________________
२२०
उत्तराध्ययन-मूलसूत्रम्-२-३३/१३६१ मू.(१३६१) नाणावरणं पंचविहं, सुअं आभिनिबोहियं।
ओहिं नाणं तईयं, मननाणं च केवलं॥ वृ. नाणावरणेत्यादि सूत्रादि द्वादश, ज्ञानावरणं 'पञ्चविधं' पञ्चप्रकारं, तच्च कथं पञ्चविधमित्याशङ्कायामावर्यभेदादेवेहावरणस्य भेद इत्यभिप्रायेणावार्यस्य ज्ञानस्यैव भेदानाह- श्रुतमाभिनिबाभिकमवधिज्ञानं तृतीयं मनोज्ञानं च केवलम्, एतत्स्वररपं मोक्षमार्गाध्ययन एवोक्तम्मू.(१३६२) निद्दा तहेव पयला निद्दानिद्दा य पयलपयला य।
तत्तो य थीणगिद्धी पंचमा होइ नायव्वा॥ वृ.निद्राणं निद्रा, सा चेह सुखप्रतिबोधोच्यते, यदुक्तम्-"सुहपडिबोहो निद्द"त्ति, तथैवे'ति तेनैव निद्रावत्किञ्चिच्छुभरूपतात्मकेन प्रकारेण प्रचलत्यस्यामासीनोऽपीति प्रचला, उक्तं हि"पयला होति ठियस्स उ"त्ति, निद्रानिद्रा च' अतिशयनिद्रा दुःखप्रतिबोधात्मिकाऽतिशयख्यापनार्थत्वाद् द्विरुच्चारणस्य, यदुक्तम्-“दुहपडिबोहो य निद्दनिद्द"त्ति, एवं 'प्रचलाप्रचला' प्रचलाऽतिशायिनी, सा हि चंक्रम्यमाणस्यापि भवति, यथोक्तम्-"पयलापयला उ चंकम
ओ"त्ति, चशब्दावुभयत्र तुल्यताख्यापको, द्वे अपि ह्यशुभतया तुल्ये एवैते, तत उपरीति शेषस्ततश्च प्रकृष्टतराशुभानुभावतया ताभ्य उपरिवर्तिनी स्त्याना संहतोपचितेत्यर्थः ऋद्धिगुद्धिर्वा यस्यां सा स्त्यानद्धिः स्त्यानगृद्धिर्वा, प्राच्यश्चः समुच्चयार्थ इह योज्यते, एतदुदये च वासुदेवबलार्द्धबल: प्रबलरागद्वेषोदयवांश्च जन्तुर्जायते, अत एव परिचिन्तितार्थसाधन्यसावुच्यते, यदुक्तम्"थीणद्धी पुन दिनचिंतियस्स अत्थस्स साहणी पायं"त्ति, 'तुः' पूरणे पञ्चमी भवति ज्ञातव्या। मू.(१३६३) चक्खुमचक्खुओहिस्स दंसणे केवले य आवरणे।
एवं तु नवविगप्पं नायव्वं दंसणावरणं । वृ. 'चक्खूमचक्खूओहिस्स'त्ति मकारोऽलाक्षणिकः, ततश्चक्षुश्चाचक्षुश्चावधिश्च चक्षुर- . चक्षुरवधीति समाहारस्तस्य दर्शन इति च प्रत्येकं दर्शनशब्दो योज्यते ततश्चक्षुर्दर्शने-चक्षुषा रूपसामान्यग्रहणे अचशूषि-चक्षुःसदृशानि शेषेन्द्रियमनांसि तदर्शने-तेषां स्वस्वविषयसामान्यपरिच्छेदे अवधिदर्शने-अविधना रूपिद्रव्याणां सामान्यग्रहणे, तथा केवले यत्ति, प्रक्रमात्केवलदर्शने-सर्वद्रव्यपर्याणां सामान्यवबोधे, आवरणमेतच्चक्षुर्दर्शनादिविषयभेदाच्चतुर्विधमत आह-'एवम्' इत्यनेन निद्रापञ्चविधत्वचक्षुर्दर्शनावरणादिचतुर्विधत्वात्मकेन प्रकारेण 'तुः' पूरणे नव विकल्पा-भेदा यस्य तत्तथाविधं ज्ञातव्यं दर्शनावरणम् । मू. (१३६४) वेयणियपि हु(य) दुविहं सायमसायं च आहियं ।
सायस्स उ बहू भेया, एमेवासायस्सवि॥ वृ. 'वेदनीय' वेदनीयकर्म 'अपि च' इति पूरणे 'द्विविधं' द्विभेदं स्वाद्यते-आल्हादकत्वेनास्वाद्यत इति नैरुक्तविधिना 'सातं' सुखं शारीरं मानसं च इहोपचारात्तन्निबन्धनं कर्मैवमुक्तम्, 'असातं च' तद्विपरीतम्, 'आख्यातं' कथितं तीर्थकृद्भिरिति गम्यते, 'सायस्स उ'त्ति 'तुः' अपिशब्दार्थः ततः सातस्यापि बहवो भेदाः, न केवलं ज्ञानदर्शनावरणयोरित्यपिशब्दार्थः, ते च तद्धेतुभूतभूतानुकम्पादिबहुभेदत्वाद्, एवमेवेति बहव एव भेदा असातस्यापि दुःखशोकतापादितद्धेतुबहुविधत्वादेवेति गर्भार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org