SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २३४ उत्तराध्ययन- मूलसूत्रम् - २-३४ / १४०३ पारास्तत्परिणतः -- तत्प्रवृत्त्या तदात्मतां गतः, तथा 'क्षुद्र: ' सर्वस्यैवाहितैषी कार्पण्ययुक्तो वा, सहसा - अपर्यालोच्य गुणदोषान् प्रवर्त्तत इति साहसिकः, चौर्यादिकृदिति योऽर्थः, 'नरः ' पुरुष उपलक्षणत्वात्स्त्र्यादिर्वा । मू. ( १४०४ ) निर्द्धघसपरिणामो, निस्ससो अजिइंदिओ । एयजोगसमाउत्तो, कण्हलेसं तु परिणमे ॥ वृ. 'निद्धंधस'त्ति अत्यन्तमैहिकामुष्मिकापायशङ्काविकलोऽत्यन्तं जन्तुबाधानपेक्षो वा परिणामोऽध्यवसायो वा यस्य स तथा 'निस्संसो'त्ति 'नृशंसः' निस्तृशो जीवान् विहिंसन् मनागपि न शङ्कते, निःशंसो वा परप्रशंसारहित: । 'अजितेन्द्रियः' अनिगृहीतेन्द्रियः, अनेय तु पूर्वसूत्रोत्तरार्द्धस्थान इदमधीयते तच्चेहेति, उपसंहारमाह-एते च तेऽनन्तरोक्ता योगाश्चमनोवाक्कायव्यापारा एतद्योगाः पञ्चाश्रवप्रमत्तत्वादयस्तैः समिति - भृशमाडित्यभिव्याप्त्या युक्त:- अन्वितः एतद्योगसमायुक्तः कृष्णलेश्यां 'तुः ' अवधारणे कृष्णलेश्यामेव 'परिणमेत्' तद्रव्यसाचिव्येन तथाविधद्रव्यसम्पर्कात्स्फटिकवत्तदुपरञ्जनात्तद्रूपतां भजेत्, उक्तं हि"कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥" एतेन पञ्चाश्रवप्रमत्तत्वादीनां भावकृष्णलेश्यायाः सद्भावोपदर्शनादमीषां लक्षणत्वमुक्तं, यो हि यत्सद्भाव एव भवति स तस्य लक्षणं यथौष्ण्यमग्नेः, एवमुत्तरत्रापि लक्षणत्वभावना कार्या । मू. (१४०५ ) इस्साअमरिसअतवो, अविज्जमाया अहीरिया । गेही पओसे य सढे, रसलोलुए सायगवेसए य ॥ वृ. नीललेश्यालक्षणमाह - ईर्ष्या च परगुणासहनममर्षश्च-अत्यन्ताभिनिवेशोऽतपश्चतपोविपर्ययो ऽमीषां समाहारनिर्देशः, 'अविज्ज' त्ति 'अविद्या' कुसास्त्ररूपा माया - वञ्चनात्मिका 'अहूीकता च' असमाचारविषया निर्लज्जता 'गृद्धिः' अभिकाङ्क्षा विषयेष्विति गम्यते 'प्रदोषश्च' प्रद्वेषो मतुब्लोपादभेदोपचाराद्वा सर्वत्र तद्वान् जन्तुरुच्यतेऽत एव शठः अलीकभाषणात् प्रमत्तः प्रकर्षेण जात्यादिमदासेवनात्, पाठान्तरतः शठश्च मत्तः, तथा रसेषु लोलुपो - लम्पटो रसलोलुपः, सातं सुखं तद्गवेषकश्च - कथं मम सुखं स्यादिति बुद्धिमान्, मू. (१४०६ ) आरंभा अविरओ, खुद्दो साहस्सिओ नरो । एयजोगसमाउत्तो, नीललेसं तु परिणमे ॥ वृ. 'आरम्भात्' प्राण्युपमर्दात् 'अविरत: ' अनिवृत्तः क्षुद्र: साहसिको नरः, एतद्योगसमायुक्तो नीललेश्यां परिणमेत्, 'तुः' प्राग्वत्पुनरर्थो वा ४ । मू. (१४०७ ) वंके वंकसमायारे, नियडिल्ले अनुज्जुए। पलिउंचग ओवहिए, मिच्छदिट्ठी अनारिए । वृ.'वक्र:' वचसा 'वक्रसमाचारः ' क्रियया 'निकृतिमान्' मनसा 'अनृजुकः ' कथंचिहजूकर्त्तुमशक्यतया 'पलिउचग' त्ति प्रतिकुञ्चकः-स्वदोषप्रच्छादकतया उपधिः - छद्म तेन चरत्यौपधिकः, सर्वत्र व्याजतः प्रवृत्तेः, एकार्थिकानि वैतानि नानादेशजविनेयानुग्रहायोपात्तानि, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy