Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 245
________________ २४२ उत्तराध्ययन-मूलसूत्रम्-२-३५/१४४३ (अध्ययनं-३५-अनगारमार्गगतिः । वृ. व्याख्यातं लेश्याध्ययननामकं चतुस्त्रिंशमध्ययनम, अधुना पञ्चत्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः--अनन्तराध्ययने लेश्या अभिहिताः, तदभिधाने चायमाशयः- अशुभानुभावलेश्यात्यागतः शुभानुभावा एव लेश्या अधिष्ठातव्याः, एतच्च भिक्षुगुणव्यवस्थितेन सम्यग्विधातुं शक्यं, तद्यवस्थानं च तत्परिज्ञानत इति तदर्थमिदमारभ्यते, एतत्सम्बन्धागतस्य चास्यानुयोगद्वारचतुष्टयं प्राग्वद्वर्णनीयं यावन्नामनिप्पन्ननिक्षेपे अनगारमार्गतिरिति नाम, अतोऽनगारमार्गगतीनां त्रयाणामपि पदानां निक्षेपायाह नियुक्तिकृत् नि. [५४९] अनगारे निक्खेवो चउव्विहो दुविहे होइ नायव्वो । नि. [५५०] जाणगभवियसरीरे तव्वइरित्ते अनिण्हगाईसु। भावे सम्मद्दिट्ठी अगारवासा विनिम्मुक्को।। नि. [५५१] मग्गगईणं दुण्हवि पुवुद्दिट्ठो चउक्कनिक्खेवो। __ अहिगारो भावमग्गे सिद्धिगईए उ नायव्वो।। वृ. गाथात्रयं स्पष्टमेव, नवरंतद्यतिरिक्तश्च निह्नवादिषु, आदिशब्दादन्येष्वपि चरित्रपरिणाम विना गृहाभाववत्सु, निर्धारणे सप्तमी, ततश्च यस्तेषु मध्येऽनगारत्वेन लोके रूढ इत्युपस्कार:, सतद्यतिरिक्तो द्रव्यानगारो, भावे 'सम्यग्दृष्टिः' सम्यग्दर्शनवान्निश्चयतो यत्सम्यक्त्वं तन्मौनमिति चरित्री अगारवासेनागारपाशेन वा प्राकृतत्वात्तृतीयार्थे पञ्चमी विशेषेण-तत्प्रतिबन्धपरित्यागरूपेण निर्मुक्तः-त्यक्तो विनिर्मुक्तोऽनगारइति प्रक्रमः, तथा मार्गगत्योर्द्वयोरपि, पूर्वप्रमोक्षमार्गगतिनामन्यध्ययने उद्दिष्टः-कथितः पूर्वोद्दिष्टः, इत्थमेषां चतुविधत्वेन केनेह प्रकृतमित्याहअधिकार: 'भावमग्गि'त्ति सुब्ब्यत्ययाद् 'भावमार्गेण' सम्यग्दर्शनज्ञानचारित्रलक्षणेन सिद्धिगत्या चार्थाद्भावगत्या उपलक्षणत्वाद्भावानगारेण च ज्ञातव्य इति गाथात्रयावयवार्थः। गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्मू. (१४४४) सुणेह मे एगमना, मग्गं सव्वनु (बुद्धहिं) देसियं । जमायरंतो भिक्खू, दुक्खानंतकरो भवे ।। वृ. 'शृणुत' आकर्णयत 'मे' मम कथयत इति शेषः, एकाग्रमनसः, कोऽर्थ ?-अनन्यगतचित्ताः सन्तः शिष्या इति शेष, किं तत् ? इत्याह-'मार्गम्' उक्तरूपं प्रक्रमान्मुक्तेर्बुधैःअवगतयथास्थितवस्तुतत्त्वैरुत्पन्नकेवलैरर्हद्भिः श्रुतकेवलिभिर्गणधरादिभिर्वेत्युक्तं भवति, देशितं-प्रतिपादितमर्थतः सूत्रतश्च, तमेव विशेषयितुमाह-'यम्' इति मार्गम् 'आचरन्' आसेवमानः 'भिक्षुः' अनगार: 'दु:खानां' शारीरमानसानामन्तः-पर्यन्तस्तत्करणशीलोऽन्तकर: 'भवेत्' स्यात्, सकलकर्मनिर्मूलनत इति भावः, तदनेनासेव्यासेवकसम्बन्धेनानगारसम्बन्धित्वं मार्गस्य तत्फलं च मुक्तिगतिरिति दर्शितं, ततश्चानगारमार्ग तद्गतिं च शृणुतेत्य(र्थत) उक्तं भवतीति सूत्रार्थः । यथाप्रतिज्ञातमेवाहम.(१४४५) गिहवासं परिखज्जा, पव्वज्जामस्सिए मनी। इमे संगे वियाणिज्जा, जेहि सज्जंति मानवा।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316