________________
२५०
प्रतिपाद्यत इति भावः,
‘भावे' भावनिक्षेपे विभक्तिः 'खलु' निश्चितं ज्ञाचव्या ' षड्विधे भावे' षट्प्रकारौदयिकादिभावविषया, आह-एवमनेकविधायां विभक्ताविह कयाऽधिकारः ?, उच्यते, 'अधिकारः ' अधिकृतम् 'अत्रे'ति प्रस्तुते पुनः शब्दो वाक्यान्तरोपन्यासे 'द्रव्यविभक्त्या' जीवाजीवद्रव्यविभागावस्थापनरूपया, तस्या एवात्र प्रदर्श्यमानत्वादिति भाव इति नियुक्तिगाथाऽष्टकावयवार्थः । इत्यवसितो नामनिष्पन्ननिक्षेपः सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, जीवाजीवविभक्ति मे, सुणेहेगमणा इओ ।
मू. ( १४६५ )
जं जाणिऊण भिक्खू, सम्मं जयइ संजमे ॥
उत्तराध्ययन- मूलसूत्रम् - २-३५ / १४६५
"
"
वृ. जीवाश्च - उपयोगलक्षणा अजीवाश्च तद्विपरीता जीवाजीवास्तेषां विभजनं विभक्तिःतत्तद्भेदादिदर्शनतोऽपि विभागेनावस्थापनं जीवाजीवविभक्तिस्तां 'मे' मम कथयत इति गम्यते ' शृणुत' आकर्णयत शिष्या इति शेषः, पठन्ति च 'सुनेह मि'त्ति, कथम्भूताः सन्त ? - एकं - दर्शनान्तरोक्तजीवाजीवविभक्तावगतत्वेन मनः - चित्तं येषां ते एकमनसः, इहैव श्रद्धानवन्त इत्युक्तं भवति, 'इत:' इत्यस्मादनन्तराध्ययनादेतद्विषयात् श्रवणाद्वाऽनन्तरं यां जीवाजीवविभक्तिं ज्ञात्वा 'भिक्षुः' अनगारः पाठान्तरतः श्रमणो वा सम्यगिति - प्रशंसार्थो निपातः, ततश्च सम्यक्प्रशस्तं यथा भवत्येवं 'यतते' यत्नवान् भवति, क्व ? - संयमे-उक्तरूपसंयमविषय इति सूत्रार्थ: ।। आह-जीवाजीवविभक्तिज्ञानमिव लोकालोकविभक्तिज्ञानमपि संयमयतनायां विषयतयोपयुज्यत एवेत्याह
मू. (१४६६ )
जीवा चेव अजीवा य, एस लोए वियाहिए। अजीवदेसमागासे अलोए से वियाहिया ॥
वृ. 'जीवाश्चैवाजीवाश्च' वक्ष्यमाणाः कोऽर्थः ? - जीवाजीवरूपः 'एष' इति प्रतिप्राणि प्रत्यक्षः प्रतीतो लोको विशेषेणाख्यातः कथितो व्याख्यातस्तीर्थकृदादिभिरिति गम्यते, जीवाजीवानामेव यथायोगमाधाराधेयतया व्यवस्थितानां लोकत्वाद्, 'अजीव 'त्ति, अनेनाजीवसमुदाय उपलक्ष्यते, स च धर्माधर्माकाशपुद्गलात्मकस्तस्य देश इत्यंशोऽजीवदेश आकाशमलोकः स व्याख्यातो,
-
"धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥"
इति भावार्थः । इह च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैवेति तां विधित्सुर्यथाऽसौ भवति तथाऽऽह
मू. ( १४६७ )
दव्वओ खित्तओ चेव, कालओ भावओ तहा । परूवणा तेसि भवे, जीवाणमजीवाण य ॥
वृ. 'द्रव्यतः' द्रव्यमाश्रित्य इदमियद्भेदं द्रव्यमिति, 'क्षेत्रतश्चैव' इदमियति क्षेत्र इति, 'कालतः' इदमेवंविधकाल स्थितीति, 'भावत:' इमेऽस्य पर्याया इति 'तथे 'ति समुच्चये 'प्ररूपणा' यथास्वं भेदाद्यभिधानद्वारेण स्वरूपपोदर्शनं 'तेषाम्' इति विभजनीयत्वेन प्रक्रान्तानां 'भवेत्' स्याज्जीवानामजीवानां चेति सूत्रार्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org