Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
अध्ययनं - ३४, [ नि. ५४९ ]
२३९
लेश्यानां स्थितिर्जघन्योत्कृष्टा चेति शेषः, कतराऽसौ ? इत्याह- ' यस्मिन् ' इति पृथिवीकायादौ संमूर्छिममनुष्यादौ च याः कृष्णाद्याः 'तुः' पूरणे तिरश्चां मनुष्याणां मध्ये संभवन्ति तासाम्, एता हि क्वचित्काश्चित्संभवन्ति, यत आगमः -
"पुढविकाइयाणं भंते! कइलेसातो पन्नत्ताओ ?, गोयमा ! चत्तारिलेसाओ, तंजहा - कण्हलेसा जाव तेउलेसा, आउवणप्फइखाइयाणवि एवं चेव, तेउवाउबेइंदियतेइंदियत्तउरिंदियाण जहा नेरइयाणं पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! छलेसाओ कण्हा जाव सुक्कलेसा, मानुस्साणं पुच्छा, गोयमा ! छ एयाओ चेव, संमुच्छिममणुस्साणं पुच्छा, गोयमा ! जहा नेरइयाणं । नन्वेवं शुक्ललेश्याया अप्यन्तुर्मुहूर्त्तमेव स्थितिः प्राप्तेत्याशङ्क्याह-वर्जयित्वा केवलां शुद्धां लेश्यां शुक्ललेश्यामितियावत् ।
अस्याश्च यावती स्थितिस्तामाह-'मुहुत्तद्धं तु 'त्ति प्राग्वदन्तर्मुहूर्तमेव जघन्या उत्कृष्टा भवति पूर्वकोटी 'तुः ' विशेषणे, स च जघन्यस्थित्यपेक्षयाऽस्या उक्तमेव विशेषं द्योतयति, नवभिर्वर्षैर्न्यूना ज्ञातव्या शुक्लेश्यायाः स्थितिरिति प्रक्रमः, इह च यद्यपि कश्चित्पूर्वकोट्ययुरष्टवार्षिक एव व्रतपरिणाममाप्नोति तथाऽपि नैतावद्वयःस्थस्य वर्षपर्यायादर्वाक् शुक्ललेश्याया: सम्भव इति नवभिर्वर्षैर्न्यना पूर्वकोटिरुच्यते । 'एसा 'सूत्रं स्पष्टमेव । प्रतिज्ञातानुरूपमाह-दशवर्षसहस्राणि कृष्णायाः स्थितिर्जघन्यका भवति, भवनपतिव्यन्तरेषु चास्याः सम्भवस्तेषामेव जघन्यतोऽप्येतावत्स्थितिकत्वात्, उक्तं च- "दस भवनवणयराणं वाससहस्सा ठिई जहन्नेणं" ति, ‘पलियमसंखेज्जइमो’त्ति पल्योपमासङ्ख्येयतमः प्रस्तावाद् भाग उत्कृष्टा भवति कृष्णायाः स्थितिरिति प्रक्रम, एवंविधविमध्यममायुषामेव भवनपतिव्यन्तराणामियं दृष्टव्या ।
सम्प्रति नीलायाः स्थितिमाह - या कृष्णायाः स्थितिः 'खलुः' वाक्यालङ्कारे 'उत्कृष्ट ' अनन्तरमुक्तरूपा 'सा उ'त्ति सैव 'समयमब्भहिय'त्ति समयाभ्यधिका जघन्येन नीलायाः, 'पलियमसंखिज्ज'त्ति प्राग्वत्पल्योपमासङ्ख्येयश्च भाग उत्कृष्टा स्थितिर्नवरमुक्तहेतोरेव वृहत्तरोऽयमसङ्ख्येयभागो गृह्यते । या नीलायाः स्थितिः खलूत्कृष्टा 'साउ'त्ति सैव समयाभ्याधिका जघन्येन कापोतायाः पल्योपमासङ्ख्येयश्च भाग उत्कृष्टा स्थितिः, एतावदायुषामेव भवनपतिव्यन्तराणामिमे मन्तव्ये, इहाप्युक्तहेतोरेव पूर्वस्माद्बहत्तरोऽसङ्ख्यात भागः परिगृह्यते ।
इत्थं निकायद्वयभाविनीमाद्यलेश्यात्रयस्थितिमुपदर्श्य समस्तनिकायमाविनीं तेजोलेश्यास्थितिमभिधातुं प्रतिज्ञासूत्रमाह- 'तेन'त्ति ततः परं प्रवक्ष्यामि तेजोलेश्यां, 'यथे 'ति येनावस्थानप्रकारेण सुरगणानां भवति तथेत्युपस्कारः, किमन्यतरनिकायानामेवामीषामुतान्यथेत्याहभवनपतिवाणमंतरज्योतिर्वैमानिकानां चतुर्निकायानामिति योऽर्थ:, 'च: ' पूरणे, प्रतिज्ञातमेवाहपल्योपमं जघन्या उत्कृष्टा 'सागर'त्ति सागरोपमे 'तुः ' प्राग्वत् 'द्वे' द्विसङ्ख्ये अधिके-अर्गल, कियतेत्याह-पल्योपमासङ्ख्येयेनेति योगः, भवति तैजस्याः स्थितिरिति प्रक्रमः, इयं च सामान्योपक्रमेऽपि वैमानिकनिकायविषयतयैव नेया, तत्र च सौधर्मेशानदेवानां जघन्यत उत्कृष्टतश्चैतावदायुषः सम्भवात् उपलक्षणं चैतच्छेषनिकायतेजोलेश्यास्थिते:, ततश्च भवनपतिव्यन्तराणां जघन्यतो दशवर्षसहस्राणि, उत्कृष्टतस्तु भवनपतीनां सागरोपममधिकं, व्यन्तराणां च पल्योपमं, ज्योतिष्काणां तु जघन्यतः पल्योपमाष्टभागः, उत्कृष्टस्तु वर्षलक्षाधिकं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316