________________
अध्ययनं - ३३, [ नि. ५३६ ] मू. ( १३७२ )
दाने लाभे य भोगे य, उवभोगे वीरिए तहा।
पंचविहमंतरायं, समासेन वियाहियं ॥
वृ. दीयत इति दानं तस्मिन्, तथा लभ्यत इति लाभस्तस्मिश्चं, भुज्यते सकृदपयुज्यत इति भोगः-सकद्भोग्यः पुष्पाहारादिविषयस्तत्र च, तथा उपेतिअभ्यधिकं पुनः पुनरुपभुज्यमानतया भुज्यत इत्युपभोगः-पुनः पुनरुपभोग्यभवनाङ्गनादिविषयः, उक्तं हि
--
२२३
"संति भुज्जइत्ति भोगो सो पुण आहारपुप्फमाईओ ।
भोगो पुणो पुण उवभुज्जइ व भवणवणियाई ॥ "
तस्मिन्, विशेषण ईर्य्यते चेष्ट्यतेऽनेनेति वीर्यं तस्मिन्, 'तथा' समुच्चये सर्वत्रान्तरायमिति प्रक्रम:, ततश्च विषयभेदात्पञ्चविधमन्तरायं समासेन व्याख्यातं, तत्र दानान्तरायं यत्सति विशिष्टे ग्रहीतरि देये च वस्तुनि तत्फलमवगच्छतोऽपि दाने प्रवृत्तिमुपहन्ति, यत्पुनर्विशिष्टेऽपि दातरि यावन्निपुणेऽपि याचितरि उपलब्धिउपघातकृत् तल्लाभान्तरायं, भोगान्तरायं तु सति विभवादौ सम्बद्यमाने च आहारमाल्यादौ यद्वशान्न बुङ्क्ते, उपभोगान्तरायं तु यस्योदयात्सदपि वस्त्रालङ्काराद्विनोपभुङ्क्ते, वीर्यान्तरायं यद्वशाद्बलवान्नीरुग्वयःस्थः अथ च तृणकुब्झीकरणेऽप्यसमर्थ इति सूत्रद्वादशकार्थः १२ ॥
इत्थं प्रकृतयोऽभिहिताः, सम्प्रत्येतन्निगमनायोत्तरग्रन्थसम्बन्धनाय चाहमू. (१३७३ ) एयाओ मूलपयडीओ, उत्तराओ अ आहिया । पसग्गं खित्तकाले य, भावं चादुत्तरं सुण ॥
-
वृ. 'एता:' अनन्तरोक्ता ज्ञानावरणादिरूपा मूलप्रकृतयः, तथा 'उत्तराः' इत्युत्तरप्रकृतयश्च श्रुतावरणाद्याः, चशब्दः श्रुतादीनामप्यक्षरानक्षरादिभेदतो बहुविधत्वदनुक्तबहुभेदसूचकः 'आख्याताः' कथिताः प्रदेशाः परमाणवस्तेषामग्रंपरिमाणं प्रदेशाग्रं 'खेत्तकाले य'त्ति क्षेत्रकाल च तत्र क्षियन्ति - निवसन्ति तस्मिन्निति क्षेत्रम् - आकाशं कालश्चबद्धस्य कर्मणो जीवप्रदेशाविचटनात्मकः स्थितिकालः 'भावं च' अनुभागलक्षणं कर्मणः पर्यायं चतुः स्थानिकत्रिस्थानिकादिरसमितियावद् ‘अत: उत्तर' मिति अतः प्रकृत्यभिधानादूर्ध्वं भृणु कथ्यमानमिति मू. ( १३७४ ) सव्वेसिं चेव कम्माणं, पएसग्गमनंतगं ।
-
गठियसत्ताईयं, अंतो सिद्धाण आहियं ॥
वृ. 'सर्वेषां' समस्तानां 'च: ' पूरणे 'एव: ' अपिशब्दार्थे सर्वेषामपि न तु केषाञ्चिदेव 'कर्मणां' ज्ञानावरणादीनां 'प्रदेशाग्रां' परमाणुपरिमाणम् अनन्तमेवानन्तकमनन्तपरमाणुनिष्पन्नत्वात्तद्वर्गणानां तच्चानन्तकं ग्रन्थिरिव ग्रन्थिः - घनो रागद्वेषपरिणामस्तं गच्छन्ति ग्रन्थिगास्ते च ते सत्त्वाश्च ग्रन्थिगसत्त्वाः- ये ग्रन्थिप्रदेशं गत्वाऽपि तद्भेदाविधानेन न कदाचिदुपरिष्टाद्गन्तारः ते चाभव्या एवात्र गृह्यन्ते तानतीतं - तेभ्योऽनन्तगुणत्वेनातिक्रान्तं ग्रन्थिगसत्त्वातीतं, तथा 'अन्तः' मध्ये 'सिद्दानां' सिद्धिपदप्राप्तानाम् 'आख्यातं' कथितं गणधरादिभिरिति गम्यते, सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभाग एव, तदपेक्षया सिद्धानामनन्तगुणत्वाद्, अतः सङ्ख्यामपेक्ष्य सिद्दान्तर्वर्त्ति तदनन्तकमुच्यते, एकसमये ग्राह्यकर्मपरमाण्वपेक्षं चैतत् उक्तं हि "ते य कम्मपोग्गला भवसिद्धिएहिं अनंतगुणा सिद्दाणमणंतभागमित्ता एगेगंमि समए गहणमिति "त्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org