Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 204
________________ अध्ययनं - ३२, [ नि. ५३० ] एगोवि पावाइ विवज्जयंतो, विहरेज्ज कामेसु असज्जमानो ।। वृ. 'न' निषेधे वाशब्दश्चेदर्थे ततश्च न चेत् 'लभेत्' प्राप्नुयात् 'निपुणम्' इति निपुणबुद्धि 'सहायं' गुणैः -- ज्ञानादिभिरधिकम्--अर्गलं गुणाधिकं वा 'गुणत:' इति ज्ञानादिगुणानाश्रित्य 'समं वा' तुल्यमुभयत्रात्मन इति गम्यते, 'वे 'ति विकल्पे, ततः किमित्याह- 'एकोऽपि ' असहायोऽपि ‘पापानि’ पापहेतुभूतान्यनुष्ठानानि 'विवर्जयन्' विशेषेण परिहरन् 'पठ्यते च‘अनायरंतो’त्ति अनाचरन् 'विहरेत्' संयमाध्यवनि यायात् 'कामेषु' विषयेषु 'असजन्' प्रतिबन्धमकुर्वन्, तथाविधगीतर्थयतिविषयं चैतद्, अन्यथैकाकिविहारस्यागमे निषिद्धत्वात्, एतदविधाने च 'मध्यग्रहणे आद्यन्तयोरपि ग्रहणं भवती 'ति न्यायादाहारवसतिविषयोऽप्यपवाद उक्त एव भवतीति मन्तव्यम् ॥ इत्थं सप्रसङ्गं ज्ञानादीनां दुःखप्रमोक्षोपायत्वमुक्तम्, इदानीं तेषामपि मोहादिक्षयनिबन्धनत्वात्तत्क्षयस्यैव प्राधान्येन दुःखप्रमोक्षहेतुत्वख्यापनार्थं यथा तेषां सम्भवो यथा दुःखहेतुत्वं यथा च दुःखस्य प्रसङ्गतस्तेषां चाभावस्तथा वि (ऽभि) धातुमाहमू. ( १२५२ ) जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खं तण्हं, मोहं च तण्हाययणं वति ॥ २०१ वृ. 'यथा चे'त्ति येनैव प्रकारेणाण्डं - प्रतीतं ततः प्रभव - उत्पत्तिर्यस्याः साऽण्डप्रभवा 'बलाका' पक्षिविशेपः, अण्डं बलाकातः प्रभवतीति बलाकाप्रभवं यथा च, किमुक्तं भवति ?यथाऽनयोः परस्परमुत्पत्तिस्थानता 'एवमेव' अनेनैव प्रकारेण मोहयति- मूढतां नयत्यात्मानमिति मोह: - अज्ञानं तच्चेह मिथ्यात्वदोषदुष्टं ज्ञानमेव गृह्यते, उक्तं हि - "जह दुव्वयण वयणमित्यादि, आयतनम् उत्पत्तिस्थानं यस्याः सा मोहायतना तां 'खुः' अवधारणे ततो मोहायतनामेव 'तण्ह’न्ति तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यम्भावी तृष्णाक्षय इति, मोहं च तृष्णाऽऽयतनं यस्यासौ तृष्णायतनस्तं वदन्ति, तृष्णा हि सति मूर्च्छा, मू. (१२५३ ) रागो य दोसोविय कम्मबीयं, कम्मं च मोहप्पभव वयंति । कम्म च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥ वृ. सा चात्यन्तदुस्त्यजेति रागप्रधाना ततस्तया रागउपलक्ष्यते सति च तत्र द्वेषोऽपि संभवतीति सोऽप्यनयैवाक्षिप्यते ततस्तृष्णाग्रहणेन रागद्वेषावुक्तौ, एतयोश्चानन्तानुबन्धिकषायरूपयोः सत्तायामवश्यम्भावी मिथ्यात्वोदयः, अत एवोपशान्तकषायवीतरागस्यापि मिथ्यात्वगमनं, तत्र च सिद्ध एवाज्ञानरूपो मोहः, एतेन च परस्परं हेतुहेतुमद्भावाभिधानेन यथा रागादीनां सम्भवस्तथोक्तं, सम्प्रति यथैतेषां दुःखहेतुत्वं तथा वक्तुमाह ‘रागश्च' मायालोभात्मकः 'द्वेषोऽपि च ' क्रोधमानात्मकः कर्मज्ञानावरणादि तस्य बीजंकारणं कर्मबीजं, कर्मचस्य भिन्नक्रमत्वान्मोहात्प्रभवतीति मोहप्रभवं च मोहकारणं वदन्ति । 'चः' सर्वत्र समुच्चये 'कर्म च' इति कर्म पुनर्जातयश्च मरणानि च जातिमरणं तस्य 'मूलं' कारणं ‘दुःखं' संसारमसातपक्षे तु दुःखयतीति दुःखं, कोऽर्थः ? - दुःखहेतुं, चस्य् पुनरर्थस्य भिन्नक्रमत्वात् जातिमरणं पुनर्वदन्ति, तीर्थकरादय इति गम्यते, जातिमरणस्यैवातिशयदुःखोत्पादकत्वात्, उक्तं हि Jain Education International " मरणास्स जं दुक्खं, जायमाणस्स जंतुणो । For Private & Personal Use Only ----- www.jainelibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316