________________
२३८
उत्तराध्ययन-मूलसूत्रम्-२-३४/१४३१ मू.(१४३१) जा किण्हाई ठिई खलु उक्कोसा सा उ समयमब्भहिया।
__जहन्नेणं नीलाए पलियमसंखं च उक्कोसा।। मू. ( १४३२) जा नीलाइ ठिई खलु उक्कोसा सा उ समयमब्भहिया।
जहन्नेणं काऊएपलियमसंखं च उक्कोसा। मू.(१४३३) तेन परंवुच्छामी तेऊलेसा जहा सुरगणाणं।
भवणवइवाणमंतरजोइसवेमानियाणंच॥ मू. (१४३४) पलिओवमं जहन्ना उक्कोसा सागरा उदुण्हऽहिया।
पलियमसंखिज्जेणं होई भागेण तेऊए। मू.(१४३५) दसवाससहस्साई तेऊइ ठिई जहनिया होइ।
दुन्नुदही पलिओवमअसंखभागं च उक्कोसा। मू.(१४३६) जा तेऊइ ठिई खलु उक्कोसा उ समयब्भहिया।
जहन्त्रेण पम्हाए दस मुहत्तऽहियाई उक्कोसा। मू.(१४३७) जा पम्हाइ ठिई खलु उक्कोसा उसमयब्भहिया।
जहन्त्रेण सुक्काए तित्तीसमुहत्तमन्भहिया। वृ.दशवर्षसहस्राणि कापोतायाः स्थितिर्जघन्यका भवति, त्रय उदधयः ‘पलियमसंज्ज्जभागंच'त्ति सूत्रत्वात् पल्योपमासङ्ख्येयभागंचोत्कृष्टा, पठन्ति च-'उक्कोसा तिन्नुदही पलियमसंखेज्जभागऽहिय'त्ति स्पष्टम्, इयं च जघन्या रत्नप्रभायां, तस्यां हि जघन्यतोऽपि दशवर्षसहस्राण्यायुरिति, उत्कृष्टा च वालुकाप्रभायां, तत्राप्युपरितनप्रस्तटनारकाणामेव, तेषामेतावत्स्थितिकानामसाविति भावनीयम्।।
त्रय उदधयः पल्योपमाख्येयभागश्च मकारस्यालाक्षणिकत्वात् चस्य गम्यमानत्वाज्जघन्या नीलायाः स्थितिर्दशोदधय: पल्योपमासङ्ख्येयभागश्चोत्कृष्टा, इहापि जघन्या वालुकाप्रभायामेतावत्स्थितिकानामेव, उत्कृष्टा च धूमप्रभायामुपरितनप्रस्तटनारकाणां, तत्रापि येषामेतावती स्थितिरिति मन्तव्या, इहोत्तरत्र च पाठान्तरं दृश्यते, तत्र च जघन्यस्थितिः समयाधिकत्वमुक्तं तच्च न बुध्यत इति न तद्याख्या, दशोदधयः पल्योमासङ्ख्येयभागो जघन्यिका भवति प्रक्रमात्स्थितिः कृष्णाया इति सम्बन्धः, अस्याश्च धूमप्रभायामेतावत्स्थितिकेष्वेव नारकेषु सम्भवः, त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा भवति कृष्णायाः, स्थितिरितीहापि प्रक्रमः, इयं च महातमःप्रभायां, तत्रैवैतावत्प्रमाणस्यायुषः सम्भवात्, इह च नारकाणामुत्तरत्र च देवानां द्रव्यलेश्यास्थितिरेवैवं चिन्त्यते, तद्भावलेश्यानां परिवर्त्तमानतयाऽन्यथाऽपि स्थितेः सम्भवात्, उक्तं हि
___ "देवाण नारयाण य दव्वलेसा भवंति एयाओ।
भावपरावत्तीए सुरणेरइयाण छल्लेसा।।" पूर्वोक्तं निगमयन्नुत्तरं च ग्रन्थं प्रस्तावयन्निदमाह-'एषा' अनन्तरोक्ता निरये भवा नैरयिकास्तेषां सम्बन्धिनीनां लेश्यानां 'स्थितिः' अवस्थिति: 'तुः' पूरणे 'वर्णिता' आख्याता बवति, 'तेन'त्ति सूत्रत्वात्ततः 'परम्' इत्यग्रतो वक्ष्यामि प्रक्रमाल्लेश्यानां स्थिति तिर्यग्मनुष्याणां तथा देवानाम् ।। यथाप्रतिज्ञातमेवाह-'अंतोमुत्तमद्ध'त्ति 'अन्तर्मुहूर्ताद्धाम्' अन्तर्मुहूर्त्तकालं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org