________________
२३६
उत्तराध्ययन-मृलसूत्रम्-२-३४/१४१४ मू.(१४१४) सरागे वीयरागे वा, उवसंते जिइंदिए।
एयजोगसमाउत्तो, सुक्कलेसंतु परिणमे॥ वृ.सच 'सरागः' अक्षीणानुपशान्तकपायतया वीतरागो वा ततोऽन्य उपशान्तः पाठान्तरतः 'शुद्धयोगो वा' निर्दोषव्यापारो जितेन्द्रियः प्राग्वत्, स एतद्योगसमायुक्तः शुक्ललेश्यां तु परिणमति, इह च शुभलेश्यासु केषाञ्चिद्विशेषणानां पुनरुपादानेऽपि लेश्यान्तरविषयत्वादपौनरुक्त्यं, पूर्वपूर्वापेक्षयोत्तरोत्तरेषां विशुद्धितः प्रकृष्टत्वं च भावनीयं, विशिष्टलेश्या वाऽपेक्ष्यैवं लक्षणाभिधानमिति न देवादिभिर्व्यभिचार आशङ्कनीय इति द्वादशसूत्रार्थः ।। मू.(१४१५) अस्संखिज्जाणोसप्पिणीण उस्सप्पिणीण जे समया।
संखाईया लोगा लेसाण हवंति ठाणाइं॥ वृ. 'असङ्खयेयानां' सङ्ख्यातीतानाम् अवसर्पन्ति-प्रतिसमयं कालप्रमाणं जन्तूनां वा शरीरायुःप्रमाणादिकमपेक्ष्यहासमनुभवन्त्यवश्यमित्यवसर्पिण्यो-दशसागरोपमकोटीकोटिपरिमाणास्तासां तथा तत्परिमाणानामेव उत्सर्पन्ति-उक्तन्यायतो वृद्धिमनुभवन्त्यवश्यमित्युत्सर्पिण्यस्तासां ये 'समयाः' परमनिरुद्धकाललक्षणाः, कियन्त इत्याह- सङ्ख्यातीताः पाठान्तरतोऽसङ्ख्येया वा लोका असख्येयलोकप्रमितत्वेन यथा दशप्रस्थप्रमितत्वेन व्रीहयो दशप्रस्थाः, ततोऽयमर्थ:-असङ्ख्येयलोकाकाशप्रदेशपरिमाणानि लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि, अशुभानां संक्लेशरूपाणि शुभानां च विशुद्धिरूपाणि तत्परिमाणानीति शेषः, यद्वा असङ्ख्येयोत्सर्पिण्यवसर्पिणीनां ये समया गम्यमानत्वात्तावन्ति लेश्यानां भवन्ति स्थानानीति कालतोऽसङ्ख्याता लोका इति च क्षेत्रतः स्थानमानमेवोक्तमिति सूत्रार्थः ।। मू.(१४१६) मुहुत्तद्धं तु जहन्ना तित्तीसा सागरा मुहुत्तऽहिया।
उक्कोसा होइ ठिई नायव्वा किण्हलेसाए। मू.(१४१७) मुहत्तद्धं तु जहन्ना दसउहिपलियमसंखभागमब्भहिया।
उक्कोसा होइ ठिई नायव्वा नीललेसाए॥ मू.(१४१८) मुहुत्तद्धं तु जहन्ना तित्रुदही पलियमसंखभागमब्भहिया।
उक्कोसा होइ ठिई नायव्वा काउलेसाए। मू.(१४१९) मुहत्तद्धं तु जहन्ना दोण्हु पलियमसंखभागमब्भहिया।
उक्कोसा होइ ठिई नायव्वा तेउलेसाए॥ मू.(१४२०) मुहुत्तद्धंतु जहन्ना दसउदही होइ मुहत्तब्भहिया।
उक्कोसा होइ ठिई नायव्वा पम्हेलेसाए। मू. (१४२१) मुहुत्तद्धं तु जहना तित्तीसं सागरा मुहुत्तहिया।
उक्कोसा होइ ठिई नायव्वा सुक्कलेसाए। वृ. मुहूर्तस्या? मुहूर्तार्द्धः, तत्कालात्यन्तसंयोगे द्वितीया, इह च समप्रविबागस्याविवक्षितत्वादन्तर्मुहूर्तमित्युक्तं भवति, 'तुः' अवधारणे ततो मुहूर्तार्द्धमेव जघन्या तेत्तीस'त्ति त्रयस्त्रिंशत् 'सागराइं'ति पदैकदेशऽपि पदप्रयोगदर्शनात्सागरोपमाणि 'मुहुत्तऽहिय'त्ति इहोत्तरत्र च मुहूर्तशब्देन मुहूर्तेकदेश एवोक्तः, समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्तन्ते यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org