Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 224
________________ अध्ययनं - ३३, [ नि. ५३६ ] मू. (१३६५ ) मोहनियंपि य दुविहं, दंसणे चरणे तहा। दंसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥ वृ. मोहनीयमपि द्विविधं न केवलं वेदनीयं, विषयतश्चैतद्विधेति द्वैविध्यमाह-'दर्शने' तत्त्वरुचिरूपे ' चरणे' चारित्रे तथा, किमुक्तं भवति ? - दर्शनमोहनीयं चारित्रमोहनीयं च तत्र 'दर्शने' दर्शनविषयं प्रक्रमान्मोहनीयं त्रिविधमुक्तं भवति, 'चरणे' चरणविषयं मोहनीयं द्विविधं भवेत् । मू. ( १३६६ ) संमत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एयाओ तिन्नि पयडीओ, मोहनिज्जस्स दंसणे ॥ वृ. यथा दर्शनमोहनीयत्रैविध्यं तथाऽऽह- सम्यग्भावः सम्यक्त्वं शुद्धदलिकरूपं यदुदयेऽपि तत्त्वरुचिः स्यात्‘चैवे’ति पूरणे मिथ्याभाव: मिथ्यात्वम्-अशुद्धदलिकरूपं यतस्तत्त्वेऽ तत्त्वमतत्त्वेऽपि तत्त्वमिति बुद्धिरुत्पद्यते, सम्यग्मिथ्यात्वमेव च - शुद्धाशुद्धदलिकरूपं यत उभयस्वभावता जन्तोर्भवति, इह च सम्यक्त्वादयो जीवधर्मास्तद्धेतुत्वाच्च दलिकेष्वेतद्यप्रदेशः, एतास्तिस्रः प्रकृतयो मोहनीयस्स 'दर्शने' दर्शनविषयस्य ६ । मू. ( १३६७ ) २२१ चरित्तमोहणं कम्मं, दुविहं तु वियाहियं । कसायमोहनिज्जं च, नोकसायं तहेव य ॥ वृ. चरित्रे मुह्यतेऽनेनेति मोहनं चरित्रमोहनं कर्म यतः श्रद्दधानोऽपि यदि कथञ्चनाहमेनं प्रतिपद्य इति जानन्नपि तत्फलादि न तत्प्रतिपद्यते, उत्तरत्रतुशब्दस्य भिन्नक्रमत्वात्तत्पुनर्द्विविधं व्याख्यातं श्रुतधरैरिति शेषः, पठन्ति च 'चरित्तमोहनिज्जं दुविहं वोच्छामि अनुपुव्वसो 'त्ति स्पष्टमेव, कथं तद् द्विविधमित्याह - कषायाः - क्रोधादयस्तद्रूपेण वेद्यते - अनुभूयते यत्तत्कषायवेदनीयं ‘चः' समुच्चये ‘नोकषायम्' इति प्रस्तावान्नोकषायवेदनीयं नोकषायाः कषायसहवर्त्तनो हास्यादयस्तद्रूपेण यद्वेद्यते 'तथे 'ति समुच्चये । • मू. ( १३६८ ) - सोलसविहभेएणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं नोकसायजं ॥ वृ. अनयोरपि भेदानाह - षोडशविधः - षोडशप्रकारो यो भेदो - नानात्वं तेन, लक्षणे तृतीया, यद्वा षोडशविधं भेदेन भिद्यमानतया चिन्त्यमानं, प्राकृतत्वादनुस्वारलोपः, कर्म क्रियमाणत्वात्, ‘तु:' पुनरर्थे भिन्नक्रमश्च, कषायेभ्यो जायत इति कषायजं "जं वेयति तं बंधति" इतिवचनात् कषायवेदनीयमित्यर्थः, षोडशविधत्वं चास्य क्रोधमानमायालोभानां चतुर्णामपि प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदतश्चतुर्विधत्वात् 'सत्तविह'त्ति प्राग्वद्विन्दुलोपात्सप्तविधं वा कर्म नोकषायेभ्यो जायत इति 'नोकषायजं' नोकषायवेदनीयमित्यर्थः, तत्र सप्तविधं हास्यरत्यरतिभयशोकजुगुप्साः षड् वेदश्च सामान्यविवक्षयैक एवेति यदा तु वेदः स्त्रीपुंनपुंसकभेदेन त्रिधेति विवक्ष्यते तदा षड्विस्रयो मीलिता नव भवन्तीति नवविधमिति । मू. (१३६९) नेरइयतिरिक्खाऊ, मनुस्साउं तहेव उ । देवाऊयं चउत्थं तु, आउकम्मं चउव्विहं ॥ वृ. 'नेरइयतिरिक्खाउ'त्ति आयुः शब्दः प्रत्येकं योज्यते, ततश्च निष्क्रान्ता अयात्इष्टफलदैवात्तत्रोत्पन्नानां सद्वेदनाऽभावेनेति निरयास्तेषु भवा नैरयिकास्तेषामायुः नैरयिकायुर्येन For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316