Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
१९२
उत्तराध्ययन-मूलसूत्रम्-२-३१/१२३८ उक्तं हि - 'गाहासोलसमं होइ अज्झयणं" ततश्च गाथाध्ययनं पोडशं येषु तानि गाथापोडशकानि 'शेषाद्विभाषे'ति कप, सुळ्यत्ययातेषु समयादिपु सूत्रकृताध्ययनेषु, उक्तञ्च
"समओ १ वेलालीयं २ उवसग्गपरिन्न ३ थोपरित्रा य ४ ।
निरयविभत्ती ५ वीरत्थओ य ६ कुसीलाण परिभासा ७ ॥१॥ वीरिय ८ धम्म ९ समाहि १० मग्ग ११ समोसरण १२ अहतहं १३ गंथो १४ ।
यमदीयं १५ तह गाहा १६ सोलसमं होइ अज्झयणं ।।२।।" तथा संयमनं संयमो न संयमोऽसंयमः स च सप्तदशभेदः पृथिव्यादिविपयः, तथात्वं चास्य तत्प्रतिपक्षस्य संयमस्य सप्तदशभेदत्वात्, यदुक्तम्
"पुढविदगअगनिमारुयवनप्फतीबितिचऊपणिदिअज्जीवे।
पेहोपेहपमज्जणपरिठ्ठवणमणोवईकाए ।।" तस्मिंश्च यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानतोऽन्यत्र तु परिहारतः। मू.(१२३९) बंभंमि नायज्झयणेसु, ठाणेसु यऽसमाहिए।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले।। वृ. 'ब्रह्मणि' ब्रह्मचर्येऽष्टादशमेदभिन्ने, उक्तं हि
"ओरालियं च दिव्वं मणवयकाएण करणजोएणं ।
अनुमोयणकारावणकरणाणऽट्ठारसाबंभं ।।२।।" ज्ञातानि-उदाहरणानि तत्प्रतिपादकान्यध्ययनानि ज्ञाताध्ययनानि तानि चोत्क्षिप्तज्ञातादीन्येकानविंशतिस्तेषु, यदुक्तम्
"उक्खित्तणाए १ संघाडे २, अंडे ३ कुम्मे ४ सेलए ५। तुंबे य ६ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा इय १० ||१||
दावदए ११ उदगणाए ११, मंडुक्को १३ तेयली इय १४ ।
नंदीफले १५ अवरकंका १६, आइन्ने १७ सुंस १८ पुंडरिए १९॥" 'स्थानेषु' आश्रयेषु कारणेष्वितियावत् कस्येत्याह-समाधिः-समाधानं ज्ञानादिषु चित्तैकाग्र्यं न समाधिरसमाधिस्तस्य, तानि च द्रुतं द्रुतं गमनादीनि विशंतिः, तथा च समवायाङ्गम्"वीसं असमाहिट्ठाणा पन्नत्ता, तंजहा-दवदवचारी यावि भवति १ अपमज्जचारी आवि भवति २ दुप्पमज्जियचारी भावि भवति ३ अतिरित्तसेज्जासणिए ४ रायणियपरिभासी ५ थेरोवघातिए ६ भूतोवघातिए ७ संजलणे ८ कोहणे ९ पिट्ठिमंसिए १० अभिक्खणं ओहारइत्ता भवति ११ नवाणं अहिगरनाणं अनुप्पन्नाणं उप्पाएत्ता भवति १२ पोराणाणं अहिगरणाणं खामियविओसवियाणं पुनोदीरिता भवति १३ ससरक्खपाणीपाए १४ अकालसज्झायकारए यावि भवति १५ सद्दकरे १६ कलहकरे १७ झंझकरे १८ सूरप्पमाणभोई १९ एसणाअसमिई यावि भवति २०॥" य भिक्षुर्यतते रक्षापरिज्ञानपरिहारादिभिः । मू.(१२४०) इक्कवीसाए सबलेसुं, बावीसाए परीसहे ।
___ जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ वृ. एकविंशतौ शबलयन्ति-कर्बुरीकुर्वन्त्यतीचारकलुषीकरणतश्चारित्रमिति शबला:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org