Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं-३५,[ नि. ५५१]
२४५ 'प्रासुके' अचित्तीभूतभूभागरूपे, तथाऽविद्यमाना बाधाऽऽत्मनः परेषां वाऽऽगन्तुकसत्त्वानां गृहस्थानां च यस्मिस्तत्तथा 'स्त्रीभिः' अङ्गनाभिरुपलक्षणत्वात्पण्डकादिभिश्च 'अनभिद्रुते' अनुपद्रुते तदुपद्रवविरहित इत्यर्थः, एतानि हि मुक्तिपथप्रतिपन्थित्वेन तत्प्रवृत्तानामुपद्रवहेतुभूतानीत्येवमभिधानं तत्रे'ति प्रागक्तविशेषणे श्मशानादौ सम्यक्कल्पयेत्-कुर्यात्सङ्कल्पयेत्, कं ?-वासं, भिक्षणशीलो भिक्षुः, स च शाक्यादिरपि स्यादत आह-परमः-प्रधानः स चेह मोक्षस्तदर्थं सम्यग् यतते परमसंयतः, जिनमार्गप्रपन्न इत्युक्तं भवति, तस्यैव मुक्तिमार्ग प्रति वस्तुतः सम्यग्यत्नसम्भवात्, प्राग्वासं तत्राभिरोचयेदित्युक्ते रुचिमात्रेणैव कश्चितुष्येदिति तत्र सङ्कल्पयेद्वासमित्यभिधानम्। ननु किमिह परकृत इति विशेषणमुक्तमित्याशङ्कयाह___न 'स्वयम्' आत्मना 'गृहाणि' उपाश्रयरूपाणि 'कुर्वीत' विदधीत नैव अन्यैः' गृहस्था-- दिभिः 'कारयेत्' विधापयेदुपलक्षणत्वान्नापि कुर्वन्तमनुमन्येत, किमिति?, यतो गृहनिष्पत्त्यर्थं कर्म गृहकर्म-इष्टकामदानयनादि तदेव समारम्भः-प्राणिनां परितापकरत्वात्, उक्तं हि"परितावकरो भवे समारंभो"त्ति, यद्वा तस्य समारम्भः-प्रवर्तनं गृहकर्मसमारम्भस्तस्मिन् 'भूतानाम्' एकेन्द्रियादिप्राणिनां 'दृश्यते' प्रत्यक्षत एवोपलभ्यते, कोऽसौ?-'वधः' विनाशः । ___ भूतानां वध इत्युक्तं तन्न मा भूत्केषाञ्चिदेवासाक्त्यिशङ्क्याह-'त्रसानां' द्वीन्द्रियादीनां 'स्थावराणां' पृथिव्यायेकेन्द्रियाणां 'च:' समुच्चये तेषामपि 'सूक्ष्माणाम्' अतिश्लक्ष्णानां शरीरापेक्षया न जीवप्रदेशापेक्षया, तस्यामूर्ततयैवंप्रागव्यवहारायोगात्, ‘बादराणां च' एवमेव स्थूलानां, यद्वा सूक्ष्मनामकर्मोदयात्सूक्ष्माणां तेषामपि प्रमादतो भावहिंसासम्भवाद्बादस्नामकर्मोदयाच्च बादराणाम्, । उपसंहर्तुमाह-'तम्ह'त्ति यस्मादेवं भूतवधस्तस्माद्गृहसमारम्भ 'सयतः' सम्यहिंसादिभ्य उपरतोऽनगार इत्यर्थः 'परिवर्जयेत्' परिहरेत्, इत्थमाश्रयचिन्तां विधायाहारचिन्तामाह-'तथैव' तेनैव प्रकारेण भक्तानिच-शाल्योदनादीनि पीयन्त इति पानानिपयःप्रभृतीनि तानि च भक्तपानानि तेषु, पचनानि च-स्वयं विक्लेदापादनक्वथनानि पाचनानि च-तान्येवान्यैः पचनपाचनानि तेषु च भुतवधो दृश्यत इति प्रक्रमः, ततः किमित्याह-प्राणाद्वीन्द्रियादयो भूतानि-पृथिव्यादीनि तेषां दया-रक्षणं प्राणभूतदया तदर्थ-तद्धेतोः, किमुक्तं भवति?-पचनपाचनप्रवृत्तानां य: संभवी जीवोपधातः स मा भूदिति न पचेत्खतो भक्तादीति प्रक्रमो नापि पाचयेत्तदेवान्यैः। ___ अमुमेवार्थं स्पष्टतरमाह-जलं च-पानीयं धान्यं च-शाल्यादि तन्निश्रिताः-तत्रान्यत्र चोत्पद्य ये तन्निश्रया स्थिता पूतरकभुजगेलिकापिपीलिकाप्रभृतय उपलक्षणत्वात्तद्रूपाश्च 'जीवाः' प्राणिनः, एवं पृथ्वीकाष्ठनिश्रिता एकेन्द्रियादयो हन्यन्ते भक्तपानेषु प्रक्रमात्पच्यमानादिषु, यत एवं तस्माद्भिक्षुर्न पाचयेत्, अवेर्गस्यमानत्वात्पाचयेदपि न किं पुनः स्वयं पचेत्, अनुमतिनिषेधोपलक्षणं चैतत्। __ अमरं च विसर्पतीति विसर्प-स्वल्पमपि बहु भवति, यत उक्तम्-"अण थोवं वन थोवं अग्गी थोव"मित्यादि, सर्वत:-सर्वासु दिक्षु धारेव धारा-जीवविनाशिका शक्तिरस्येति सर्वतोधारं सर्वदिगवस्थितजन्तूपघातकत्वात्, उक्तं च-"पाईणं पडीणं वावी"त्यादि,
अत एव 'बहुप्राणविनाशनम्' अनेकजीवजीवितव्यपरोपकं 'नास्ति' न विद्यते 'ज्योति:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316