Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२३४
उत्तराध्ययन- मूलसूत्रम् - २-३४ / १४०३ पारास्तत्परिणतः -- तत्प्रवृत्त्या तदात्मतां गतः, तथा 'क्षुद्र: ' सर्वस्यैवाहितैषी कार्पण्ययुक्तो वा, सहसा - अपर्यालोच्य गुणदोषान् प्रवर्त्तत इति साहसिकः, चौर्यादिकृदिति योऽर्थः, 'नरः ' पुरुष उपलक्षणत्वात्स्त्र्यादिर्वा ।
मू. ( १४०४ )
निर्द्धघसपरिणामो, निस्ससो अजिइंदिओ । एयजोगसमाउत्तो, कण्हलेसं तु परिणमे ॥
वृ. 'निद्धंधस'त्ति अत्यन्तमैहिकामुष्मिकापायशङ्काविकलोऽत्यन्तं जन्तुबाधानपेक्षो वा परिणामोऽध्यवसायो वा यस्य स तथा 'निस्संसो'त्ति 'नृशंसः' निस्तृशो जीवान् विहिंसन् मनागपि न शङ्कते, निःशंसो वा परप्रशंसारहित: । 'अजितेन्द्रियः' अनिगृहीतेन्द्रियः, अनेय तु पूर्वसूत्रोत्तरार्द्धस्थान इदमधीयते तच्चेहेति, उपसंहारमाह-एते च तेऽनन्तरोक्ता योगाश्चमनोवाक्कायव्यापारा एतद्योगाः पञ्चाश्रवप्रमत्तत्वादयस्तैः समिति - भृशमाडित्यभिव्याप्त्या युक्त:- अन्वितः एतद्योगसमायुक्तः कृष्णलेश्यां 'तुः ' अवधारणे कृष्णलेश्यामेव 'परिणमेत्' तद्रव्यसाचिव्येन तथाविधद्रव्यसम्पर्कात्स्फटिकवत्तदुपरञ्जनात्तद्रूपतां भजेत्, उक्तं हि"कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः ।
स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥"
एतेन पञ्चाश्रवप्रमत्तत्वादीनां भावकृष्णलेश्यायाः सद्भावोपदर्शनादमीषां लक्षणत्वमुक्तं, यो हि यत्सद्भाव एव भवति स तस्य लक्षणं यथौष्ण्यमग्नेः, एवमुत्तरत्रापि लक्षणत्वभावना कार्या ।
मू. (१४०५ )
इस्साअमरिसअतवो, अविज्जमाया अहीरिया ।
गेही पओसे य सढे, रसलोलुए सायगवेसए य ॥
वृ. नीललेश्यालक्षणमाह - ईर्ष्या च परगुणासहनममर्षश्च-अत्यन्ताभिनिवेशोऽतपश्चतपोविपर्ययो ऽमीषां समाहारनिर्देशः, 'अविज्ज' त्ति 'अविद्या' कुसास्त्ररूपा माया - वञ्चनात्मिका 'अहूीकता च' असमाचारविषया निर्लज्जता 'गृद्धिः' अभिकाङ्क्षा विषयेष्विति गम्यते 'प्रदोषश्च' प्रद्वेषो मतुब्लोपादभेदोपचाराद्वा सर्वत्र तद्वान् जन्तुरुच्यतेऽत एव शठः अलीकभाषणात् प्रमत्तः प्रकर्षेण जात्यादिमदासेवनात्, पाठान्तरतः शठश्च मत्तः, तथा रसेषु लोलुपो - लम्पटो रसलोलुपः, सातं सुखं तद्गवेषकश्च - कथं मम सुखं स्यादिति बुद्धिमान्,
मू. (१४०६ ) आरंभा अविरओ, खुद्दो साहस्सिओ नरो । एयजोगसमाउत्तो, नीललेसं तु परिणमे ॥
वृ. 'आरम्भात्' प्राण्युपमर्दात् 'अविरत: ' अनिवृत्तः क्षुद्र: साहसिको नरः, एतद्योगसमायुक्तो नीललेश्यां परिणमेत्, 'तुः' प्राग्वत्पुनरर्थो वा ४ ।
मू. (१४०७ )
वंके वंकसमायारे, नियडिल्ले अनुज्जुए।
पलिउंचग ओवहिए, मिच्छदिट्ठी अनारिए ।
वृ.'वक्र:' वचसा 'वक्रसमाचारः ' क्रियया 'निकृतिमान्' मनसा 'अनृजुकः ' कथंचिहजूकर्त्तुमशक्यतया 'पलिउचग' त्ति प्रतिकुञ्चकः-स्वदोषप्रच्छादकतया उपधिः - छद्म तेन चरत्यौपधिकः, सर्वत्र व्याजतः प्रवृत्तेः, एकार्थिकानि वैतानि नानादेशजविनेयानुग्रहायोपात्तानि,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316