SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - ३४, [ नि. ५४९ ] २४१ यत आगम: -- "जल्लेसाई दव्वाई परियाइत्ता कालं करेइ तल्लेसो उववज्जइ "त्ति, तथेहैव वक्ष्यति "अंतोमुहुत्तंमि गए" इत्यादि तत्र जन्मान्तरभाविलेश्यायाः किं प्रथमसमये परभवायुप उदय आहोखिच्चरमसमयेऽन्यथा वेति संशयापनोदानायाह मू. ( १४४० ) मू. ( १४४१ ) लेसाहिं सव्वाहिं पढमे समयंमि परिणयाहिं तु । न हु कस्सइ उववत्ति परे भवे अत्थि जीवस्स ॥ लेसाहिं सव्वाहिं चरमे समयंमि परिणयाहिं तु । न हु कस्सइ उववर्त्तत परे भवे अत्थि जीवस्स ॥ अंतमुहुत्तंमि गए अंतमुहुत्तंमि सेसए चेव । लेसाहिं परिणयाहिं जीवा गच्छंति परलोयं ॥ मू. ( १४४२ ) वृ. 'लेश्याभि:' उक्तरूपाभि:' 'सर्वाभिः' इति षड्भिरपि प्रथमे समये तत्प्रतिपत्तिकालापेक्षया 'परिणताभिः ' प्रस्तावादात्मरूपतामापन्नाभिः, लक्षणे तृतीया, 'तुः' पूरणे 'न हु' नैव कस्यापि 'उववत्ति'त्ति 'उत्पत्ति: ' उत्पादः, पठ्यते च 'नवि कस्सवि उववाओ 'त्ति सुगमं, 'परे' अन्यस्मिन् 'भवे' जन्मनि 'भवति' विद्यते 'जीवस्य' जन्तोः । तथा लेश्याभिः सर्वाभि: ‘चरमे समये ' इथ्यन्तसमये परिणताभिस्तु 'नहु' नैव कस्याप्युत्पत्तिः परे भवे भवति जीवस्य । कदा तर्हि ? इत्याह अन्तर्मुहूर्त्ते 'गत एव' अतिक्रान्त एव तथाऽन ऽन्तर्मुहूर्ते शेषके चैव - अवतिष्ठमान एव लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति 'परलोकं' भवान्तरम्, इत्थं चैतन्मृतिकाले भाविभवलेश्याया उत्पत्तिकाले वाऽतीतभवलेश्याया अन्तर्मुहूर्त्तमवश्यम्भावात्, न त्विह विपरीतमवधार्यते-अन्तर्मुहूर्त्त एव गत इत्यन्तमुहूर्त, एव शेषक इति च, देवनारकाणां स्वस्वलेश्यायाः प्रागुत्तरभवान्तर्मुहूर्त्तद्वयसहितनिजायुः कालं यावदवस्थितत्वात् उक्तं हि प्रज्ञापनायाम्"जल्लेसाइं दव्वाई आयतित्तां कालं करेति तल्लेसेसु उववज्जइ'त्ति, तथा 'कण्हलेसे नेरतिंए कण्हलेसेसु नेरइएसु उववज्जति कण्हलेसेसु उव्वट्टइ, जल्लेसे उववज्जइ तल्लेसे उव्वट्टति, एवं नीलसेवि काउलेसेवि, एवं असुरकुमारा जाव वेमाणिय"त्ति, अनेनान्तर्मुहूर्त्तावशेष आयुषि परभवलेश्यापरिणाम इत्युक्तं भवतीति सूत्रत्रयार्थः ॥ इत्थं लेश्यानां नामांद्यभिधाय साम्प्रतमध्ययनार्थमुपसंजिहीर्षुरुपदेशमाहमू. ( १४४३ ) तम्हा एयासि लेसाणं, अनुभावं वियाणिया । अप्पसत्थाउ वज्जित्ता, पसत्थाओ अहिट्ठए मुनि ॥ त्तिबेमि ॥ वृ. 'तम्ह'त्ति यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवस्तस्मात् 'एतासाम्' अनन्तरमुक्तानां लेश्यानाम् 'अनुभागम्' उक्तंरूपं 'विज्ञाय' विशेषेणावबुध्य अप्रशस्ताः कृष्णाद्यास्तिस्रो वर्जयित्वा 'प्रशस्ता: ' तैजस्याद्यास्तिस्रः 'अधितिष्ठेत्' भावप्रतिपत्त्याऽऽश्रयेन्मुनिरिति शेष इति सूत्रार्थ: । 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत्, नयाश्च प्राग्वत् ॥ अध्ययनं - ३४- समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे चतुस्त्रिंशत्तम् अध्ययनस्य भद्रबाहुसूरि विरचिता एवं शान्त्याचार्य विरचित्ता टीका परिसमाप्ता । 29/16 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy