________________
२२५
अध्ययनं-३३,[ नि.५३६ ] मू. (१३७६) उदहीसरिनामाणं, तीसई कोडिकोडीओ।
उक्कोसिया होइ ठिई, अंतमुहुत्तं जहनिया ॥ मू.(१३७७) आवरणिज्जाण दुण्डंपि, वेयणिज्जे तहेव य।
अंतराए य कम्ममि, ठिई एसा वियाहिया॥ मू.(१३७८) जयहीसरिसनामाणं, सत्तर कोडिकोडिओ।
मोहनिज्जस्स उक्कोसा, अंतमुहुत्तं जहनिया। मू.(१३७९) तित्तीससागरोवमा, उक्कोसेमं वियाहिया।
ठिई उ आउकम्मस्स, अंतमुहुत्तं जहनिया। मू.(१३८०) उदहीसरिसनामाणं, वीसई कोडिकोडिओ।
नामओगाण उक्कोसा, अंतमुहुतं जहनिया॥ वृ. उदधिः-समुद्रस्तेन सदृक्-सदृशं नाम-अभिधानमेषामुधिसदृग्नामानि-सागरोपमाणि तेषां त्रिंशत्कोटीकोट्यः 'उक्कोसिय'त्ति उत्कृष्टा भवति स्थितिः' अवस्थानं, तहा मुहूर्त्तस्यान्तरं अन्तर्मुहूर्त, मुहूर्तमपि न्यूनमित्यर्थः, जघन्यैव जघन्यका प्रक्रमात्स्थितिः।
केषामित्याह-'आवरणीययोः' अन्यत्रैतद्यपदेशाश्रवणाज्ज्ञानदर्शविषययोः, ततो ज्ञानावरणीयदर्शनावरणीयोर्द्वयोपरपि, वेदनीये तथैव च अन्तराये च कर्मणि स्थितिरेवं व्याख्याता, इह च षष्ठीप्रक्रमेऽपि वेदनीय इत्यादौ सप्तम्यभिधानमनयोरर्थस्य तत्त्वतोऽभिन्नत्वात्,
- "राजा भर्ता मनुष्यस्य, तेन राज्ञः स उच्यते।
__ वृक्षस्तिष्ठति शाखासु, ता वा तत्रेति तस्य ताः॥" तथा इति वेदनीयस्यापि जघन्यस्थितिरन्तर्मुहूर्तमानैव सूत्रकारेणोक्ता, अन्ये तु 'जघन्या(अपरा) द्वादशमूहूर्ता वेदनीयस्ते'ति द्वादशमूहूर्त्तमानामेवैतामिच्छन्ति, तदभिप्रायं न विद्मः। उदधिसदृशनाम्नां सप्ततिकोटीकोट्य मोहनीस्योयत्कृष्टा अन्तर्मुहूर्त जघन्यका। त्रयस्त्रिंशत्सागरोपमाणि आर्षत्वाच्च सुपो लुक्, उत्कृष्टेन व्याख्यात्ता स्थिति: 'तुः' पूरणे आयुःकर्मणोऽन्तर्मुहूर्त जघन्यका । उदधिसदृशनाम्नां विंशतिकोटीकोट्य नामगोत्रयोरुत्कृष्टा अष्ट मुहूर्ता जघन्यका इति सूत्रपञ्चकार्थः।
इत्थमुत्कृष्टा जघन्या च स्थितिर्मूलप्रकृतिविषया सूत्रकारेणाभिहिता, विनेयानुग्रहार्थं तूत्तरप्रकृतिविषया प्रदर्श्यते-तत्रोत्कृष्टा स्त्रीवेदसातवेदनीयमनुजगत्यानुपूर्वीणां चतसृणामुत्तरप्रकृतीनां पञ्चदश सागरोपमकोटीकोट्यः, कषायषोडशकस्य चत्वारिंशन्नपुंसकारतिशोकभयजुगुप्सानां पञ्चानां विंशतिः, पुंवेदहास्यरतिदेवगत्यानुपूर्वीद्वयाद्यसंहननसंस्थानप्रशस्तविहायोगतिस्थिरशुभसुभगसुखदादेययशःकीयुच्चैर्गोत्राणां पञ्चदशानां दश न्यग्रोधसंस्थानद्वितीयसंहननयोर्द्वादश सातिसंस्थाननाराचसंहननयोश्चतुर्दश कुब्जार्द्धनाराचयोः षोडश वामनसंस्थानकीलिकासंहननद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्याप्तकसाधारणानामष्टानामष्टादश तिर्यग्मनुष्यायुषोः पल्योपमत्रयं, अवशिष्टानां तु मूलप्रकृतिवदुत्कृष्टा स्थितिः, . जघन्या तु निद्रापञ्चकासातावेदनीयानांषण्णांसागरोपमसप्तभागास्त्रयः पल्योपमासङ्ख्येयभागन्यूनाः सातस्य तु द्वादश मुहूर्ताः मिथ्यात्वस्य पल्योपमासङ्घयेयबागोनं सागरोपमं आद्य- . 29/15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org