________________
२३५
अध्ययनं-३४,[ नि.५४९] मिथ्यादृष्टिरनार्यश्च प्राग्वत्, मू.(१४०८) उप्फालगदुट्ठवाई य, तेने अविय मच्छरी।
एयजोगसमाउत्तो, काउलेसंतु परिणमे। वृ. उप्फालग'त्ति उत्प्रासकं यथा पर उत्प्रास्यते दुष्टं च रागादिदोषवद्यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी'च:' समुच्चये 'स्तेन:' चौरः 'च' प्राग्वत् अपिच'इति पूरणे 'मत्सरः' परसम्पदसहनं सति वा वित्ते त्यागाभावः, तथा चाहुः शाब्दिकाः-"परसम्पदामसहनं वित्ता-त्यागश्च मत्सरो ज्ञेयः" इति, तद्वान् मत्सरी, एतद्योगसमायुक्तः कापोतलेश्यां 'तुः' इति पुनः परिणमेत्।। मू.(१४०९) नीआवित्ती अचवले, अमाई अकुऊहले।
विनीयविनए दंते, जोगवं उवहाणवं॥ वृ. 'नीयावित्ति'त्ति नीचैर्वृत्तिः-कायमनोवाग्भिरनुत्सिक्तः 'अचपलः' चापलानुपेतः 'अमायी' शाठ्यनन्वितः ‘अकुतूहल:' कुहकादिष्वकौतुकवानत एव 'विनीतविनयः' स्वभ्यस्तगुर्वाधुचितप्रतिपत्तिः, तथा 'दान्तः' इन्द्रियदमेन योगः-स्वाद्यायादिव्यापारस्तद्वान्, 'उपधानवान्' विहितशास्त्रोपचारः, । मू. (१४१०) पियधम्मे दढधम्मे, वज्जभीरू हिएसए।
एयजोगसमाउत्तो, तेउलेसंतु परिणमे । वृ.'प्रियधर्मा'अभिरुचितधर्मानुष्ठानः ‘दृढधर्मा' अङ्गीकृतव्रतादिनिर्वाहकः, किमित्येवम्?, यतः 'वज्ज'त्ति वयं प्राकृतत्वादकारलोपे अवयं चोभयत्र पापं तद्भीरुः 'हितैषक:' मुक्तिगवेषकः, पाठान्तरतो हिताशयो वा-परोपकारचेताः, पठ्यते च-'अनासवे'त्ति तत्र च न विद्यन्ते आश्रवा-हिंसादयो यस्यासावनाश्रवः, एतद्योगसमायुक्तस्तेजोलेश्यां तु परिणमेत् ।। मू. (१४११) पयणुक्कोहमानो य, मायालोभे य पयणुए।
पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ।। वृ.प्रतनू-अतीवाल्पौ क्रोधमानौ यस्य स तथा, चः पूरणे, माया लोभश्च उक्तरूपः प्रतनुको यस्येति शेषः, अत एव प्रशान्तं-प्रकरणोपशमवच्चित्तमस्येति प्रशान्तचितः, दान्तः-अहितप्रवृत्तिनिवारणतो वशीकृत आत्मा येन.स तथा, योगावानुपधानवानिति च प्राग्वत्, । मू.(१४१२) तहा य पयणुवाई य, उवसंते जिइंदिए।
एयजोगसमाउत्तो, पम्हलेसं तु परिणमे ॥ वृ.तथा 'प्रतनुवादी' स्वल्पभाषकश्चशब्दो भिन्नक्रमो योक्ष्यते, 'उपशान्तः' अनुभटतयोपशान्ताकृतिः 'जितेन्द्रियश्च' वशीकृताक्षः, एतद्योगसमायुक्तः पद्मलेश्यां तु परिणमेत् ।। मू.(१४१३) अहरुद्दाणि वज्जित्ता, धम्मसुक्काणि साहए।
पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तेसु ॥ वृ. आर्त्तरौद्रे' उक्तरूपे ध्याने 'वर्जयित्वा' परिहत्य 'धर्मशुक्ले' प्रागुक्ते एव शुभध्याने 'साधयेत' सतताभ्यासतो निष्पादयेत्, यः कीदृशः सन् ? इत्याह-प्रशान्तचित्तो दान्तात्मेति च प्राग्वत्, पाठान्तरतश्च ध्यायति यो विनीतविनयो दान्तः ‘समितः' समितिमान् ‘गुप्तश्च' निरुद्धसमस्तव्यापारः 'गुप्तिभिः' मनोगुप्त्यादिभिः, तृतीयार्थे सप्तमी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org