________________
२४२
उत्तराध्ययन-मूलसूत्रम्-२-३५/१४४३ (अध्ययनं-३५-अनगारमार्गगतिः । वृ. व्याख्यातं लेश्याध्ययननामकं चतुस्त्रिंशमध्ययनम, अधुना पञ्चत्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः--अनन्तराध्ययने लेश्या अभिहिताः, तदभिधाने चायमाशयः- अशुभानुभावलेश्यात्यागतः शुभानुभावा एव लेश्या अधिष्ठातव्याः, एतच्च भिक्षुगुणव्यवस्थितेन सम्यग्विधातुं शक्यं, तद्यवस्थानं च तत्परिज्ञानत इति तदर्थमिदमारभ्यते, एतत्सम्बन्धागतस्य चास्यानुयोगद्वारचतुष्टयं प्राग्वद्वर्णनीयं यावन्नामनिप्पन्ननिक्षेपे अनगारमार्गतिरिति नाम, अतोऽनगारमार्गगतीनां त्रयाणामपि पदानां निक्षेपायाह नियुक्तिकृत् नि. [५४९] अनगारे निक्खेवो चउव्विहो दुविहे होइ नायव्वो । नि. [५५०] जाणगभवियसरीरे तव्वइरित्ते अनिण्हगाईसु।
भावे सम्मद्दिट्ठी अगारवासा विनिम्मुक्को।। नि. [५५१] मग्गगईणं दुण्हवि पुवुद्दिट्ठो चउक्कनिक्खेवो।
__ अहिगारो भावमग्गे सिद्धिगईए उ नायव्वो।। वृ. गाथात्रयं स्पष्टमेव, नवरंतद्यतिरिक्तश्च निह्नवादिषु, आदिशब्दादन्येष्वपि चरित्रपरिणाम विना गृहाभाववत्सु, निर्धारणे सप्तमी, ततश्च यस्तेषु मध्येऽनगारत्वेन लोके रूढ इत्युपस्कार:, सतद्यतिरिक्तो द्रव्यानगारो, भावे 'सम्यग्दृष्टिः' सम्यग्दर्शनवान्निश्चयतो यत्सम्यक्त्वं तन्मौनमिति चरित्री अगारवासेनागारपाशेन वा प्राकृतत्वात्तृतीयार्थे पञ्चमी विशेषेण-तत्प्रतिबन्धपरित्यागरूपेण निर्मुक्तः-त्यक्तो विनिर्मुक्तोऽनगारइति प्रक्रमः, तथा मार्गगत्योर्द्वयोरपि, पूर्वप्रमोक्षमार्गगतिनामन्यध्ययने उद्दिष्टः-कथितः पूर्वोद्दिष्टः, इत्थमेषां चतुविधत्वेन केनेह प्रकृतमित्याहअधिकार: 'भावमग्गि'त्ति सुब्ब्यत्ययाद् 'भावमार्गेण' सम्यग्दर्शनज्ञानचारित्रलक्षणेन सिद्धिगत्या चार्थाद्भावगत्या उपलक्षणत्वाद्भावानगारेण च ज्ञातव्य इति गाथात्रयावयवार्थः। गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्मू. (१४४४) सुणेह मे एगमना, मग्गं सव्वनु (बुद्धहिं) देसियं ।
जमायरंतो भिक्खू, दुक्खानंतकरो भवे ।। वृ. 'शृणुत' आकर्णयत 'मे' मम कथयत इति शेषः, एकाग्रमनसः, कोऽर्थ ?-अनन्यगतचित्ताः सन्तः शिष्या इति शेष, किं तत् ? इत्याह-'मार्गम्' उक्तरूपं प्रक्रमान्मुक्तेर्बुधैःअवगतयथास्थितवस्तुतत्त्वैरुत्पन्नकेवलैरर्हद्भिः श्रुतकेवलिभिर्गणधरादिभिर्वेत्युक्तं भवति, देशितं-प्रतिपादितमर्थतः सूत्रतश्च, तमेव विशेषयितुमाह-'यम्' इति मार्गम् 'आचरन्' आसेवमानः 'भिक्षुः' अनगार: 'दु:खानां' शारीरमानसानामन्तः-पर्यन्तस्तत्करणशीलोऽन्तकर: 'भवेत्' स्यात्, सकलकर्मनिर्मूलनत इति भावः, तदनेनासेव्यासेवकसम्बन्धेनानगारसम्बन्धित्वं मार्गस्य तत्फलं च मुक्तिगतिरिति दर्शितं, ततश्चानगारमार्ग तद्गतिं च शृणुतेत्य(र्थत) उक्तं भवतीति सूत्रार्थः । यथाप्रतिज्ञातमेवाहम.(१४४५) गिहवासं परिखज्जा, पव्वज्जामस्सिए मनी।
इमे संगे वियाणिज्जा, जेहि सज्जंति मानवा।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org