________________
अध्ययनं - ३३, [ नि. ५३६ ]
मू. (१३६५ )
मोहनियंपि य दुविहं, दंसणे चरणे तहा। दंसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥
वृ. मोहनीयमपि द्विविधं न केवलं वेदनीयं, विषयतश्चैतद्विधेति द्वैविध्यमाह-'दर्शने' तत्त्वरुचिरूपे ' चरणे' चारित्रे तथा, किमुक्तं भवति ? - दर्शनमोहनीयं चारित्रमोहनीयं च तत्र 'दर्शने' दर्शनविषयं प्रक्रमान्मोहनीयं त्रिविधमुक्तं भवति, 'चरणे' चरणविषयं मोहनीयं द्विविधं भवेत् । मू. ( १३६६ ) संमत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एयाओ तिन्नि पयडीओ, मोहनिज्जस्स दंसणे ॥
वृ. यथा दर्शनमोहनीयत्रैविध्यं तथाऽऽह- सम्यग्भावः सम्यक्त्वं शुद्धदलिकरूपं यदुदयेऽपि तत्त्वरुचिः स्यात्‘चैवे’ति पूरणे मिथ्याभाव: मिथ्यात्वम्-अशुद्धदलिकरूपं यतस्तत्त्वेऽ तत्त्वमतत्त्वेऽपि तत्त्वमिति बुद्धिरुत्पद्यते, सम्यग्मिथ्यात्वमेव च - शुद्धाशुद्धदलिकरूपं यत उभयस्वभावता जन्तोर्भवति, इह च सम्यक्त्वादयो जीवधर्मास्तद्धेतुत्वाच्च दलिकेष्वेतद्यप्रदेशः, एतास्तिस्रः प्रकृतयो मोहनीयस्स 'दर्शने' दर्शनविषयस्य ६ ।
मू. ( १३६७ )
२२१
चरित्तमोहणं कम्मं, दुविहं तु वियाहियं । कसायमोहनिज्जं च, नोकसायं तहेव य ॥
वृ. चरित्रे मुह्यतेऽनेनेति मोहनं चरित्रमोहनं कर्म यतः श्रद्दधानोऽपि यदि कथञ्चनाहमेनं प्रतिपद्य इति जानन्नपि तत्फलादि न तत्प्रतिपद्यते, उत्तरत्रतुशब्दस्य भिन्नक्रमत्वात्तत्पुनर्द्विविधं व्याख्यातं श्रुतधरैरिति शेषः, पठन्ति च 'चरित्तमोहनिज्जं दुविहं वोच्छामि अनुपुव्वसो 'त्ति स्पष्टमेव, कथं तद् द्विविधमित्याह - कषायाः - क्रोधादयस्तद्रूपेण वेद्यते - अनुभूयते यत्तत्कषायवेदनीयं ‘चः' समुच्चये ‘नोकषायम्' इति प्रस्तावान्नोकषायवेदनीयं नोकषायाः कषायसहवर्त्तनो हास्यादयस्तद्रूपेण यद्वेद्यते 'तथे 'ति समुच्चये ।
•
मू. ( १३६८ )
-
सोलसविहभेएणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं नोकसायजं ॥
वृ. अनयोरपि भेदानाह - षोडशविधः - षोडशप्रकारो यो भेदो - नानात्वं तेन, लक्षणे तृतीया, यद्वा षोडशविधं भेदेन भिद्यमानतया चिन्त्यमानं, प्राकृतत्वादनुस्वारलोपः, कर्म क्रियमाणत्वात्, ‘तु:' पुनरर्थे भिन्नक्रमश्च, कषायेभ्यो जायत इति कषायजं "जं वेयति तं बंधति" इतिवचनात् कषायवेदनीयमित्यर्थः, षोडशविधत्वं चास्य क्रोधमानमायालोभानां चतुर्णामपि प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदतश्चतुर्विधत्वात् 'सत्तविह'त्ति प्राग्वद्विन्दुलोपात्सप्तविधं वा कर्म नोकषायेभ्यो जायत इति 'नोकषायजं' नोकषायवेदनीयमित्यर्थः, तत्र सप्तविधं हास्यरत्यरतिभयशोकजुगुप्साः षड् वेदश्च सामान्यविवक्षयैक एवेति यदा तु वेदः स्त्रीपुंनपुंसकभेदेन त्रिधेति विवक्ष्यते तदा षड्विस्रयो मीलिता नव भवन्तीति नवविधमिति । मू. (१३६९) नेरइयतिरिक्खाऊ, मनुस्साउं तहेव उ ।
देवाऊयं चउत्थं तु, आउकम्मं चउव्विहं ॥
वृ. 'नेरइयतिरिक्खाउ'त्ति आयुः शब्दः प्रत्येकं योज्यते, ततश्च निष्क्रान्ता अयात्इष्टफलदैवात्तत्रोत्पन्नानां सद्वेदनाऽभावेनेति निरयास्तेषु भवा नैरयिकास्तेषामायुः नैरयिकायुर्येन
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International