________________
अध्ययनं- - ३४, [ नि. ५४९ ]
२३७
ग्रामो दग्धः पटो दग्ध इति, ततश्चान्तर्मुहूर्त्ताधिकान्युत्कृष्टा भवति स्थितिर्ज्ञातव्या कृष्णलेश्यायाः, इह चान्तर्मुहूर्त्तस्यासङ्ख्ये भेदत्वादन्तर्मुहूर्त्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्त्तद्वयमुक्तं द्रष्टव्यमेवमुत्तरत्रापि ।
मुहूर्त्तार्द्धस्तु जघन्या 'देशे 'ति दशशङ्ख्यानि उदधय इत्युक्तन्यायेनोदध्युपमानि को 5र्थः ? - सागरोपमाणि 'पलिय'त्ति तथैव पल्योपमं तस्यासङ्ख्यभागस्तेनाधिकानि पल्योपमासङ्ख्येयभागाधिकान्युत्कृष्टा भवति स्थितिर्ज्ञातव्या नीललेश्यायाः, नन्वस्या धूम्रप्रभोपरितनप्रस्तटएव सम्भवः तत्र च ‘अंतोमुहुत्तंमि गए" त्यादिवक्ष्यमाणन्यायतः पूर्वोत्तरभवान्तर्मुहूर्तद्वयपल्योपमासङ्ख्येयभागाभ्यधिकदशसागरोपमपरिमाणैवासौ किं नोक्ता ?, उच्यते, उक्तैव, पल्योपमासङ्ख्येयभाग एव तस्याप्यन्तमुहूर्त्तद्वयस्यान्तर्भावात्, तदसङ्ख्येय-भागानां चासङ्ख्येयभेदत्वादिहैतावत्परिमाणस्यैवास्य विवक्षितत्वान्न विरोधः, एवमुत्तरत्रापि भावनीयम् ।
अक्षरसंस्कारस्तूत्तरेषु कृत एव, नवरं त्रय उदधयः सागरोपमाणि द्वावुदधी - द्वे सागरोपमे, दशोदधयो- दश सागरोपमाणि, 'तेत्तीसं 'ति त्रयस्त्रिंशत्सागरोपमाणि, पठन्ति च सर्वत्र 'मुहुत्तद्दा उत्ति, तत्र मुहूर्त्त (र्त्तार्ध) शब्देन प्राग्वदन्तर्मुहूर्त्तस्योक्तत्वादन्तर्मुहूर्त्तकालमिति सूत्रषट्कार्थः ॥ सम्प्रति प्रकृतमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाह
मू. (१४२२ )
एसा खलु लेसाणं ओहेण ठिई उ वन्निया होइ। चसुवि गईसु इत्तो लेसाण टिई उ वुच्छामि ॥
मू. (१४२३ )
वृ. स्पष्टमेव, नवरम् 'ओधेन' इति सामान्येन गतिभेदाविवक्षयेतियावत्, 'चतसृष्वपि गतिषु' नरकगत्यादिषु प्रत्येकमिति शेषः, 'अत:' इत्योधस्थितिवर्णनानन्तरमिति सूत्रार्थः ॥ दसवाससहस्साइं काउइ ठिई जहन्निया होइ। तिश्नोदही पलिय असंखेज्जभागं च उक्कोसा ॥ तिनुदही पलि ओवममसंखभागो जहन्ननीलठिई। दसउदही पलि ओवममसंखभागं च उक्कोसा ॥ दसउदही पलि ओवममसंखभागं जहन्निया होइ।
मू. (१४२४ )
मू. (१४२५ )
मू. ( १४२६ )
मू. (१४२७ )
मू. (१४२८ )
तित्तीससागराई उक्कोसा होइ किण्हाए । एसा नेरईयाणं लेसाण ठिई उ वन्निया होइ। तेन परं वुच्छामि तिरियमनुस्साण देवाणं ॥ अंतोमुहुत्तमद्धं लेसाण ठिई तहिं तहिं जा उ । तिरियाण नराणं वा वज्जित्ता केवलं लेसं ॥ मुहुत्तद्धं तु जहन्ना उक्कोसा होइ पुव्वकोडी उ । नवहिं वरिसेहिं ऊणा नायव्वा सुक्कलेसाए । एसा तिरियनराणं लेसाण ठिई उ वन्निया होइ। तेन परं वृच्छामि लेसाण ठिई उ देवाणं ॥ दसवाससहस्साइं किण्हाए ठिई जहन्निया होइ। पलियमसंखिज्जइमो उक्कोसो होइ किण्हाए ॥
मू. (१४२९ )
मू. ( १४३० )
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org