________________
अध्ययनं-३६, [ नि. ५५२ ]
२४९ भा. [१३] सो तिह आहे नामे सोत्तालावे य होइ बोद्धव्यो।
तत्थोहो अविसेसो अज्झयणस्सवि य सो चउहा।। भा. [१४] वन्नेउ तहा विहिणा तयणंतरमित्थ नामणिप्फन्नो ।
तत्थ य नामं अस्स उ जीवाजीवाण य विभत्ती।" अत्र च जीवाजीवविभक्तिरिति पदत्रयं वर्तत इत्येतन्निक्षेपायाह नियुक्तिकृत्नि. [५५२] निक्खेवो जीवंमि अ चउव्विहो दुविह होइ नायव्वो। नि. [५५३] जाणगभवियसरीरे तव्वइरित्ते अ जीवदव्वं तु।
भावंमि दसविहो खलु परिणामो जीवदव्वस्स ।। नि. [५५४] निक्खेवो अ(5)जीवंमि चउव्विहो दुविह होइ नायव्वो। नि. [५५५] जाणगभवियसरीरे तव्वइरित्ते अजीवदव्वं त्।
भावमि दसविहो खल परिणामो अ(5)जीवदव्वस्स ।। नि. [५५६] निक्खेवो विभत्तीए'चउव्विहो दुविह होइ दव्वमि । नि. [५५७] जाणगभवियसरीरे तव्वइरित्ते य से भवे दुविहा।
जीवाणमजीवाण य जीवविभत्ती तहिं दुविहा॥ नि. [५५८] सिद्धाणमसिद्धाण य अज्जीवाणं तु होइ दुविहा उ।
रूवीणमरूवीण य विभासियव्वा जहा सुत्ते ।। नि. [५५९] भावंमि विभत्तीखलु नायव्वा छव्विहिंमि भावंमि।
अहिगारो इत्थं पुण दव्वविभत्तीइ अज्झयणे ।। वृ.निक्खेवेत्यादि गाथा अष्ट व्याख्यातप्राया एव, नवरं तद्यतिरिक्तश्च 'जीवद्रव्यं' द्रव्यजीव उच्यत इति प्रक्रमः 'तुः' विशेषद्योतकः, स चायं विशेष:-यथा न कदाचित्तत्पर्याययियुक्तं द्रव्यं तथाऽपि च यदा तद्वियुक्ततया विवक्ष्यते तदा तद्रव्यप्राधान्यतो द्रव्यजीवः, भावे तु दशविध: 'खलः' अवधारणे दशविध एव परिणामः कर्मक्षयोपशमोदयापेक्षपरिणतिरूपो जीवद्रव्यस्य सम्बन्धी जीवादनन्यत्वेन जीवतया विवक्षितो जीव इति प्रक्रमः, तत्र च क्षायोपशमिका: षट् पञ्चेन्द्रियाणि षष्ठं मनः औदयिकाः क्रोधादयश्चत्वारो मीलिता दश भवन्ति । __एवमजीवनिक्षेपेऽपि यदा पुद्गलद्रव्यमजीवरूपं सकलगुणपर्यायविकलतया कल्प्यते तदा तद्यतिरिक्तो द्रव्याजीवः, भावे चाजीवद्रव्यस्यपुद्गलस्य दशविधः परिणामोऽजीव इति प्रक्रमः, स च शब्दादयः पञ्च शुभाशुभतया भेदेन विवक्षिताः, तथा च सम्प्रदाय:-शब्दस्पशरसरूपगन्धाः शुभाश्चाशुभाश्चे'ति । तथा विभक्तिनिक्षेपे सति विभक्तिर्भवेत् 'द्विविधा' द्विप्रकारा, द्वैविध्यं चास्याः सम्बन्धिभेदादेवेति तमाह-जीवानामजीवानां च, कोऽर्थः ?जीवविभक्तिः-जीवानां विभागेनावस्थापनम्, एवमजीवविभक्तिश्च, उत्तरत्राप्येवमेव सम्बन्धिभेदाभेदो व्याख्येयः, 'तहिति वचनव्यत्ययात् 'तयोः' जीवाजीवविभक्त्योर्मध्ये द्विविधा सिद्दानामसिद्धानां च, अज्जीवाणं तुं'त्ति 'तुः' अपिशब्दार्थस्ततोऽजीवानामपि भवति 'दुविहा उ'त्ति, 'तुः' अवधारणे ततो द्विविधैव रूपिणामरूपिणां च 'विभापितव्या' विशेषेण व्यक्तं वक्तव्या यथा 'सूत्रे' प्रक्रान्ताध्ययनरूपे, इह तु प्रक्रमायाताऽपि पौनरुक्त्यप्राप्तेरंसौ न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org