________________
२२४
उत्तराध्ययन-मूलसूत्रम्-२-३३/१३७४ पठन्ति च-'गंठि(प)सत्ताऽणाइ'त्ति अत्र व्याख्यानिकव्याख्या-ग्रन्थिप्रसक्तानांधनरागद्वेषपरिणामग्रन्थि कर्कशघनरूढग्रन्थिसमंतथाविधपरिणामाभावतोऽभिन्दानानां सत्त्वानां यो बन्धः सोऽनाद्यनन्तः-आद्यन्तविकलो ज्ञेयः, सिद्धानां पुनः- भविष्य-सिद्धीनां बन्धोऽनादिरपि 'अन्त' इति सान्तस्तथाविधपरिणामतो व्याख्यातो भगवद्भिरिति सूत्रार्थ ।। सम्प्रति क्षेत्रमाहम.(१३७५) सव्वजीवाण कम्मतु, संगहे छद्दिसागयं।
सव्वेसुवि पएसेसु, सव्वं सब्वेण बद्धगं॥ वृ. सर्वे-एकेन्द्रियाद्यशेषभेदास्ते च ते जीवाश्च तेषां 'कर्म' ज्ञानावरणादि 'तुः' पूरणे सङ्ग्रहः-सङ्ग्रहणक्रिया तत्र योग्यं भवतीतिशेषः, यदिवा सर्वजीवा 'णं'ति वाक्यभूषायां कर्म 'संगहे'त्ति संगृह्णन्ति, कीदृशं सदित्याह-'छद्दिसागय'न्ति षण्णां दिशानां समाहार: षड्दिशं तत्र गतं-स्थितं षड्दिशागतम्, अत्र चतस्रो दिशः पूर्वादय ऊर्वाधोदिगूद्वयं चेति षड्भवन्ति, इतं चात्मावष्टब्धाकाशप्रदेशापेक्षयोच्यते, यत्र ह्याकाशे जीवोऽवगाढस्तत्रैव ये कर्म पुद्गलास्ते रागादिस्नेहगुणयोगादात्मनि लगन्ति न क्षेत्रान्तरावगाढाः, भिन्नदेशस्य तद्भावपरिणामाभावात्, यथा ह्यग्निः स्वदेशस्थितान् प्रायोग्यपुद्गलानात्मभावेन परिणमयति एवं जीवोऽपीति, अल्पत्वाच्चेहविदिशामविवक्षितत्वेनषदिशागतमित्यभिधानं, यतो विदिग्व्यवस्थितमपि कर्मात्मना गृह्यते, उक्तं हि गन्धहस्तिना-"सर्वासु दिक्ष्वात्मावधिकासु व्यवस्थितान् पुद्गलानादत्ते" इति, तथा क्षेत्रप्रस्तावे यद्विदिग्निरूपणं तच्चासामाकाशादभेदज्ञापनार्थं तद्भेदेन तासामप्रतीतेः, तथा च यत्कैश्चिहिशां द्रव्यान्तरत्वमुक्तं तदपास्तं भवति, तथा षड्दिग्गतमपि द्वीन्द्रियादीनेवाधिकृत्य नियमेन व्याख्येयमेकेन्द्रियाणामन्यथाऽपि सम्भवात्, तथा चागम:
"जीवे णं भंते ! तेयाकम्मापोग्गलाणं गहणं करेमाणे किं तिदिसिं करेति चउद्दिसिं करेइ पंचदिसिं करेइ छद्दिसिं करे इ?, गोयमा ! सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसि सिय छद्दिसिं करेति, एगिदिया णं भंते! तेयाकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं जावछदिसिं करेति?, गोयमा! सिय तिदिसिं सिय चउद्दिसिंसिय पंचदिसिं सिय छद्दिसिं करेइ, बेंदियतेंदियचउरिदियपंचिंदिया नियमा छद्दिसिं"ति, तच्च षड्दिग्गतं सर्वेष्वपि न तु कतिपयेषु प्रदेशेष्वपि, अर्थादाकाशस्योक्तन्यायादात्मावष्टब्धेषु कर्म सर्वजीवानां सङ्ग्रहे योग्यं भवति, ते वा तत्संगृह्णान्ति, तत्स्थकर्मपुद्गलान् प्रत्यात्मनो ग्रहणहेत्वविशेषात्, तथा सर्वं समस्तं ज्ञानावरणादि नत्वन्यतरदेव, आत्मा हि सर्वप्रकृतिप्रायोग्यान् पुदगलान् सामान्येनादाय तानेवाध्यवसायविशेषात् पृथक् पृथग् ज्ञानावरणादिरूपत्वेन परिणमयति, तच्चैवंविधं कर्म संगृहीतं सत् किं कैश्चिदेवात्मप्रदेशैर्बद्धं भवति यद्वा सर्वेणात्मना? इत्याह___ 'सर्वेण' समस्तेना प्रक्रमादात्मना न तु कियद्भिरेव तत्प्रदेशै; बद्धं-क्षीरोदकवदात्मप्रदेशैः श्लिष्टं तदेव बद्धकम्, अन्योऽन्यसम्बद्धतया हि शृङ्खलावयवानामिव परस्परोपकारित्वादात्मनः प्रदेशानां सहैव योगोपयोगौ भवतो, न त्वेकैकशः, तन्निमित्तकश्च कर्मबन्ध इति सोऽपि सर्वेणैवत्मना, ग्रहणपूर्वकत्वाच्च बन्धस्य तदप्येवमेव, यद्वा तद् गृहीतं सत् केन सह कियत्कथं वा बद्धं भवति? इत्याह- "सव्वेसुवि पएसेसु" सुब्ब्यत्ययात्सर्वैरपि प्रदेशैः प्रक्रमादात्मनः 'सर्व' सर्वप्रकृतिरूपं 'सर्वेण' गम्यमानत्वात्प्रकृतिस्थित्यादिना प्रकारेण बद्धकमिति सूत्रार्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org