________________
२२८
भेदेन प्रक्रमा - ज्जीवानां भवति 'सप्तविधा' सप्तप्रकारा इहापि लेश्येति प्रक्रमः,
अत्र च जयसिंहसूरिः कृष्णादयः षट् सप्तमी संयोगजा इयं च शरीरच्छायात्मका परिगृह्यते, अन्ये त्वौदारिकौदारिकमि श्रमित्यादिभेदतः सप्तविधत्वेन जीवशरीरस्य तच्छायामेव कृष्णादिवर्णरूपां नोकर्मणि सप्तविधां जीवद्रव्यलेश्यां मन्यन्ते, तथा 'अजीवकम्मणो दव्वलेस'त्ति अजीवानां 'कम्मणो 'त्ति आर्षत्वान्नोकर्मणि द्रव्यलेश्या अजीवनोकर्मद्रव्यलेश्या, तुशब्दस्येह सम्बन्धात्सा पुनर्दशविधा ज्ञातव्या, चन्द्राणां सूर्याणां च ग्रहा-मङ्गलादयस्तद्गणश्च नक्षत्राणि च - कृत्तिकादीनि ताराश्च प्रकीर्णज्योतींषि ग्रहगणनक्षत्रतारास्तेषाम्, आभरणानि च एकावलिप्रभृतीनि आच्छादनानि च सुवर्णचरितादीनि आदर्शा एवादर्शका-दर्पणास्ते चाभरणाच्छादनादर्शकास्तेषां, तथा मणिश्च - मरकतादिः काकिणिः - चक्रवर्तिरत्नं मणिकाकिण्यौ तयोर्या लेशयति-श्लेषयतीवात्मनि जननयनानीति लेश्या - अतीव चक्षुराक्षेपिका स्निग्धदीप्तरूपा छाया अजीवद्रव्यलेश्या प्रक्रमान्नोकर्मणि ज्ञातव्या दशविधैषा, अत्र च चन्द्राविशब्दैस्तद्विमानानि ‘तास्थ्यात्तद्यपदेश' इति न्यायेनोच्यन्ते, तेषां च पृथ्वीकायरूपत्वेऽपि स्वकायपरकायशस्त्रोपनिपातसम्भवात् तत्प्रदेशानां केषाञ्चिदचेतनत्वेनाजीवद्रव्यलेश्यात्वं द्रष्टव्यम्, उपलक्षणं चात्र दशविधत्वमेवंविधद्रव्याणां रजतरूप्यताम्रादीनां बहुतरत्वेन तच्छायाया अपि बहुतरभेदसम्भवात्, इत्थं नोकर्मद्रव्यलेश्यामभिधाय कर्मद्रव्यलेश्यामाह - या कर्मद्रव्यलेश्याऽग्रेतनतुशब्दसम्बन्धात्सा पुनः ‘नियमात्' अवश्यम्भावात् षड्विधा 'ज्ञातव्या' अवबोद्धव्या, कथमित्याह-कृष्णा नीला 'काउ'त्ति कापोता 'तेउ' तैजसी पद्मा च शुक्ला चेति, इह च कर्मद्रव्यलेश्येति सामान्याभिधानेऽपि शरीरनामकर्मद्रव्याण्येव कर्मद्रव्यलेश्या, यदुक्तं प्रज्ञापनावृत्तिकृता"योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या ?, यस्मात्सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति, ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति, अतोऽवगम्यते-योगपरिणामो लेश्यति, स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तं“कर्म हि कार्मणस्य कार्यमन्येषां च शरीराणा" मिति, तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेष: काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापारहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो यः स वाग्योगः, तथैवौदारिकादिशरीरव्यापाराहतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो यः स मनोयोग इति, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्याऽपी" ति गुरवस्तु व्याचक्षते - कर्मनिस्यन्दो लेश्या, यतः कर्मस्थितिहेतवो लेश्या:, यथोक्तम्
उत्तराध्ययन- - मूलसूत्रम् - २-३४/१३८३
"ताः कृष्णनीलकापोततेजसीपद्मशुक्लनामानः । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः ॥ इति,
योगपरिणामत्वे तु लेश्यानां "योगा पर्याडपएसं ठिईअनुभागं कसायओ कुणति"त्ति वचनात्प्रकृतिप्रदेशबन्धहेतुत्वमेव स्यात् न तु कर्मस्थितिहेतुत्वं, कर्मनिस्यन्दरूपत्वे तु यावत्कषायोदयस्तावत्तन्निस्यन्दस्यापि सद्भावात्कर्मस्थितिहेतुत्वमपि युज्यत एव, अत एवोपशान्तक्षीणमोहयोः कर्मबन्धसद्भावेऽपि न स्थितिसम्भवो, यदुक्तम्
"तं पढमसमये बद्धं बीयसमये वेइयं ततियसमए निज्जिन्नं" ति, आह- यदि कर्मनिस्यन्दो
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International