Book Title: Agam Suttani Satikam Part 29 Uttaradhyayanaani
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 221
________________ २१८ उत्तराध्ययन-मूलसूत्रम्-२-३२/१३५७ इति परिसमाप्तौ, ब्रवीमिति पूर्ववत् । अवसितोऽनुगमो, नयाश्च प्राग्वत् ।। अध्ययनं ३२ समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे द्वात्रिंशमध्ययनं सनियुक्तिः सटीकं परिसमाप्तम् अध्ययनं-३३-कर्मप्रकृतिः) वृ. व्याख्यातं प्रमादस्थानाख्यं द्वात्रिंशमध्ययनमिदानीं त्रयस्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने प्रमादस्थानान्युक्तानि, तैश्च 'मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः' इतिवचनात्कर्म बध्यते, तस्य च काः प्रकृतयः ? कियती वा स्थितिः ? इत्यादिसन्देहापनोदायेदमारभ्यते, अस्य च चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे कर्मप्रकृतिरिति नाम, अतः कर्मणः प्रकृतेश्च निक्षेपाभिधानायाह नियुक्तिकृत् नि. [५३१] कम्मंमि अ निक्खेवो चउव्विहो० ॥ नि. [५३२] जाणगभवियसरीरे तव्वइरित्ते च तं भवे दुविहं । कम्मे नोकम्मे या कम्मंमि अ अनुदओ भणिओ। नि. [५३३] नोकम्मदव्वकम्मं नायव्वं लेप्पकम्ममाईअं। भावे उदओ भणिओ कम्मट्टविहस्स नायव्वो।। नि. [५३४] निक्खेवो पयडीए चउव्वि० ।। नि. [५३५] जाणगभवियसरीरे तव्वइरित्ते च तं भवे दुविहं। कम्मे नोकम्मे या कम्ममि अ अनुदओ भणिओ॥ नि. [५३६] नोकम्मे दव्वाइं गहणपाउग्गमुक्कगाइं च। भावे उदओ भणिओ मूलपयडि उत्तराणं च ।। ७. कम्ममीत्यादि गाथाः षट् सुगमाः नवरं कर्मणि' ज्ञानावरणादिके उदयो-विपाकस्तदभावोऽनुदयो भणितः, किमुक्तं भवति?-अनुदयावस्थं कर्मैव कर्मकार्याकरणात् तद्व्यतिरिक्तं द्रव्यकर्म, नोकर्मद्रव्यकर्म ज्ञातव्यं लेप्यकर्मादिकम्, आदिशब्दात्काष्ठकर्मादिपरिग्रहः, नोकर्मता चास्य ज्ञानावरणादिकर्माभावरूपत्वात्, द्रव्यकर्मता च द्रव्यस्यप्रतिमादेः क्रियमाणत्वात्, 'भावे' विचार्ये प्रक्रमात्कर्म 'उदयः' विपाक: भणित:' उक्तः, अयं च कस्य सम्बन्धी ज्ञायताम् ? इत्याह-'कम्मट्ठविहस्स'त्ति प्राग्वदष्टविधकर्मणो ज्ञातव्यो, ज्ञानावरणाद्यष्टविधकर्मोदयावस्थं भावकर्म, तस्यैव कर्मकार्यकरणादिति भावः।। प्रकृतिनिक्षेपे कर्मणि-मूलप्रकृत्यादिरूपेऽनुदयस्तद्यतिरिक्ता द्रव्यप्रकृतिः, नोकर्माणि द्रव्याणि ग्रहणप्रायोग्यानि यान्यद्यापि तावन्न गृह्यन्ते ग्रहणयोग्यता चास्ति येषाम्, आर्षत्वात्सुपो लुक, तथा मुक्तान्येव मुक्तकानि-यानि कर्मतया परिणमय्य प्रोज्झितानि यथाक्रमं पुरस्कृतपश्चात्कृतपर्यायत्वाद्, 'भाव' इति भावे विचार्ये 'उदयः' विपाकः भणित:' उक्तः प्रकृतिरिति प्रक्रमः, कासामित्याह-'मूलपगडि उत्तराणं च' त्ति मूलप्रकृतीनामुत्तरप्रकृतीनां चेहैव वक्ष्यमाणानामिति ।। इत्यवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316