Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 231
________________ २२८ भेदेन प्रक्रमा - ज्जीवानां भवति 'सप्तविधा' सप्तप्रकारा इहापि लेश्येति प्रक्रमः, अत्र च जयसिंहसूरिः कृष्णादयः षट् सप्तमी संयोगजा इयं च शरीरच्छायात्मका परिगृह्यते, अन्ये त्वौदारिकौदारिकमि श्रमित्यादिभेदतः सप्तविधत्वेन जीवशरीरस्य तच्छायामेव कृष्णादिवर्णरूपां नोकर्मणि सप्तविधां जीवद्रव्यलेश्यां मन्यन्ते, तथा 'अजीवकम्मणो दव्वलेस'त्ति अजीवानां 'कम्मणो 'त्ति आर्षत्वान्नोकर्मणि द्रव्यलेश्या अजीवनोकर्मद्रव्यलेश्या, तुशब्दस्येह सम्बन्धात्सा पुनर्दशविधा ज्ञातव्या, चन्द्राणां सूर्याणां च ग्रहा-मङ्गलादयस्तद्गणश्च नक्षत्राणि च - कृत्तिकादीनि ताराश्च प्रकीर्णज्योतींषि ग्रहगणनक्षत्रतारास्तेषाम्, आभरणानि च एकावलिप्रभृतीनि आच्छादनानि च सुवर्णचरितादीनि आदर्शा एवादर्शका-दर्पणास्ते चाभरणाच्छादनादर्शकास्तेषां, तथा मणिश्च - मरकतादिः काकिणिः - चक्रवर्तिरत्नं मणिकाकिण्यौ तयोर्या लेशयति-श्लेषयतीवात्मनि जननयनानीति लेश्या - अतीव चक्षुराक्षेपिका स्निग्धदीप्तरूपा छाया अजीवद्रव्यलेश्या प्रक्रमान्नोकर्मणि ज्ञातव्या दशविधैषा, अत्र च चन्द्राविशब्दैस्तद्विमानानि ‘तास्थ्यात्तद्यपदेश' इति न्यायेनोच्यन्ते, तेषां च पृथ्वीकायरूपत्वेऽपि स्वकायपरकायशस्त्रोपनिपातसम्भवात् तत्प्रदेशानां केषाञ्चिदचेतनत्वेनाजीवद्रव्यलेश्यात्वं द्रष्टव्यम्, उपलक्षणं चात्र दशविधत्वमेवंविधद्रव्याणां रजतरूप्यताम्रादीनां बहुतरत्वेन तच्छायाया अपि बहुतरभेदसम्भवात्, इत्थं नोकर्मद्रव्यलेश्यामभिधाय कर्मद्रव्यलेश्यामाह - या कर्मद्रव्यलेश्याऽग्रेतनतुशब्दसम्बन्धात्सा पुनः ‘नियमात्' अवश्यम्भावात् षड्विधा 'ज्ञातव्या' अवबोद्धव्या, कथमित्याह-कृष्णा नीला 'काउ'त्ति कापोता 'तेउ' तैजसी पद्मा च शुक्ला चेति, इह च कर्मद्रव्यलेश्येति सामान्याभिधानेऽपि शरीरनामकर्मद्रव्याण्येव कर्मद्रव्यलेश्या, यदुक्तं प्रज्ञापनावृत्तिकृता"योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या ?, यस्मात्सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति, ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति, अतोऽवगम्यते-योगपरिणामो लेश्यति, स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तं“कर्म हि कार्मणस्य कार्यमन्येषां च शरीराणा" मिति, तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेष: काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापारहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो यः स वाग्योगः, तथैवौदारिकादिशरीरव्यापाराहतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो यः स मनोयोग इति, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्याऽपी" ति गुरवस्तु व्याचक्षते - कर्मनिस्यन्दो लेश्या, यतः कर्मस्थितिहेतवो लेश्या:, यथोक्तम् उत्तराध्ययन- - मूलसूत्रम् - २-३४/१३८३ "ताः कृष्णनीलकापोततेजसीपद्मशुक्लनामानः । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः ॥ इति, योगपरिणामत्वे तु लेश्यानां "योगा पर्याडपएसं ठिईअनुभागं कसायओ कुणति"त्ति वचनात्प्रकृतिप्रदेशबन्धहेतुत्वमेव स्यात् न तु कर्मस्थितिहेतुत्वं, कर्मनिस्यन्दरूपत्वे तु यावत्कषायोदयस्तावत्तन्निस्यन्दस्यापि सद्भावात्कर्मस्थितिहेतुत्वमपि युज्यत एव, अत एवोपशान्तक्षीणमोहयोः कर्मबन्धसद्भावेऽपि न स्थितिसम्भवो, यदुक्तम् "तं पढमसमये बद्धं बीयसमये वेइयं ततियसमए निज्जिन्नं" ति, आह- यदि कर्मनिस्यन्दो For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316