SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २२२ उत्तराध्ययन- मूलसूत्रम् - २-३३ / १३६९ तेषु श्रियन्ते, तथा तिरोऽञ्चन्तीति गच्छन्तीति तिर्यञ्चः व्युत्पत्तिनिमित्तं चैतत् प्रवृत्तिनिमित्तं तु तिर्यग्गतिनाम, एते चैकेन्द्रियादयः, तत एषामायुस्तिर्यगायुर्येनैतेषु स्थितिर्भवति, तथा मनोरपत्यानि मनुष्याः ‘मनोर्जातावण्यतौ सुक्चे 'ति यत्प्रत्ययः सुगागमस्तेषामायुर्मनुष्यायुः 'तथैव' तद्भावावस्थितिहेतुतयैव देवा उक्तनिरुक्तास्तेषामारयुर्देवायुर्येन तेष्ववस्थीयते चतुर्थं 'तुः ' पूरणे, एवं चायुः कर्म चतुर्विधम् ९ । मू. ( १३७० ) नामकम्मं दुविहं, सुहमसुहं च आहियं । सुहस्स उ बहू भैया, एमेव य असुहस्सवि ॥ वृ. नामकर्म द्विविधं, कथमित्याह - शोभते सर्वावस्थास्वनेनात्मेति शुभम् अशुभं च तद्विपरीतमाख्यातं 'सुहस्स' त्ति शुभस्यापि बहवो भेदा एवमेवाशुभस्यापि, तदपि बहुभेदमिति भावार्थ: । तत्रोत्तरोत्तरभेदतः शुभनाम्नोऽनन्तभेदत्वेऽपि विमध्यमविवक्षातः सप्तत्रिंशद्भेदाः, तद्यथा - मनुष्यगति १ देवगति २ पञ्चेन्द्रियजाति ३ औदारिक ४ वैक्रिय ५ आहारक ६ तैजस ७ कार्मण ८ शरीराणि पञ्च समुचतुरस्त्रसंस्थानं ९ वज्रर्षभनाराचसंहननम् १० औदारिक ११ वैक्रिय १२ आहारक १३ अङ्गोपाङ्गानि त्रीणि प्रशस्तवर्ण १४ गन्ध १५ रशस १६ स्पर्शाश्चत्वारः १७ मनुष्यानुपूर्वी १८ देवानुपूर्वी १९ चेत्यानुपूर्वीद्वयमगुरुलघु २० पराघातम् २१ उच्छ्वास २२ आतप २३ उद्द्योत २४ प्रशस्तविहायोगति २५ तथा त्रस २६ बादरं २७ पज्जत्तं २८ प्रत्येकं २९ स्थिरं ३० शुभं ३१ सुभगं ३२ सुस्वरम् ३३ आदेयं ३४ यशः कीर्त्तिश्चेति ३५ निर्माणं ३६ तीर्थकरनाम चेति ३७ एताश्च सर्वा अपि शुभानुभावात् शुभं, तथाऽशुभनाम्नोऽपि विमध्यमविवक्षया चतुस्त्रिंशद्भेदाः, तद्यथा - नरकगति १ तिर्यग्गति २ एकेन्द्रियजाति ३ द्वन्द्रजाति ४ त्रीन्द्रियजाति ५ चतुरिन्द्रियजाति ६ ऋषभनाराचं ७ नाराचं ८ अर्धनाराचं ९ कीलिका १० सेवा ११ न्यग्रोधमण्डलं १२ साति १३ वामनं १४ कुब्जं १५ हुण्डम् १६ अप्रशस्तवर्ण १७ गन्ध १८ रस १९ स्पर्शचतुष्टयं २० नरकानुपूर्वी २१ तिर्यगानुपूर्वी २२ उपघातम् २३ अप्रशस्तविहायोगति २४ स्थावरं २५ सूक्ष्मम् २६ साधारणम् २७ अपर्याप्तम् २८ अस्थिरम् २९ अशुभं ३० दुर्भगं ३१ दुःस्वरम् ३२ अनादेयं ३३ अयश: शः कीर्त्तिश्चेति ३४ एतानि चाशुभनारकत्वादिनिबन्धनत्वेनाशुभानि, अत्र च बन्धनसङ्घाते शरीरेभ्यो वर्णाद्यवान्तरभेदाश्च वर्णादिभ्यः पृथग् न विवक्ष्यन्त इति नोक्तसङ्ख्यातिक्रमः मू. (१३७१ ) गोयं कम्मं दुविहं, उच्चं नीयं च आहियं । उच्च अट्ठविहं होइ, एवं नियंपि आहियं ॥ वृ. गोत्रं कर्म द्विविधमुच्चमिक्ष्वाकुजाताद्युच्चैर्व्यपदेशनिबन्धनं, नीचं च तद्विपरीतमाख्यातं, तत्रोच्चमित्युच्चैर्गोत्रमष्टविधं भवति, 'एवम्' इत्यष्टविधतयैव 'नीचमपि' नीचैर्गोत्रमप्याख्यातम्, अष्टविधत्वं चानयोर्बन्धहेत्वष्टविधत्वात्, अष्टौ हि जात्यमदादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचैर्गोत्रस्य तथा च प्रज्ञापना- "उच्चागोयकम्मसरीरपुच्छा, गोयमा ! जाइअमएणं कुलअमएणं वलअमएणं तवअमएणं ईसरियअमएणं सुयअमएणं लाभअमएणं उच्चागोयकम्मसररीपयोगव होति, नीयागोयकम्मसरीरपुच्छा, गोयमा ! जाइमएणं कुलमएणं" इत्याद्यालापकविपर्ययणाष्टौ यावत् “नीयागोयकम्मसरीरयोगवं हवति "त्ति । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy