः प्ररूप्यमाणा अपि संवित्तिमानेतुं शक्याः For Private & Personal Use Only
www.jainelibrary.org
Jain Education International