SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ - २४० उत्तराध्ययन-मूलसूत्रम्-२-३४/१४३७ पल्योपमम्, एतावन्मात्राया एवैषां जघन्यत उत्कृष्टतश्चायुःस्थितेः सम्भवात् । 'दसवास सहस्साई' इत्यादि स्पष्टमेव, नवरमनेन निकायभेदमनङ्गीकृत्यैव लेश्यास्थितिरुक्ता, इह च दशवर्षसहस्राणि जघन्या तेजस्याः स्थितिरभिहिता, प्रक्रमानुरूप्येण तु योत्कृष्टा कापोतायाः स्थितिरसावेवास्या: समयाधिका प्राप्नोति, अधीयेत च केचनानन्तरसूत्रत्रयस्थाने-- 'जा काऊइ ठिई खलु उक्कोसे'त्यादि तदत्र तत्त्वं न विद्मः। पद्मायाः स्थितिमाह-पद्मायाः स्थितिमाह-या तेजस्याः स्थितिः खलूत्कृष्टा 'सा उ'त्ति सैव समयाभ्यधिका जघन्येय पद्मायाः स्थितिरिति प्रक्रमः, 'दश तु' इति दशैव प्रस्तावात्सागरोपमाणि मुहूर्त्ताधिकान्युत्कृष्टा, इयं च जघन्या सनत्कुमारे उत्कृष्टा च ब्रह्मलोके, तयोरेवैतदायुष्कसम्भवात्, आह-यदीहान्तर्मुहूर्त्तमधिकमुच्यते ततः पूर्वत्रापि किं न तदधिकमुच्यते? देवभवलेश्याया एव तत्र विवक्षितत्वात्, प्रतिज्ञातं हि तेन परंवोच्छामि लेसाण ठिई तु देवाणं'ति, एवं सतीहान्तर्मुहूर्ताधिकत्वं विरुध्यते, न अभिप्रायापरिज्ञानात्, अत्र हि प्रागुत्तरभवलेश्याऽपि "अंतोमुहुत्तंमि गए"त्ति वचनाद्देवभवसम्बन्धिन्येवेति प्रदर्शनार्थमित्थमुक्तमिति न विरोध इति भावनीयम् । शुक्ललेश्यास्थितिमाह-या पद्मायाः स्थितिः खलुत्कृष्टा ‘सा उत्ति सैव समयाभ्यधिका जघन्येय शुक्लायाः स्थितिरिति प्रक्रमः, त्रयस्त्रिंशत् 'मुहुत्तमब्भय'त्ति प्राग्वन्मुहूर्ताभ्यधिकानि सागरोपमाण्युत्कृष्टेति गम्यते, अस्याश्च लान्तकाभिधानषष्ठदेवलोकात्प्रभृति यावत्सर्वार्थसिद्धस्तावत्सम्भवः, अत्रैवैतादायुषः सद्भाव इतिकृत्वेति पञ्चदशसूत्रार्थः॥ उक्तं स्थितिद्वारं, साम्प्रतं गतिद्वारमाहमू.(१४३८) किण्हा नीला काऊ तिन्निवि एयाओ अहम्मलेसाओ। एयाहि तिहिवि जीवो दुग्गइं उववज्जई॥ वृ. कृष्णा नीला कापोतास्तिस्रोऽप्येता अधर्मलेश्याः, पापोपादानहेतुत्वात्, पाठान्तरतोऽधमलेश्या वा, तिसृणामप्यविशुद्धत्वेनाप्रशस्तत्वात्, यद्येवं ततः किमित्याह- एताभिः' अनन्तरोक्ताभिः 'तिसृभिरपि' कृष्णादिलेश्याभिः 'जीवः' जन्तुः 'दुर्गति' नरकतिर्यग्गतिरूपाम् 'उपपद्यते' प्राप्नोति, सुब्व्यत्ययाद्वा दुर्गतौ 'उपपद्यते' जायते, संक्लिष्टत्वेन तत्प्रायोग्यायुष एव तद्वतां बन्धसम्भवादिति भावः। मू.(१४३९) तेउ पम्हा सुक्का तिन्निवि एयाउ धम्मलेसाउ। एयाहि तिहिवि जीवो सुग्गइं उववज्जई। वृ.तथा तैजसी पद्मा शुक्लास्तिस्रोऽप्येताः 'धर्मलेश्याः' प्रधानलेश्याः, विशुद्धत्वेनासां धर्महेतुत्वात्, तथा चागमः-"तओ लेसाओ अविसुद्धाओ तओ विसुद्धाओ ततो पसत्थाओ तओ अपसत्थाओ तओ संकिलिट्ठाओ तओ असंकिलिट्ठाओ तओ दुग्गतिगामियाओ तओ सुगतिगामियाओ।" अत एव 'एताभिस्तिसृभिः' तैजस्यादिलेश्याभिर्जीवः 'सोगर्ति'ति 'सुगति' देवमनुष्यगतिलक्षणां मुक्तिं वोपपद्यते, यद्वा प्राग्वत्सुगतौ 'उत्पद्यते' जायते, तथाविधायुबन्धतः सकलकर्मापगमतश्चेति सूत्रद्वयभावार्थः। उक्तं गतिद्वारं, साम्प्रतमायुज्रावसरः, तत्र च यस्या लेस्याया यदायुषो मानं तत्स्थितिद्वार एवार्थतोऽभिहितम्, इह त्विदमुच्यते-अवश्यं हि जन्तुर्यल्लेश्येषूत्पद्यते तल्लेश्य एव म्रियते, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy