Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
२४६
-उत्तराध्ययन-मूलसूत्रम् - २-३५ / १४६४ समम्' अग्नितुल्यं शस्यन्ते-हिंस्यन्तेऽनेन प्राणिन इति शस्त्र-प्रहरणमन्यदिति गम्यते तस्याविसर्पत्वादसर्वतोधारत्वादल्पजन्तूपघातकत्वाच्चेति भावः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, यस्मादेवं तस्मात् ‘ज्योति:' वैश्वानरं ‘न दीपयेत्' न ज्वालयेत्, अनेन च पचनस्याग्निज्वलनाविनाबावित्वात्तत्परिहार एव समर्थितः, इत्थं च विशेषप्रक्रमे च सामान्याभिधानं प्रसङ्गतः शीतापनोदादिप्रयोजनेऽपि तदारम्भनिषेधार्थम्, आधाकर्मादिका वा विशुद्धकोटिरनेनैवार्थतः परिहार्यो क्ता, तदपरिहारे ह्यवश्यम्भावी पचनानुमत्यादिप्रसङ्ग इति ।
--
नन्वेवं जीववधनिमित्तत्वमेव पचनादेर्निषेधनिबन्धनं, तच्च नास्ति क्रयविक्रययोरित युक्तमेवाभ्यां निर्वहण(मेव)मपि कस्यचिदाशङ्का स्यादतस्तदपनोदाय हिरण्यादिपरिग्रहपूर्वकत्वात्तयोस्तन्निषेधपूर्वकं सूत्रत्रयेण तत्परिहारमाह- 'हिरण्यं' कनकं 'जातरूपं' रूप्यं चकारो ऽ नुक्ताशेषधनधान्यादिसमुच्चये 'मनसाऽपि' चित्तेनाप्यास्तां वाचा 'न प्रार्थयेत्' ममामुकं स्यादिति, अपेर्गम्यमानत्वात्प्रार्थयेदपि न, किं पुनः परिगृह्णीयात् ?, कीदृशः सन् ? - समे- प्रतिबन्धाभावतस्तुल्ये लेष्टुकाञ्चने- मृत्पिण्डखण्डकनके अस्येति समलेष्टुकाञ्चनः, एवंविधश्च सन् भिक्षुः 'विरत: ' निवृत्तः स्यादिति शेष:, कुतः ? - क्रयो-मूल्येनान्यसम्बन्धिनस्तथाविधवस्तुनः स्वीकारो विक्रयश्च तस्यैवात्मीयस्य तथाविधवस्तुजातेनान्यस्य दानं, क्रयश्च विक्रयश्च क्रयविक्रयमिति समाहार स्तस्मात् पञ्चम्यर्थे सप्तमी, विषयसप्तमी वा, तत्र च क्रयविक्रयविषये, 'विरत: ' इति विरतिमानित्यर्थः । किमित्येवम् ? अत आह
क्रीणानः- परकीयं वस्तु मूल्येनाददानः क्रयोऽस्यास्तीति क्रयिको भवति तथाविधेतरलोकसदृश एव भवति, विक्रीणानश्च स्वकीयं वस्तु तथैव परस्य ददद्वणिगू भवति, वाणिज्यप्रवृत्तत्वादिति भाव:, अत एव च 'क्रयविक्रये' उक्तरूपे 'वर्तमानः ' प्रवर्त्तमानो भिक्षुर्भवति न तादृशो, गम्यमानत्वाद्यादश: सूत्राभिहितो भावभिक्षुरिति भावः ।
ततः किमित्याह- 'भिक्षितव्यं' याचितव्यं तथाविधं वस्त्विति गम्यते, 'न' नैव 'क्रेतव्यं' मूल्येन ग्रहीतव्यं, केन ? - भिक्षुणा, कीदृशा ? - भिक्षयैव वृत्तिः - वर्त्तनं निर्वहणं यस्यासौ भिक्षावृत्तिस्तेन, उक्तं हि-‘" सव्वं से जाइयं होइ नत्थि किंचि अजाइयं "ति, क्रयविक्रयवद्भिक्षाऽपि सदोषैव भविष्यतीति मन्तधीर्मन्यते, तत आह- क्रयश्च विक्रयश्च क्रयविक्रयं व्यवच्छेदफलत्वादस्य तदेव महादोषमुक्तन्यायतः, लिङ्गव्यत्ययश्च प्राग्वत्, भिक्षया वृत्तिर्भिक्षावृत्तिः शुभं - इहलोक परलोकयोः कल्याणं सुखं वा तदावहति - समन्तात्प्रापयतीति शुभावहा सुखावहा वा, अनेन क्रीतदोषपरिहार उक्तः, स चाशेषविशुद्धकोटिगतदोषपरिहारोपलक्षणम् ।
मिक्षितव्यमित्युक्तं तच्च दान श्राद्धादिवेश्मनि क्वचिदेकत्रैव स्यादत आह- 'समुदानं' मैक्षं न त्वेकभिक्षामेव तच्चोञ्छमिव उञ्छम् अन्यान्यवेश्मतः स्वल्पं स्वल्पमामीलनात्, मधुकरवृत्त्या हि भ्रमत ईदगेव भवतीत्येवमुक्तम्, 'एषयेत्' गवेषवेत्, एतच्चोत्सूत्रमषि . स्यादित्याह-सूत्रम्-आगमस्तदनतिक्रमेण यथासूत्रम् - आगमाभिहितोद्गमैषणाद्यबाधात इत्युक्तं भवति, तत एव 'अनिन्दितं' शिष्टनिन्द्येन स्वपरप्रशंसादिहेतुनाऽनुत्पादितं जात्यादिजुगुप्सितजनसम्बन्धि वा न भवति, तथा लाभश्चालाभश्च लाभालाभं तस्मिन् संतुष्टःओदनादेः प्राप्तावप्राप्तौ च सन्तोषवान् न तु वाञ्छाविधुरितचित्त इति भाव:, इह च लाभेऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316