Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 226
________________ अध्ययनं - ३३, [ नि. ५३६ ] मू. ( १३७२ ) दाने लाभे य भोगे य, उवभोगे वीरिए तहा। पंचविहमंतरायं, समासेन वियाहियं ॥ वृ. दीयत इति दानं तस्मिन्, तथा लभ्यत इति लाभस्तस्मिश्चं, भुज्यते सकृदपयुज्यत इति भोगः-सकद्भोग्यः पुष्पाहारादिविषयस्तत्र च, तथा उपेतिअभ्यधिकं पुनः पुनरुपभुज्यमानतया भुज्यत इत्युपभोगः-पुनः पुनरुपभोग्यभवनाङ्गनादिविषयः, उक्तं हि -- २२३ "संति भुज्जइत्ति भोगो सो पुण आहारपुप्फमाईओ । भोगो पुणो पुण उवभुज्जइ व भवणवणियाई ॥ " तस्मिन्, विशेषण ईर्य्यते चेष्ट्यतेऽनेनेति वीर्यं तस्मिन्, 'तथा' समुच्चये सर्वत्रान्तरायमिति प्रक्रम:, ततश्च विषयभेदात्पञ्चविधमन्तरायं समासेन व्याख्यातं, तत्र दानान्तरायं यत्सति विशिष्टे ग्रहीतरि देये च वस्तुनि तत्फलमवगच्छतोऽपि दाने प्रवृत्तिमुपहन्ति, यत्पुनर्विशिष्टेऽपि दातरि यावन्निपुणेऽपि याचितरि उपलब्धिउपघातकृत् तल्लाभान्तरायं, भोगान्तरायं तु सति विभवादौ सम्बद्यमाने च आहारमाल्यादौ यद्वशान्न बुङ्क्ते, उपभोगान्तरायं तु यस्योदयात्सदपि वस्त्रालङ्काराद्विनोपभुङ्क्ते, वीर्यान्तरायं यद्वशाद्बलवान्नीरुग्वयःस्थः अथ च तृणकुब्झीकरणेऽप्यसमर्थ इति सूत्रद्वादशकार्थः १२ ॥ इत्थं प्रकृतयोऽभिहिताः, सम्प्रत्येतन्निगमनायोत्तरग्रन्थसम्बन्धनाय चाहमू. (१३७३ ) एयाओ मूलपयडीओ, उत्तराओ अ आहिया । पसग्गं खित्तकाले य, भावं चादुत्तरं सुण ॥ - वृ. 'एता:' अनन्तरोक्ता ज्ञानावरणादिरूपा मूलप्रकृतयः, तथा 'उत्तराः' इत्युत्तरप्रकृतयश्च श्रुतावरणाद्याः, चशब्दः श्रुतादीनामप्यक्षरानक्षरादिभेदतो बहुविधत्वदनुक्तबहुभेदसूचकः 'आख्याताः' कथिताः प्रदेशाः परमाणवस्तेषामग्रंपरिमाणं प्रदेशाग्रं 'खेत्तकाले य'त्ति क्षेत्रकाल च तत्र क्षियन्ति - निवसन्ति तस्मिन्निति क्षेत्रम् - आकाशं कालश्चबद्धस्य कर्मणो जीवप्रदेशाविचटनात्मकः स्थितिकालः 'भावं च' अनुभागलक्षणं कर्मणः पर्यायं चतुः स्थानिकत्रिस्थानिकादिरसमितियावद् ‘अत: उत्तर' मिति अतः प्रकृत्यभिधानादूर्ध्वं भृणु कथ्यमानमिति मू. ( १३७४ ) सव्वेसिं चेव कम्माणं, पएसग्गमनंतगं । - गठियसत्ताईयं, अंतो सिद्धाण आहियं ॥ वृ. 'सर्वेषां' समस्तानां 'च: ' पूरणे 'एव: ' अपिशब्दार्थे सर्वेषामपि न तु केषाञ्चिदेव 'कर्मणां' ज्ञानावरणादीनां 'प्रदेशाग्रां' परमाणुपरिमाणम् अनन्तमेवानन्तकमनन्तपरमाणुनिष्पन्नत्वात्तद्वर्गणानां तच्चानन्तकं ग्रन्थिरिव ग्रन्थिः - घनो रागद्वेषपरिणामस्तं गच्छन्ति ग्रन्थिगास्ते च ते सत्त्वाश्च ग्रन्थिगसत्त्वाः- ये ग्रन्थिप्रदेशं गत्वाऽपि तद्भेदाविधानेन न कदाचिदुपरिष्टाद्गन्तारः ते चाभव्या एवात्र गृह्यन्ते तानतीतं - तेभ्योऽनन्तगुणत्वेनातिक्रान्तं ग्रन्थिगसत्त्वातीतं, तथा 'अन्तः' मध्ये 'सिद्दानां' सिद्धिपदप्राप्तानाम् 'आख्यातं' कथितं गणधरादिभिरिति गम्यते, सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभाग एव, तदपेक्षया सिद्धानामनन्तगुणत्वाद्, अतः सङ्ख्यामपेक्ष्य सिद्दान्तर्वर्त्ति तदनन्तकमुच्यते, एकसमये ग्राह्यकर्मपरमाण्वपेक्षं चैतत् उक्तं हि "ते य कम्मपोग्गला भवसिद्धिएहिं अनंतगुणा सिद्दाणमणंतभागमित्ता एगेगंमि समए गहणमिति "त्ति, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316