SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २२६ उत्तराध्ययन-मूलसूत्रम्-२-३३/१३७५ कषायद्वादशकस्य चत्वारः सागरोपमसप्तभागास्तावतैव न्यूनाः, क्रोधस्य संज्वलनस्य मासद्वयं मानस्य मासो मासार्द्ध मायायाः पुंवेदस्याष्टो वर्षाणि शेषनोकषायमनुष्यतिर्यग्गतिजाति पञ्चकौदारिकशरीरतदङ्गोपाङ्गतैजसकार्मणसंस्थानषट्कसंहननषट्कवर्णचतुष्क-तिर्यग्मनुष्यानुपूर्व्यगुरुलधूपघातपराघातोच्छ्वासातपोद्योतप्रशस्ताप्रशस्तविहायोगतियश:कीर्तिवर्जत्रसादिविंशतिनिर्माणनीचैर्गोत्राणां षट्पष्टयुत्तरप्रकृतीनांसागरोपमसप्तभागौ द्वौ पल्योपमासङ्ख्येयभागन्यूनौ वैक्रियषट्कस्य सागरोपमसहस्रभागौ द्वौ पल्योपमासङ्ख्येय-भागन्यूनौ आहारकतदङ्गोपाङ्गतीर्थकरनाम्नमन्तःसागरोपमकोटीकोटी, ननूत्कृष्टाऽपि एतावत्ये-वासां तिसृणां स्थितिरभिहिता, सत्य, तथाऽपि ततः सङ्घयेयगुणहीनत्वेनास्या जघन्यत्वमिति सम्प्रदाय:, कृतं प्रसङ्गेन प्रकृतं प्रस्तुम इति, तत्र यदुक्तं प्रदेशाग्रं क्षेत्रकालौ च भावं चो(चात उ)त्तरं शृण्विति तत्र प्रदेशाग्रं क्षेत्रकालो चाभिहितो, सम्प्रति भावमभिधातुमाहमू. (१३८१) सिद्धाननंतभागो, अनुभागा हवंति उ। सव्वेसुवि पएसाग, सव्वजीवेसु (स) इच्छियं ।। वृ. 'सिद्धानाम्' मुक्तानामनन्तभागवर्तित्वादनन्तभागः 'अनुभागाः' रसविशेषा भवन्ति "तुः' पूरणे' अयं चानन्तभागोऽनन्तसङ्ग्य एवेति, अनेनैषामानन्त्यमेवेत्थं विशिष्टमुक्तं, सम्प्रति प्रदेशपरिमाणमाह-सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा-बुद्धा विभज्यमानास्तदविभागैकदेशास्तेषामग्रं प्रेदशाग्रं 'सव्वजीवेसुनिज्झि(इच्छि)यंति 'सर्वजीवेभ्यः भव्याभव्येभ्योऽतिक्रान्तं ततोऽपि तेषाममन्तगुणत्वेनादिकत्वादिति सूत्रार्थः । __ एवं प्रकृतिप्रदर्शनेन प्रकृतिबन्धप्रदेशाग्राभिधानेन च प्रदेशबन्धं कालोक्त्या च स्थितिबन्धं अनेन चानुभागमभिधाय यदर्थमेते प्ररूपितास्तदुपदर्शयन्नुपसंहारव्याजेनोपदेष्टुमाहमू.(१३८२) तम्हा एएसि कम्माणं, अनुभागे वियाणिया। - एएसिं संवरे चेव, खवणे य जए बुहे। तिबेमि॥ . वृ. 'तम्ह'त्ति यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मात् ‘एतेषाम्' अनन्तरमुक्तानां कर्मणां' ज्ञानावरणादीनामनुभागानुपलक्षणत्वात्प्रकृतिबन्धादीश्च 'विज्ञाय' विशेषेण-कटुकविपाकत्वलक्षणेन भवहेतुत्वलक्षणेन वाऽवबुध्य, अनुभागानामेव च साक्षादुपादानमेषामेवाशुभानां प्रायो भवनिर्वेदहेतुत्वात्, 'एषाम्' इति कर्मणां संवरे' अनुपात्तानामुपादाननिरोधे 'च:' समुच्चये 'एवे' त्यवधारणे भिन्नक्रमस्ततः 'क्षपणे च' उपात्तानां निर्जरणे 'जेए'त्ति यतेतैव' यत्नं कुर्यादेव, कोऽसौ ? -“बुधः' तत्त्वावगमवानिति सूत्रार्थः ।। अमुमेवार्थमनुवादद्वारेण व्यक्तीकर्तुमाह नियुक्तिकृत्नि. [५३७] पगइठिई अनुभागं पएसकम्मं च सुट्ट नाऊणं। । एएसिं संवेर खलु खवणे उसयावि जइअव्वं ॥ वृ. स्पष्टैव । 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् । इत्यवसितोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वत्॥ __अध्ययनं-३३-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे - त्रयस्त्रिंशमध्ययनं सनियुक्तिः सटीकं समाप्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy