________________
अध्ययनं - ३६, [ नि. ५५९ ]
तत्र स्वल्पवक्तव्यत्वाद्रव्यतोऽजीवप्ररूपणामाह-
मू. ( १४६८ )
मू. ( १४६९ )
रूविणो चेवऽरूवी य, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूवीणोऽवि चउव्विहा ॥ धम्मत्थिकाए तद्देसे, तप्पएसे य आहिए। अधम्मे तस्स देसे य, तप्पएसे य आहिए । आगासे तस्स देसे य, तप्पएसे य आहिए।
मू. ( १४७० )
अद्धासमए चेव, अरूवी दसहा भवे ॥
वृ. रूपस्पर्शाद्याश्रया मूर्त्तिस्तदेषामेषु वाऽस्तीति रूपिण: 'च: ' समुच्चये 'एवे 'ति पूरणे 'रूवी य'त्ति अकारप्रश्लेषात्प्राग्वद्वचनव्यवत्ययाद्वाऽरूपिणश्च, नैषामुक्तरूपं रूपमस्तीतिकृत्वा, अजीवाः 'द्विविधाः उक्तभेदतो द्विविधाः 'भवे 'त्ति भवेयुः, तत्रापि 'अरूवि 'त्ति अरूपिणः ‘दशधा’ दशप्रकारा: 'उक्ता: ' प्रतिपादितास्तीर्थकृदादिभिरिति शेषः, पश्चानिर्दिष्टत्वेऽपि चोक्तन्यातयोऽनन्तरत्वाद्वाऽमीषां प्रथमत उपादानं, रूपिणः 'अपि : ' पुनरर्थस्ततश्च रूपिणः पुनः 'चतुर्विधाः' चतुष्प्रकारा उभयत्राजीवा इति प्रक्रमः ।
तत्रारूपिणो दशविधानाह- धारयति गतिपरिणतजीवपुद्गलांस्तत्स्वभाव इति धर्मः अस्तयश्चेह प्रदेशास्तेषां चीयत इति काय:- सङ्घातोऽस्तिकायस्ततो धर्मश्चासावस्तिकायश्च धर्मास्तिकायः-सकलदेशप्रदेशानुगतसमानपरिणतिमद्विशिष्टं द्रव्यं, तस्य-धर्मास्तिकायस्य दिश्यतेप्रदेशापेक्षया समानपरिणतरूपत्वेऽपि देशापेक्षायां असमानपरिणतिमाश्रित्य विशिष्टरूपतया विवक्ष्यते - उपदिश्यत इति देश: - त्रिभागचतुर्भागादिस्तद्देशः, तथा तस्येति-धर्मास्तिकायस्यैव प्रकर्षेणान्त्यत्वात्प्रदेशान्तराभावतः क्वचिद्व्यनुगतरूपाभावलक्षणेन दिश्यते प्राग्वदुपदिश्यत इति प्रदेशो - निरंशो भागस्तत्प्रदेशः 'आख्यातः ' कथितः, न धारयति-गतिपरिणतावपि जीवपुद्गलांस्तत्स्वभावतया नावस्थापयति स्तित्युपष्टम्भकत्वात्तस्येत्यधर्मः पदेऽपि पदैकदेशदर्शनादधर्मास्तिकाय: 'तस्य' इत्यधर्मास्तिकायस्य 'देशश्च' उक्तरूपः 'तत्प्रदेशश्च' तथाविध एवाख्यात:, तथा आडिति मर्यादया-स्वस्वभावपरित्यागरूपया काशन्ते स्वरूपेणैव प्रतिभासन्ते तस्मिन् पदार्था इत्याकाशं ।
यदा त्वभिविधावाङ्तदा आडिति-सर्वभावाभिव्याप्त्या काशत इत्याकाशं तदेवास्तिकाय आकाशास्तिकायस्तस्य देशस्तत्प्रदेशश्च प्राग्वत् 'आख्यातः' कथितः, तथाऽद्धा- कालस्तद्रूपः समयोऽद्धासमयो निर्विभागत्वाच्चास्य न देशप्रदेशसम्भवः, आवलिकादयस्तु पूर्वसमयनिरोधेनैवोत्तरसमयसद्भाव इति तत्त्वतः समुदयसमित्याद्यसम्भवेन व्यवहारार्थमेव कल्पिता इतीह नोक्ताः, उपसंहारमाह-अरूपिणः 'दशविधा' इति दशप्रकारा भवेयुः पूर्वत्रिकत्रये एकस्यास्य प्रक्षेपात्, एषां च यथाक्रमं गतिस्थित्यवगाहोपष्टम्भकत्वं वर्त्तना च लक्षणमवगन्तव्यं, तथा चाऽऽससेनः
“जीवानां पुद्गलानां च, गतिस्थित्युपकारिणौ ।
धर्माधर्मौ स्थितौ व्योम, त्ववगाहनलक्षणम् ॥
कालस्तु वर्त्तनालिङ्गः” इत्यादीति सूत्रत्रयार्थः ॥ सम्प्रत्येतानेव क्षेत्रत आह-
Jain Education International
For Private & Personal Use Only
२५१
www.jainelibrary.org